आपस्तम्बशुल्बसूत्र · अध्याय 2
प्रथमःखण्डः
मध्ये लक्षणमर्धमध्यमयोश्व--पाशलक्षमयोर्मध्य इत्यर्थः ।
पाशयोर्लक्षणेष्विति शङ्कुं निहत्य, उपान्त्ययोर्द्वितीयचतुर्थयोः पाशौ प्रतिमुच्य मध्यमेन लक्षणेन दक्षिणापसार्य, निमित्तं साध्यनिमित्तं काकपदं कृत्वा, मध्यमे पाशौ प्रतिमुच्य, उपर्युपरि काकपदं तेनैव लक्षणेन दक्षिणापसार्य, शुङ्कं निहत्य, तस्मिन्नेकतरं पाशं प्रतिमुच्य, पूर्वस्मिन् शङ्कावितरं पाशन्तेनैव लक्षणेन दक्षिममंसमायच्छेत् ।
तत्र शङ्कुं निहन्यात् ।
स दक्षिणासः ।
एवमुत्तरतः पूर्वस्मात्पाशमुन्मुच्यापरस्मिन् प्रतिमुच्य, तेनैव लक्षणेन दक्षिणा श्रोणी ।
एवमुत्तरतः पक्षः ।
तत्र इयान्विशेषः--श्रोणी पूर्वं पश्चादंसः ।
करविन्दीया व्याख्या
ननु चतुरश्रस्येति कथं लभ्यते? तत्करणीभूतपार्श्वमान्यादिदर्शनात् ।
समस्येति कथं? कुरत इति द्विवचननिर्देशात्, अक्ष्णयारज्जुरित्येकवचननिर्देशाच्च ।
कुरुत इति द्विवचननिर्देशे कृते सति एकप्रकारा पार्श्वमानी तिर्यङ्भानी चोति गम्यते ।
तथाक्ष्णयारज्जुरित्येकवचननिर्देशात् साचाप्येकप्रकारोति ज्ञायते ।
विषमो ऽपि दीर्घचतुरश्रो विद्यत एव ।
यक्याक्ष्णयारज्जू अन्योयं समे भवतः स निवर्त्यते ।
समस्येति लभ्यते ।
पृथग्ग्रहणस्य संसर्गविशेषणत्वनिवृच्यर्थम् ।
दीर्घचतुरश्रस्याक्ष्णयारज्जुरियत्करोतीत्युक्तं, समस्य सा कियत्करोतीत्यत आह--
(चतुरश्च करोति)
समस्य चतुरश्रस्याक्ष्णयारज्जुद्द्विंस्तावतींद्विगुणां ।
यस्या भूमेरियमक्ष्णयारज्जुः तावद्द्विगूणां भूमिं करोति ।
द्विगुणाया भूमेः करणीभवतीत्यर्थः ।
द्विस्तावतीति मयूरव्यंसकादिलक्षणःसमासः ।
नन्वक्ष्णयारज्जुरित्येकवचननिर्देशात् समचतुरश्रा "अनुपपदत्वा च्छब्दस्येतिऽ न्यायाच्च द्वितीयापि तादृश्येवेति विज्ञायते ।
तेन समस्येयं न विषमस्येति गम्यते ।
अतः किमर्तं समशब्दः? ।
उच्यते--एवं तर्हि मिश्रणार्थः समशब्दः ।
द्विस्तावीं भूमिं युगपदेव एकीकृत्य करतीति ।
उत्तरार्थो वा सम शब्दः ।
ननु पूर्वसूत्र एव दीर्घशब्दमपहाय चतुरश्रस्येत्यस्तु तेनास्यापि सिद्धिर्भवत्येव, सत्यं--तथासत्युक्तन्यायेन समस्यैव तत्स्याभ दीर्घस्य, तस्मात् पृथगेवमेव वक्तव्यम् ।
प्रकृतोपजीवनेन संज्ञां विधातुमाह--
(सविसेषः.)
