आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 71
आप्ग्स्-तात्_23.2:
यदि क्रुद्धः प्रत्यर्थी वा व्यवहारद्रष्टा वा, तत्क्रोधशान्तिं चासाविच्छति, तदा उत्तराभ्यां ऽया त एषाऽइत्येताभ्यां क्रुद्ध मितरं वा भिमन्त्रयेत ।
अनेन चाभिमन्त्रणेन क्रुद्धो विक्रोधो विगतक्रोधो भवति ।
फलविधिश्चायम् ।
नार्थवादमात्रं, सूत्रकारेण बद्धत्वात्
4 स्वभार्यायां परपुरुषसम्बन्धप्रतिरोधकं कर्म ।
असंभवेप्सुः परेषां स्थूलाढारिकाजीवचूर्णानि कारयित्वोत्तरया सुप्तायास्सम्बाध उपवपेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_23.3:
( असंभवेप्सुः अमैथुनेप्सुः) ।
सम्भवो मैथुनम् ।
श्रूयते च - काममाविजनितोः सम्भवामेति (तै.सं.2-5-5) ।
तदभावो ऽसम्भवः ।
परेषां पुरुषाणां असम्भवमिच्छन् आढारिका सरीसृपविशेषः ।
शतचरणा वा ।
सा च द्विविधा स्थूला तन्वी च ।
अरण्येषु स्थूला अन्यत्र तन्वी ।
तत्र स्थूलायां जीवन्त्यां चूर्णानि कारयति, कर्मकर्तैव ।
कारयित्वा तानि यदा भार्या स्वपिति तदा तस्या स्सम्बाधे उपस्थे उपवपेत् ।
उत्तरया ऽअव ज्यामिव धन्वनऽइत्येतया ।
एवं कृते संबाध उपभोगयोग्यो न भवति व्यभिचारशङ्कायामिदम् ।
वेश्याविषयं वा
आप्ग्स्-तात्_23.3:
यः प्रवत्स्यन् गृहे वा प्रजातन्तुं रक्षितुं स्वभार्यायां परपुरुषशुक्लस्यासम्भवमिच्छति स परेषामसम्भवेप्सुः ।
तस्योपायोपदेशः -
स्थूलाढारिकाया जीवन्त्याश्चूर्णान्यन्येन कारयति ।
आढारिका गौलिका सरीसृपविशेषः, या शतचरणा नाम ।
सा च द्विविधा, ग्राम्या आरण्या च ।
तयोरारण्या स्थूला, ग्राम्या तन्वी ।
जीवचूर्णानि चाश्मादिना महता प्रहारेण मार्यमाणायां भवन्ति ।
ततस्तानि चूर्णा न्युत्तरया ऽअव ज्यामिव धन्वनऽइत्येतया सुप्तायाः सम्बाधे योनावुपवपेत् ।
एवं कृते सम्बाध उपभोगयोग्यो न भवति
5 पुनः सम्भवेच्छायां कर्तव्यम् ।
सिद्ध्यर्थे बभ्रुमूत्रेण प्रक्षालयीत ॥ आ
(इतः प्रभृति सूत्रपञ्चकं सूत्रद्वयरूपेण परिगणितं हरदत्तमते इति क,ख पुस्तकयोः ।
विभागप्रकारश्चेत्थम् - सिध्यर्थे बभ्रु..पलायेरन् ।
तस्मिन्निण्वानि .. प्रक्षालयन्ति ॥
इति) ॥
चोम्मेन्तरिएस्:
आप्ग्स्-अना_23.4:
सिध्यर्थे कार्यसिद्धेः प्रार्थनायां उपभोग्ययोग्यत्वे चिकीर्षिते इत्यर्थः ।
तदा बभ्रुमूत्रेण सम्बाधस्य प्रक्षालनं कर्तव्यम् ।
इदमत्र भैषज्यमित्यर्थः ।
बभ्रूः कपिलवर्णा गौः
आप्ग्स्-तात्_23.4:
अथ यदा परपुरुषशङ्कापैति तदा स्वशुक्लसम्भवसिध्यर्थे भैषज्यमुच्यते - कपिलायाः गोमूत्रेण प्रक्षालयीत सम्बाधम्
6 पण्यानां सिध्यर्थ होमः ।
सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात्तत उत्तरया जुहुयात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_23.5:
अस्य कुटुम्बिनो गृहे यत् द्रव्यं पण्यं क्रय्यं तस्य सिद्यर्थे अर्धापकर्षादिना सिद्धिस्स्यादित्येवमर्थम् ।
तस्मात् द्रव्यात् किञ्चिदादाय उत्तरयर्चा ऽयदहं धनेनेऽत्येतया जुहुयात् ।
सिद्धिर्भवति ।
अत्र क्षारलवणादीनामपि होमो भवति ।
उक्तानि यथोपदेशं काम्यानि ।
तत्र द्रवद्रव्येषु दर्वी ।
इतरेषु हस्तः ।
फलीकरणहोमवच्चापूर्वार्थम् ।
अस्येति वचनं अस्य गृहे यत् पण्यं तस्यान्येनापि तद्धितैषिणा होमो यथा स्यादिति ।
न च मन्त्रे ऽहमित्यस्य विरोधः;स एव भूत्वा स करोतीति ।
गृहे पण्यमिति वचनात् क्षेत्रादिविषये न भवति ।
पुनः सिध्यर्थवचनं एस्य कर्मान्तरत्वज्ञापनार्थम् ।
अन्यथा पूर्वस्यैव विकल्पविधिस्सम्भाव्येत
आप्ग्स्-तात्_23.5:
