अर्थशास्त्र · अध्याय 01.17
रक्षितो राजा राज्यं रक्षत्य् आसन्नेभ्यः परेभ्यश् च, पूर्वं दारेभ्यः पुत्रेभ्यश् च ॥
दार.रक्षणं निशान्त.प्रणिधौ वक्ष्यामः ॥
"पुत्र.रक्षणं तु ॥
"जन्म.प्रभृति राज.पुत्रान् रक्षेत् ॥
कर्कटक.सधर्माणो हि जनक.भक्षा राज.पुत्राः ॥
तेषाम् अजात.स्नेहे पितर्य् उपांशु.दण्डः श्रेयान्" इति भारद्वाजः ॥
"नृशंसम् अदुष्ट.वधः क्षत्र.बीज.विनाशश् च" इति विशाल.अक्षः ॥
"तस्माद् एक.स्थान.अवरोधः श्रेयान्" इति ॥
अहि.भयम् एतद्" इति पाराशराः ॥
"कुमारो हि "विक्रम.भयान् मां पिता^अवरुणद्धि" इति ज्ञात्वा तम् एव^अङ्के कुर्यात् ॥
तस्माद् अन्त.पाल.दुर्गे वासः श्रेयान्" इति ॥
"औरभ्रं भयम् एतद्" इति पिशुनः ॥
"प्रत्यापत्तेर् हि तद् एव कारणं ज्ञात्वा^अन्त.पाल.सखः स्यात् ॥
तस्मात् स्व.विषयाद् अपकृष्टे सामन्त.दुर्गे वासः श्रेयान्" इति ॥
"वत्स.स्थानम् एतद्" इति कौणपदन्तः ॥
"वत्सेन^इव हि धेनुं पितरम् अस्य सामन्तो दुह्यात् ॥
तस्मान् मातृ.बन्धुषु वासः श्रेयान्" इति ॥
"ध्वज.स्थानम् एतद्" इति वात.व्याधिः ॥
"तेन हि ध्वजेन^अदिति.कौशिकवद् अस्य मातृ.बान्धवा भिक्षेरन् ॥
तस्माद् ग्राम्य सुखेष्व् एनम् अवसृजेत् ॥
सुख.उपरुद्धा हि पुत्राः पितरं न^अभिद्रुह्यन्ति" इति ॥
जीवन्.मरणम् एतद् इति कौटिल्यः ॥
काष्ठम् इव घुण.जग्धं राज.कुलम् अविनीत.पुत्रम् अभियुक्त.मात्रं भज्येत ॥
तस्माद् ऋतुमत्यां महिष्याम् ऋत्विजश् चरुम् ऐन्द्राबार्हस्पत्यं निर्वपेयुः ॥
आपन्न.सत्त्वायाः कौमार.भृत्यो गर्भ.भर्मणि प्रसवे च वियतेत ॥
प्रजातायाः पुत्र.संस्कारं पुरोहितः कुर्यात् ॥
समर्थं तद्विदो विनयेयुः ॥
"सत्त्रिणाम् एकश् च^एनं मृगया.द्यूत.मद्य.स्त्रीभिः प्रलोभयेत् "पितरि विक्रम्य राज्यं गृहाण" इति ॥
तम् अन्यः सत्त्री प्रतिषेधयेत्" इत्य् आम्भीयाः ॥
महा.दोषम् अबुद्ध.बोधनम् इत् कौटिल्यः ॥
नवं हि द्रव्यं येन येन^अर्थ.जातेन^उपदिह्यते तत् तद् आचूषति ॥
एवम् अयं नव.बुद्धिर् यद् यद् उच्यते तत् तत्.शास्त्र.उपदेशम् इव^अभिजानाति ॥
तस्माद् धर्म्यम् अर्थ्यं च^अस्य^उपदिशेन् न^अधर्म्यम् अनर्थ्यं च ॥
सत्त्रिणस् त्व् एनं "तव स्मः" इति वदन्तः पालयेयुः ॥
यौवन.उत्सेकात् पर.स्त्रीषु मनः कुर्वाणम् आर्या.व्यञ्जनाभिः स्त्रीभिर् अमेध्याभिः शून्य.आगारेषु रात्राव् उद्वेजयेयुः ॥
मद्य.कामं योग.पानेन^उद्वेजयेयुः ॥
द्यूत.कामं कापटिकैर् उद्वेजयेयुः ॥
मृगया.कामं प्रतिरोधक.व्यञ्जनैस् त्रासयेयुः ॥
पितरि विक्रम.बुद्धिं "तथा" इत्य् अनुप्रविश्य भेदयेयुः - "अप्रार्थनीयो राजा, विपन्ने घातः, सम्पन्ने नरक.पातः, संक्रोशः, प्रजाभिर् एक.लोष्ट.वधश् च" इति ॥
विरागं वेदयेयुः ॥
प्रियम् एक.पुत्रं बध्नीयात् ॥
बहु.पुत्रः प्रत्यन्तम् अन्य.विषयं वा प्रेषयेद् यत्र गर्भः पण्यं डिम्बो वा न भवेत् ॥
आत्म.सम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ॥
बुद्धिमान्.आहार्य.बुद्धिर् दुर्बुद्धिर् इति पुत्र.विशेषाः ॥
शिष्यमाणो धर्म.अर्थाव् उपलभते च^अनुतिष्ठति च बुद्धिमान् ॥
उपलभमानो न^अनुतिष्ठत्य् आहार्य.बुद्धिः ॥
अपाय.नित्यो धर्म.अर्थ.द्वेषी च^इति दुर्बुद्धिः ॥
स यद्य् एक.पुत्रः पुत्र.उत्पत्ताव् अस्य प्रयतेत ॥
पुत्रिका.पुत्रान् उत्पादयेद् वा ॥
वृद्धस् तु व्याधितो वा राजा मातृ.बन्धु.कुल्य.गुणवत्.सामन्तानाम् अन्यतमेन क्षेत्रे बीजम् उत्पादयेत् ॥
न च^एक.पुत्रम् अविनीतं राज्ये स्थापयेत् ॥
कz01.17.52अब्। बहूनाम् एक.सम्रोधः पिता पुत्र.हितो भवेत् ।
कz01.17.52च्द्। अन्यत्र^आपद ऐश्वर्यं ज्येष्ठ.भागि तु पूज्यते ॥
कz01.17.53अब्। कुलस्य वा भवेद् राज्यं कुल.संघो हि दुर्जयः ।
कz01.17.53च्द्। अराज.व्यसन.आबाधः शश्वद् आवसति क्षितिम् ॥ए
(ठे चोन्दुच्त् ओf अ प्रिन्चे इन् दिस्fअवोउर्)
(बेहविओउर् तोwअर्द्स् अ प्रिन्चे इन् दिस्fअवोउर्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0