समस्य चतुरश्रस्याक्ष्णयारज्जुः सा द्विकरणीसंज्ञा भवति ।
अन्वर्थैषा संज्ञा, द्वयोःकरणी द्विकरणीति ।
ननु पूर्वसूत्रेणैव द्विकरणीत्वे सिद्धे अयुक्ता संज्ञा, सत्यं, द्विकरणीत्वं सिद्धन्तथापि दीर्घत्रिकोणादीनामपि द्विकरण्यःसन्ति, तत्र द्विकरणीत्युक्ते अस्या एव ग्रहणं यथा स्यादित्येवमर्थं संज्ञा ।
ननु सा द्विकरणीत्येव वक्तव्यं, समग्रहणं किमर्थं? वक्ष्यमाणापि संज्ञा समद्विकरणीविषया यथा स्यादिति ।
समग्रहणस्य पूर्वसूत्रविषयत्वे अत्र सामर्थ्यात्तत्सिद्धिः ।
द्विकरण्या एव प्रकारान्तरमाह--
समचतुरश्रस्य प्रमाणमायामं तत्तृतीयेन वर्धयेद्वृद्धिं गमयेत्, तच्च तृतीयं स्वचतुर्थेंन तृतीयस्य चतुर्थभागेनेत्यर्थः ।
आत्मचतुस्त्रिशोनेन आत्मशब्देन चतुर्थो भागः परामृश्यते ।
वर्धयेदित्येव, स विशेषः--तस्य विशेष इति संज्ञा ।
तृतीयादिना येन वृद्धं प्रमाणं तस्य विशेषसंज्ञा ।
यथा--द्वादशाङ्गुलं प्रमाणं चतुरङ्गुलेन वर्धयेत्, तच्चतुरङ्गुलमेकाङ्गुलेन तिलोनेन वर्धयेत् ।
चतुर्विंशत्तिलाः पृथुसंश्लिष्टा अङ्गुलिरिति प्रमाणविदो मन्यन्ते ।
वक्ष्यति, "अर्धे तद्विशेषमभ्यस्य बाह्यविशेषाभ्यां परिगृह्णीयात्ऽ इत्यादि ।
कथं, मध्यमे सविशेषं प्रतिमुच्य चतुर्थेन चतुर्थसविशेषेणेत्येवमादि ।
अत्र सह विशेषेण वर्तत इति स विशेषः ।
विशेषसहितं प्रमाणमेव सविशेष इत्यवगन्तव्यम् ।
किमर्थं महती संज्ञा, अन्वर्थैषा यथा स्यादिति, तत्कथं विपूर्वःशिषिरतिशयवाची, " शिषिरसर्वोपादाने, विपूर्वो ऽतिशये ऽ इत्युपदेशात् ।
अक्ष्णयारज्जुभूतद्विकरण्याः प्रमाणातिरिक्तादंशात् किञ्चिद्विसिष्यते अतिरिच्यत इति विशेषः ।
यद्वा ततः किञ्चित् क्षेत्रं विशेषयति अतिरेचयति मानकाल इति वा विशेषः ।
तथाहि--चतुस्त्रिंशत्तिला अङ्गुलिरित्युक्तम् ।
द्वादशाङ्गुलस्य तिलवर्गः--एकं नियुतं षडयुतानि षट् सहस्राणि चतुवारि शतानि ।
तिलोनसप्तदशाङ्गुलस्य तिलवर्गः--त्रीणि नियुतानि त्रीण्ययुतानि द्वे सहस्रे नव शतानि विंशतिर्नव च तिलप्रमाणानि चतुरश्रक्षेत्राणि ।
अत्रैकं तिलं चतुरश्रक्षेत्रद्विगुणादतिरिच्यते ।
ततस्तस्य विशेष इति संज्ञा ।
वेणुना सविशेषेण मीयमाने ऽग्नौ प्रमीयमाने त्वात्मनि यत् क्षेत्रमतिरिच्येत तेन नीवारशूकमात्रमपि सर्वथातिरिक्तं न भवति तन्नथूने ततो ऽल्पतरमिति द्विकरणीकार्ये सविशेषव्यवहारः ।
इदानीं प्रासङ्गिकमेकं विहरणं व्याख्याय विहरणान्तरमाह--
(अथापरंअश्रोण्यंसौ)
अथापरं विहरणं--व्याख्यास्याम इति शेषः, प्रमाणमात्रीं अयाममात्रीं रज्जुं उभयतःपाशां आद्यन्तयोः पाशयुक्तां, मध्ये लक्षणं निरञ्जनार्थं, अर्धमध्ययोः पूर्वार्धमध्ये अपरार्धमध्ये च लक्षणद्वयं निरञ्जनं कृत्वा पृष्ठ्यायां मातव्यभूतलमध्यलेखायां रज्जुमायम्य--प्रसार्य पाशयोर्लक्षणोष्विति पञ्च शङ्क्वोः पाशौ प्रतिमुच्य मध्येन निरञ्जनभूतेन दक्षिणापायम्य, निमित्तं--चिह्नं करोति ।
निमित्तं दिक्संदर्शनार्थम् ।
मध्यमे शङ्कौ पाशौ प्रतिमुच्य, उपर्युपरिनिमित्तं तस्योपरिष्टादासन्नतरं दक्षिणापायम्य, रज्जुं तदन्ते शङ्कुं निकाय, मध्यमाच्छङ्कोः पाशावुन्मुच्य, दक्षिणशङ्कावेकं पाशं प्रतिमुच्य, पूर्वस्मिन् शङ्कानितरं पाशं प्रतिमुच्य, निरञ्जनेन दक्षिणमंसं प्रत्यायच्छेत् ।
रज्जुं यथा दक्षिणांसःसंपद्यते तथाछऽऽयच्छेत् ।
एवमेव दक्षिणां श्रोणिमायच्छेदित्येवमादीनि उन्मुच्य, पूर्वस्मादित्यादीन्युत्तराणि सूत्राणि ।
पञ्चशङ्कुरयं योगःसमचतुरश्रविषयः ॥
सुन्दरराजीया
(चतुरश्च करोति)
चतुरश्रस्येत्यविशेषात् समस्येत्यत्रापि संबध्यते ।
अथवा उत्तरसूत्रगतं समस्येति पदमत्रापि संबध्यते ।
समस्य द्विकरणी ।
अनन्तरोक्ता समस्य चतुरश्रस्याक्ष्णयारज्जुः द्विकरणीसंज्ञिसा ।
तावतोर्द्वयोः क्षेत्रयोः करणात् ।
तस्य ज्ञानोपायमाह--
(प्रमाणंअशोनेन.)
यथा--द्वादशाङ्गुलस्य प्रमाणस्य तृतीयं चतुरङ्गुलं, तस्य चतुर्थमङ्गुलिः अङ्गुलेश्वतुस्त्रिंशो भागस्तिलमात्रम् ।
एवं द्वादशाङ्गुलस्याक्ष्णयारज्जुस्तिलोनसप्रदशाङ्गुला ।
तथा अष्टाचत्वारिंशदङ्गुलस्याक्ष्णयारज्जुः चतुस्तिलोना अष्टषष्ट्यङ्गुलेत्यादि ।
(सविशेषः.)
यो ऽक्ष्णयारव्ज्जा प्रमाणादतिरिक्तो ऽंशः स विशेषसंज्ञः ।
"अर्धे तद्विशेषमभ्यस्यऽ इत्याद्युदाहरणम् ॥
(अथापरंअश्रोण्यंसौ)
अर्धयोर्मध्ये अर्धमध्ये ।
उपान्त्ययोः-द्वितीयचतुर्थयोःशङ्क्वोः ।
निमित्तं--चिह्नम् ।
स्पष्टमन्यत् ।
एष योगःसमचतुरश्चविषयः ।
एवमुत्तरतः ॥
कपर्दिभाष्यम्
अथापरोयोगः
विहरणाविशेषः इत्यर्थः ॥
पृष्ठ्यान्तयोर् मध्ये च शङ्कून् निहत्यार्धे ऽर्धे तद्विशेषम् अभ्यस्य लक्षणं कृत्वार्धमगमयेत् । अन्त्ययोः पाशौ कृत्वा मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्न् इतरं लक्षणेन दक्षिणमङ्कम् आयच्छेत् । उन्मुच्य पूर्वस्माद् अपरस्मिन् प्रतिमुच्य लक्षणेनैव दक्षिणां श्रोणिम् आयच्छेत् । एवम् उत्तरौ श्रोण्यंसौ
चतुरश्रप्रमाणान्तयोःशङ्कुं निहत्य तयोर्मध्ये च शङ्कुं निहत्य अर्धे--प्रमाणार्धे, तद्विशेषं--तस्यार्धस्य विशेषं, प्रमाणं तृतीयेन वर्धयेदिति न्यायेन लक्षणं कृत्वा पुनरागमयेत् प्रक्षिपेत् ।
अन्त्ययोः पाशौ कृत्वा मध्यमे शङ्कौ सविशेषं पाशं प्रतिमुच्य पूर्वस्मिन् शङ्कौ इतरं पाशं प्रतिमुच्य लक्षणेन दक्षिणेनापसार्य शङ्कुं निहन्यात् ।
स दक्षिणांसः ।
पूर्वस्माच्छङ्कोः पाशमपरस्मिन् शङ्कौ प्रतिमुच्य तेनैव लक्षणेन दक्षिणं श्रोणिमायच्छेत् ।
तेनैवोदगपसार्य उत्तरां श्रोणिं विपर्यस्योत्तरमंसम् ॥
योगद्वयमिदं समचतुरश्रस्य सम्यक् ॥
करविन्दीया व्याख्या
(अथापरो श्रोण्यंसौ)
प्रमाणमात्रीं रज्जुमित्येव, विहरणोपायो योग इत्युक्तं, पृष्ठ्यान्तयोः मध्ये च शङ्कुं निहत्य ।
व्याख्यातमेतत् ।
अर्धेप्रमाणामात्रचा रज्ज्वा अर्धे तद्विशेषमभ्यस्य संयोज्य लक्षणं कृत्वा सूत्रसविशेषार्धान्ते अर्धं आगमयेत् शिष्टं यथा प्रमाणं भवति तथाऽगमयेत्, अयमर्थः--अर्धद्विकरणीमात्रीं केवलार्धमात्रीं च एकां रज्जुं मीत्वार्धद्विकरणी मात्रे लक्षणं कृत्वा रज्ज्वन्तौ पाशौ कृत्वा मध्यमे शङ्कौ सविशेषमर्धं प्रतिमुच्य पूर्वस्मिन् शङ्कौ केवलमर्धं प्रतिमुच्य लक्षणेन दक्षिणमंसमायच्छेत्--कुर्यात् ।
उन्मुच्य पूर्वस्मादिति स्पष्टार्थः ।
अयमपि योगःसमचतुरश्रविषय एव ।
अर्धे तद्विशेषमिति प्रमामसविशेषयोः प्रस्तुतत्वात् प्रसङ्गेनोच्यते ।
सुन्दरराजीया
(अथापरो श्रोण्यंसौ)
अर्धे--प्रमाणार्धमात्रे शुल्बे ।
तद्विशेषंअर्धस्यैव विशेषं अभ्यस्य तद्विशेषान्ते लक्षणं कृत्वा अन्यदर्धं निर्विरोषमागमयेत् ।
यथा--गार्हपत्यचितेः षण्णवत्यङ्गुलाया अन्तययोर्मध्ये च शङ्कून्निहत्य अर्वे ऽष्टाचत्वारिंशदङ्गुले तद्विरोषं चतुस्तिलोनं विंशत्यङ्गुलमभ्यस्य लक्षणं कृत्वान्यदर्धं अष्टाचत्वारिंशदङ्गुलं संयोजयेत् ।
एवं चतुस्तिलोनषोडशकोत्तरशताङ्गुलं शुल्बम् ।
अन्तयोरित्यादि स्पष्टम् ।
कपर्दिभाष्यम्
प्रमाणं तिर्यग् द्विकरण्य् आयामस् तस्याक्ष्णयारज्जुस् त्रिकरणी
प्रमाणं--प्रक्रमादेस्तिर्यङ्नानी ।
द्विकतणी--पार्श्वमानीतस्यैव प्रक्रमादेः ।
तस्यैवंभूतस्य दीर्घचतुरश्रस्याक्ष्णयारज्जुस्त्रिकरणी--त्रिगुणां भूमिं करोति ।
तस्य तिर्यङ्भानीभूदस्य ।
कथं ? प्रमाणमेकं करोति पार्श्वमानी द्विकरणी सा द्वौ करोति ।
तदुभयमक्ष्णयारज्जुः करोति ।
तदुक्तं दीर्घस्याक्ष्णयारज्जुः ।
इति--
तृतीयकरण्येतेन व्याख्याता । विभागस्तु नवधा
एतेनैव मार्गेण तृतीयकरणी व्याख्याता ।
अनयैव त्रिकरण्या तृतीयकरण्यप्यवगन्तुं शक्येत्यर्थः ।
कथमित्याह--त्रिकरणीक्षेत्रं नवधा विभज्य एकं भागं गृह्णीयात् ।
प्रमाणतृतीयं भवति ।
त्रिकरण्याः तृतीयं करोति ।
तत्र श्लोकः--
अक्ष्णारज्जुस्त्रिकृत्प्रोक्ता प्रमाणसविशेषयोः ।
अस्या एव तृतीयं तु तृतीयकरणीं विदुः ॥
करविन्दीया व्याख्या
(प्रमाणंअत्रिकरणी)
प्रमाणद्विकरण्यक्ष्णयारज्जव उक्तः ।
यस्य चतुरश्रस्य प्रणाणं तिर्यङ्भानी द्विकरणी पार्श्वमानी तस्य चतुरश्रस्याक्ष्णयारज्जुः प्रमाणपार्श्वमानी तिर्यङ्भानी क्षेत्रस्य त्रिकरणीभवति ॥
तृतीयकरण्येतेन व्याख्याता ।
त्रिकरणीव्याख्याने तृतीयकरण्यपि व्याख्याता ।
कथं ? तृतीयं तिर्याग्द्विकण्यायामः, तस्याक्ष्णयारज्जुस्तृतीयकरणी ।
तृतीयकरण्यवगमायाह
(विभागस्तु नवधा)
तृतीयकरण्यवगमे इयांस्तु विशेषः ।
क्षेत्रस्य नवधा विभागः कार्यः, कस्य क्षेत्रस्य ? प्रमाणक्षेत्रस्य त्रिकरणीक्षेत्रस्य वा ।
अयमर्थः--यस्य क्षेत्रस्य तृतीयकरणी साध्यते तत् क्षेत्रं नवधा विभज्य तत्रकैस्य भागस्य पार्श्वमानीं तिर्यङ्भानीं कृत्वा तस्यैव भागस्याक्ष्णयारज्जुं पार्श्वमानीं कृत्वा ताभ्यां चतुरश्रे कृते चतुरश्रे नवधा विभक्ते तत्रैकस्य भागस्य करणीप्रमाणचतुरश्चक्षेत्रस्य तृतीयकरणी भवति ।
स च विभागः प्रमाणक्षेत्रतृतीयमिति प्रदर्शनम् ।
एतेन चतुष्करणीचतुर्थकरणीप्रभृतीनामपि ।
तथाहि--प्रमाणं तिर्यक् चतुष्करण्यायामस्तस्याक्ष्णयारज्जुः पञ्चकरणी ।
तथा प्रमाणं तिर्यक्पञ्जकरण्यायामस्तस्याक्ष्मयारज्जुः षट्करणीत्याति द्रष्टव्यम् ।
तथाहिद्विकरणी तिर्यङ्भानी त्रिकरण्यायामः तस्याक्ष्णयारज्जुः पञ्चकरणी ।
तिर्यङ्भानी दशकरण्यायामस्तस्याक्ष्णयारज्जुः पञ्चदशकरणीत्याद्यपि द्रष्टव्यम् ।
तथा तुरीयं तिर्यक् त्रिकरण्यायामस्तस्याक्ष्णयारज्जुस्तुरीयकरणी ।
तथा पञ्जमं तिर्यक्चतुष्करण्यायामस्तस्याक्ष्णयारज्जुः पञ्चमकरणीत्यादि द्रष्टव्यम् ।
त्रिकरणीतृतीयकरण्योःसौत्रामण्यादावुपयागेः ।
ननु दीर्घस्याक्ष्णयारज्जुरित्यनेन त्रिकरणीतृतीयकरणीप्रभृतयः सिद्धाः ।
तत्किमर्थं त्रिकरण्यादिकरणीविधिरारभ्यते ।
उच्यते--द्विप्रकाराः करण्यः, शुद्धमूला अशुद्धमूलाश् च ।
शुद्धं मूलं यासां ताःशुद्धमूलाः ।
द्वाभ्यां चत्वारि, त्रिभिर्नवेत्यादिवक्ष्यमाणाश्वतुष्करणीनवकरणीप्रभृतयः तासां तु सर्वदा द्विकरणी त्रिकरणी पञ्चकरणीत्येव व्यपदेश इति प्रदर्शयितुमिदमुच्यते, द्वयोः करणी द्विकरणी, त्रयाणां करणी त्रिकरणी, चतुर्णां करणी चतुष्करणी, पञ्चानां करणी पञ्चकरणीति ।
किञ्च दीर्घस्याक्ष्णयारज्जुरित्यनेन सामान्येन नाञ्जसा त्रिकरणीप्रभृतीनामवगतिर्भवति ।
उक्तप्रकारेण संपन्नानां करणीनां तेन संवादमात्रं भवति ।
तद्युज्यत एव द्विकरण्यादिकरणीविशेषविध्यारम्भः ।
सुन्दरराजीया
अथ त्रिकरणीमाह
(प्रमाणंअत्रिकरणी)
यथा द्वादशाङ्गुला तिर्यङ्भानी तद्द्विकरणी तिरोनसत्पदशाङ्गुला पार्श्वमानी ।
एवं दीर्घचतुरश्रे कृते तस्याक्ष्णयारज्जुर्विंशत्यङ्गुलयःसत्पविंशतितिलाश् च ।
सा त्रिकरणी प्रमाणपरिमितं क्षेत्रं त्रिगुणं करोति ॥
(तृतीयकरण्येतेन नवधा)
तृतीयकरण्या चतुरश्रे कृते नवधा विभागः कार्यः ।
तस्यैको भागः प्रमाणक्षेत्रस्य तृतीयं भवति ।
त्रिकरण्यास्तृतीयं तस्य करणी ॥
कपर्दिभाष्यम्
तुल्ययोश् चतुरश्रयोर् उक्तः समासः । नानाप्रमाणयोश् चतुरश्रयोः समासः
समास एकीकरणम् ।
चतुरश्रस्याक्ष्णयारज्जुरिति सूत्रेणस्पष्टः ।
नानाप्रमाणयोश्चतुरश्रयोःसमास उच्यत इति शेषः ।
दीर्घस्य समस्य चतुरश्रस्य समास एकीकरणम् ।
ह्रसीयसः करण्या वर्षीयसो वृद्ध्रम् उल्लिखेत् । वृद्ध्रस्याक्ष्णयारज्जुर् उभे समस्यति । तद् उक्तम्
ह्रसीयसः अल्पीयसः क्षेत्रस्य करण्या प्रमाणेन वर्षीयसः वर्षीयसेत्यर्थः ।
वृद्ध्रं दीर्घमुल्लिखेत् ।
यथाल्पीयसः करणी तिर्यङ्भानी वर्षीयसः करणी पार्श्वमानी, तथा दीर्घचतुरश्रमुल्लिखेत् ।
वृद्ध्रस्याक्ष्णयारज्जुरुभे समस्यति ।
उक्तं--दीर्घचतुरश्रस्याक्ष्णयारज्जुरिति ।
करविन्दीया व्याख्या
(तुल्ययोःअसमासः)
तुल्ययोरिति ।
समासो नाम समसनं मिश्रणं एकीकरणं करणीतुल्यप्रमाणयोःसमासः ।
करण्युक्ता चतुरश्रस्याक्ष्णयारज्जुर्द्द्विस्तावतीं भूमिं करोति समस्येति ।
उक्तमनुभाषणं वक्ष्यमाणार्थं, इदमत्र परिशिष्यते, तादिदं वक्ष्यामीति ।
(नाना तदुक्तं)
नानाप्रमाणयोर्भिन्नप्रमाणयोःसमासः करण्युच्यते, ह्रसीयसः अल्पीयसश्चतुरश्चस्य करण्या--करणीप्रमाणेन, बर्षीयसःमहतश्चतुरश्रस्य, वृद्ध्रं--चिह्नमेकदेशमुल्लिखेत् वृद्ध्रस्याक्ष्णयारज्जुरुभे नानाप्रमाणे चतुरश्रे समस्यति एकीकरोति ।
एतदुक्तं भवति--नानारप्रमाणे चतुरश्रे समस्य अल्पीयसश्चतुरश्रस्य करणीप्रमाणेन महदश्चतुरश्रस्य एकस्यां तिर्यङ्भान्यां परिच्छिन्द्यात् ।
तत आरभ्योर्ध्वां लेखां यथा परस्यां तिर्यङ्भान्यां तावति प्रदेशे निपतति तथा लिखेत् ।
लेखाविभक्तस्याल्पीयसः करणीप्रमाणं तिर्यङ्भानी ।
कस्य? महतः करणीप्रमाणपार्श्वमानीकस्य दीर्घचतुरश्रस्याक्ष्णयारज्जुरुमे नानाप्रमाणे चतुरश्रे समस्यति ।
चतुरश्र इति वर्तमाने पुनश्चतुरश्रग्रहणं मण्डलयोरपि चतुरश्रं कृत्वैव समासःसुकर इति ज्ञापयितुं ।
तदुक्तं--दीर्घस्येत्यादिना ।
अस्योपयोगो विद्याभ्यासादिषु ।
सुन्दरराजीया
(तुल्ययोःअसमासः)
द्विकरण्या यथा द्विपुरुषे ऽग्नौ पुरुषद्विकरण्या द्वयोः पुरुषयोःसमास इत्यादि ।
त्रिकरण्या त्रयाणां पुरुषाणां समासस्याप्येतदुपलक्षणं भवति ।
दीर्घचतुरश्रयोस्तु समासे अयं विशेषः ।
तिर्यङ्भान्या द्विकरणी तिर्यङ्भानी, पार्श्वमान्याश् च द्विकरणी पार्श्वमानीति ।
यथा द्विस्तावायामाश्वमेधवेद्यां षट्त्रिंशिकायाः पृष्ठ्याया द्विकरणी पृष्ठ्या ।
तिर्यङ्भान्योस्त्रिंशिकारान्तरेण वक्ष्यते ।
प्रक्रमस्य द्विकरणी प्रकमस्थानीया भवतीति ।
एवं दीर्घचतुरश्राणां समासे तिर्यङ्मान्यास्त्रिकरणी तिर्यङ्मानीति ।
पार्श्वमान्याश् च पार्श्वमानी ।
यथा--त्रिस्तावे ऽग्नौ पक्षयोः पुरुषमात्रयाः तिर्यङ्मान्यास्त्रिकरणी अष्टाधिकशतद्वयाङ्गुला पञ्चतिलोना तिर्यङ्मानी भवति ।
पार्श्वमान्याश् च षडरत्नेः त्रिकरणी पञ्चाशह्द्विशताङ्गुला विंशतितिलोना पार्श्वमानी भवति ।
पुच्छस्य पार्श्वमान्या एकादशप्रादेशायाः त्रिकरणी अष्टाविंशतिद्विशताङ्गुला पार्श्वमानी ।
एवमन्यत्र ।
(नाना समासः)
उच्यत इति शेषः ॥
(हसीयसःअतदुक्तं)
ह्रसीयसः करणीं तिर्यङ्मानीं कृत्वा वर्षीयसःसंबन्धिनं वृर्धं दीर्घचतुरश्रमुल्लिखेत्, वर्षीयसः करण्येव पार्श्वमानी ।
एवं कृतस्य दीर्घचतुरश्रस्याक्ष्णयारज्जुःसमस्तुयोः करणी भवति ।
तदुक्तं "दीर्घस्याक्ष्णयारज्जुःऽ इत्यादिना ।
यथा पञ्चविधे ऽग्नौ क्लियमाणे द्विपुरुषेण चतुरश्रे कृते चतुष्पुरुषो भवति ।
तत्र पुरुषमात्रश्चतुरश्रः प्रक्षेप्तव्यः ।
तत्र द्विपुरुषकरणिके चतुरश्रे तदायामं पुरुषव्यासं दीर्घचतुरश्रमुल्लिखेत् ।
तस्याक्ष्णयारज्जुरष्टषष्टिशताङ्गुला सैकादशतिला, सा पञ्चविधाग्नेः करणी भवति ।
कपर्दिभाष्यम्
चतुरश्राच् चतुरश्रं निर्जिहीर्षन् यावन् निर्जिहीर्षेत् तस्य करण्या वर्षीयसो वृद्ध्रमुल्लिखेत्
पूर्वस्माच्चतुरश्राच्चतुरश्रं निर्जिहीर्षन् चतुरश्रप्रमाणेन वृध्रमुल्लिखेत् ।
वृर्धस्य पार्श्वमानीम् अक्ष्णयेतरत् पार्श्वम् उपसंहरेत्
संयोजयेत् ।
सा यत्र निपतेत् तद् अपच्छिन्द्यात्
सा पार्श्वमानी इतरस्मिन् पार्श्व यत्र निपतति स्पृशति तत्रापच्छिन्द्यात् ।
छिन्नया निरस्तम्
छिन्नया निरस्तीकृते तन्निरस्तं भवति ।
करविन्दीया व्याख्या
(चतुरश्रातछिन्नया निरस्तम्)
चतुरश्रादिति ।
इदमपि करणीविधानमेव ।
महतश्चतुरश्रादल्पं चतुरश्रं निर्जिहीर्षन् विहर्तुमिच्छन् यावत् प्रमाणं चतुरश्रमपनेतुमिच्छति तस्याल्पस्य सरण्या माहतश्चतुरश्रस्यैकदेशं यथा छिन्नं भवति तथोल्लिखेत् ।
एवं कृते छिन्नं निरसि तव्यक्षेत्रप्रमाणतिर्यङ्भानीकं महत्क्षेत्रपार्श्वमानीकं प्रमाणपार्श्व मानीकं दीर्घचतुरश्रं भवति ।
अस्य क्षेत्रस्य पार्श्वमानीमक्ष्णयेतरत् पार्श्वमुपसंहरेत्--गमयेत्, सा पार्श्वमानीमक्ष्णयेतरता यत्रेतरस्याः पार्श्वमान्याः प्रदेशे निपतति तदपछिन्द्यात्--पार्श्वमानीमपाच्छित्याधिकं त्यजेत्, छिन्नया निरस्तं--छिन्नं पार्श्वमानीनिरसितव्यक्षेत्रस्य करणी भवति ।
तया पार्श्वमान्या चतुरश्रे कृते निरसितव्यक्षेत्रं निरस्तं भवतीत्यर्थः ।
सुन्दरराजीया व्याख्या
चतुरश्रातछिन्नया निरस्तम्
निर्हारो--निरसनम् ।
यथा निविधे ऽग्नौ क्रियमाणे द्विपुरुषेण चतुरश्रे कृते चतुष्पुरुषो भवति ।
तत्रैकपुरुषत्यागार्थं पुरुषमात्रतिर्यङ्भान्या वृध्रमुल्लिख्य तस्योत्तरां पार्श्वमानीं दक्षिणां प्राचीमितरत्पार्श्वं गमयेत् ।
सा च तत्र द्विपुरुषप्रमाणायां चत्वारिंशच्छतद्वयाङ्गुलप्रमाणायां पञ्चतिलाश्वापच्छिन्द्यात् ।
परिशि ष्टया करण्या चतुरश्रे कृते पुरुषो निरस्तो भवति ।
कपर्दिभाष्यम्
यथा स्वयमेव दर्शयति--
उपसंहृताक्षणयारज्जुः सा चतुष्करणी छिन्ना चेतरा च यत् पृथग्भूते कुरुतस् तद् उभयं करोति
उपसंहृता पूर्वं पार्श्वमानी ।
इदानीमक्ष्णयारज्जुश् च रश्रस्यसा चतुष्करणी द्विपुरुषात् छिन्ना पार्श्वमानी इतरातिर्यह्भानी यत्पृथग्भूते कुरुतः तदुभयं करोति ॥
कथमित्याह--
तिर्यङ्मानी पुरुषं शेषस् त्रीन्
तिर्यङ्भानी पुरुषं करोति ।
शेषस्त्वक्ष्णयारज्जुद्वौ ।
तदुभयं तस्याक्ष्णयारजुरिति त्रीन्करोति ॥
तद् उक्तम्
तच्चाप्युक्तम् ॥
करविन्दीया व्याख्या
इमं प्रकारमुदाहरणमुखेन स्पष्टिकरिष्यन्नाह--
उरसंहता तदुक्तम् उपेति ।
सर्वतो द्विपुरुषप्रमाणं चतुष्पुरुषं चतुरश्रं विषयीकृ त्योदाहरति ।
एकस्य चतुरश्रस्यावयवभूते दीर्घचतुरश्रे या पार्श्वमान्यक्ष्णयोपसंहृता सा चतुष्करणी चतुष्करणी चतुष्पुरुषकरणीति प्रतिज्ञाता ।
अस्य तिर्यङ्भानी च पुरुषमात्रकरणीति ।
अस्य दीर्घचतुरश्रस्य छिन्ना पार्श्वमानी कियत्करणीति न ज्ञाता, सैवात्रावगन्तव्या ।
अत्र पुरुषप्रमाणं तिर्यङ्भान्या पृथग्भूतया यत्क्रियते छिन्नया पार्श्वमान्या पृथग्भूतया यत्क्रियते अक्ष्णयारज्जुः तदुभयक्षेत्रकरणीति न्यायतो ऽवगता ।
तत्राक्ष्णयारज्जुफलभूताच्चतुष्पुरुषाच्चतुरश्रादेकप्रमाणं तिर्यङ्भानीफले त्वेकस्मिन्नपनीते त्रयः पुरुषाः परिशेष्यात् सा त्रिपुरुषकरणीत्यवगन्तव्या ।
अत इदमुक्तं तिर्यङ्भानी पुरुषं करोति शेषः छिन्ना पार्श्वमानी ।
त्रीन् पुरुषान् इति पुल्लिङ्गनिर्देशः पुरुषभिप्रायः ।
पुरुषनिर्देशश्वाग्नौ पुरुषेण विमानं पुरुषाभ्यासापचयौ समासनिर्हारयोः उदाहरणमिति ।
अयमर्थः--सर्वतो द्विप्रमाणाच्चतुष्पुरुषाच्चतुरश्रादेकं पुरुषमपनीय त्रिपुरुषं समचतुरश्रं कर्तुमिच्छन् तच्चतुरश्रं पुरुषप्रमाणया रज्ज्वा मध्ये परिच्छिद्य द्विधा कृत्वा तदर्घस्यैकां पार्श्वमानीमपरां पार्श्वमानीं प्रत्यक्ष्णयोपगमयित्वा तयोर्यत्र संपातः तत्रावस्थितां पार्श्वमानीं छिच्वावशिष्टं निरस्य शिष्टया पार्श्वमान्या समचतुरश्रे कृते तच्चतुरश्रं त्रिपुरुषचतुरश्रं भवति ।
तथा सर्वतश्वतुष्पुरुषाच्चतुरश्राच्चतुरः पुरुषानपनीय द्वादशपुरुषं समचतुरश्रं कर्तुमिच्छद्द्विपुरुषप्रमाणया तिर्यङ्भान्या समचतुरश्रं विभज्यार्धस्यैकां पार्श्वमानीमन्यां प्रति गमयित्वा तयोःसन्निपाते ऽवस्थितां पार्श्वमानीमवच्छिद्य छेदं निरस्य शिष्टया पार्श्वमान्या चतुरश्रे कृते तत् क्षेत्रं द्वादशपुरुषसमचतुरश्रं भवति ।
छिन्नशिष्टा पार्श्वमानी तत्करणी भवतीत्यर्थः ।
एवं प्रमाणक्षेत्रे तृतीयद्विकरणीमपनीय तृतीयकरणी भवति ।
एवमेव सर्वत्र चतुष्करणीचतुर्थकरणीप्रभृतयः करण्यो ऽवगन्तव्याः ।
तदुक्तं "दीर्घस्याक्ष्मयारज्जुरित्यनेन ।
अस्योपयोगो द्रोणादिषु, सुन्दरराजीया व्याख्या
तदेवोदाहरति----
उपसंहृता तदुक्तम्
या अक्ष्णयोपसंहृता-एकीभूता रज्जुःसा चतुष्करणी द्विपुरुषापच्छिन्ना पार्श्वमानी अपच्छिन्ना पञ्चतिलोनाष्टशतद्वयाङ्गुला ।
इतरा--पुरुषमात्री तिर्यङ्भानी च यत्पृथग्भूते कुरुतस्तदुभयं करति कर्णरज्जुत्वात् ।
तत्र तिर्यङ्भानी स्पष्टमेव हि पुरुषमात्रं करोति ।
पारिशेष्यात्पार्श्वमानी त्रीन् पुरुषान् करोतीति ज्ञातुं शक्यते ।
तदुक्तं "दीर्घस्याक्ष्णयारज्जुःऽ इत्यादिना ।
कपर्दिभाष्यम्
दीर्घचतुरश्रं समचतुरश्रं चिकीर्षन् तिर्यङ्मान्यापच्छिद्य शेषं विभज्योभयत उपदध्यात्
दीर्घचतुरश्रं समचतुरश्रं कर्तुमिच्छन् तिर्यङ्भन्या तिर्यङ्भानीप्रमाणेनापच्छिद्य शेषं विभज्य--द्विधा कृत्वा तदुभयतः अग्रतः पार्श्वतश्रोपदध्यात्--निक्षिपेत् ।
खण्डम् आगन्तुना संपुरयेत्
खण्डमागन्तुनातिरिक्तेन पूरयेत् ।
पूरयित्वा तदतिरिक्तं त्यचेत् ।
तस्य निर्हार उक्तः
मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0