क्रय्यद्रव्यानु सारेणाज्यभागान्तमग्निमुखान्तं वा कृत्वा, तस्मात्पण्यादादायोत्तरया ऽयदहं धनेनऽइत्येतया जुहुयात् ।
अत्र तत इति वचनान्न प्राणिद्रव्याद्धोमः, ततो ऽवदाने ऽङ्गवैकल्यापत्तेः ।
केचित्-अस्येति वचनादन्येन तद्धितैषिणा होतव्यम् ।
मन्त्रे चाहमित्यस्य न विरोधः, स एव भूत्वा स जुहोतीति
7 भृत्यप्रीतिजनिका क्रिया ।
यं कामयेत नायं मच्छिद्येतेति जीवविषाणे स्वं मूत्रमानीय सुप्तमुत्तराभ्यां त्रिः प्रसव्यं परिषिञ्चेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_23.6:
यं भृत्यं मत्तो ऽयं न झिद्येतोति कामयेत नापगच्छेदिति यावज्जीवं मदधीन एव स्यादिति जीवतो गोर्विषाणं स्वयं पतितमादाय स्वं मूत्रमानीय तेन तं भृत्यं सुप्तं उत्तराभ्यां ऽपरि त्वा गिरेरऽमित्येताभ्यां त्रिः प्रसव्यं परिषिञ्चेत् ।
जीववचनं मृतस्य निवृत्यर्थम् ।
गौरित्युपदेशः ।
आनीयेति वचनात् पूर्वमन्यस्मिन् पात्रे मूत्रयित्वा शौचञ्च कृत्वा ततो विषाणोपनयनम् ।
परिषीतो ऽसि इति मन्त्रलिङ्गात् स्त्रीष्विदं न भवति
आप्ग्स्-तात्_23.6:
यं भर्तारं सपत्न्यामन्यस्यां वा इन्द्रियदौर्बल्यादनुरक्तं या स्त्री कामयेत अयं भर्ता मत् मत्तो न च्छिद्येत अस्य मय्यविच्छेदेन स्नेहस्स्यादिति सा स्त्री जीवविषाणे जीवन्त्या गोर्विषाणे बलात्पातिते स्वं मूत्रमानीय तेन भर्तारं सुप्तं उत्तराभ्यां ऽ परि त्वा गिरेरमिहंऽ; इत्येताभ्यां त्रिः प्रसव्यं परिषिञ्चेत् ।
अत्र चीनीयेति वचनातपूर्वमन्यस्मिन्पात्रे मूत्रयित्वा शौचं च कृत्वा ततो विषाणे ऽवनयनम्
केचित्-भृत्यविषयमेतत् स्वामिनः कर्मेति ।
अथ भृत्यादीनां पलायितानां पुनरागमनकामस्य कर्माह--
8 पलायितानां दासादीनां प्रतिनिवृत्यर्थ कर्म ।
येन पथा दासकर्मकराः पलायेरन् तस्मिन्निण्वान्युपसमाधायोत्तरा आहुतीजुहुयात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_23.7:
अथ भृत्यानां पलायितानां निवृत्तिमिच्छतः कर्म ये कुर्वन्ति दासा अन्ये वा ते दासकर्मकाराः येन यथा पलायेरन् तस्मिन् पथि इण्वानि दारुमयानि निगलानि उपसमाधाय प्रज्वाल्य तस्मिन्नग्नावुत्तराश्चतस्र आहुतीर्जुहुयात् ऽआवर्तन वर्तयेऽत्येताः ।
तत्र चतुर्णामिण्वानां मार्गे, क्रमेण भेदेनोपसमाधानं मन्त्राश्च क्रमेणेति केचित् ।
अन्ये सकृदेव बहूनामिण्वानामिपसमाधानं होमश्च तत्रैवेति ।
एकस्य द्वयोश्च पलायने ऽपि भवत्येवायं होमो न बहूनामेव ।
एकशोषनिर्देशात् दासकर्मकरश्च दासकर्मकरौ च दासकर्मराश्च दासकर्मकरा इति ।
अनिश्चिते चार्थे बहुवचनं प्रयुज्यते, यथा-कति भवतः पुत्रा ।
इति ।
अनिश्चिते चार्थे बहुवचनं प्रयुज्यते, यथा-कति भवत- पुत्रा इति ।
मन्त्रेषु च ऽपरिक्रोशोवऽइत्यादिबहुवचनमविवक्षितम्, देवताधानपरत्वात् ।
अयमप्यपूर्वो होमः ।
सर्वेष्वेतेषु यथा सम्भवमग्निरौपासन एव
आप्ग्स्-तात्_23.7:
दासाश्च भृतिकर्मकराश्च दासकर्मकराः ।
ते येन पथा पलयेरन् तस्मिन्पथि भूमावेव इण्वानि लेकप्रसिद्धानि दारुमयान्यु पसमाधाय निधाय तेष्वेवानग्नौ ऽपदे जुहोतिऽइतिवत् उत्तराः ऽआवर्तनवर्तयऽअत्याद्युत्तरमन्त्रकरीणकाश्चतस्र आज्याहुतीर्जुहुयात्
अपूर्व चेदं कर्म ।
अत्र यद्यपि दासकर्मकरा इति बहुवचनं, तथाप्येकस्य द्वयोर्वा पलायने ऽपि भवत्येवेदं कर्म ।
केचित्-पथीण्वान्यग्नौ प्रज्वाल्य, तत्राग्नावेव होम इति
9 नैमित्तिकानि ।
यद्येनं वृक्षात् फलमभिनिपतेद्वयो वाभिविक्षिपेदवर्षतर्क्ये वा बिन्दुरभिनिपतेत्तदुत्तरैर्यथालिङ्गं प्रक्षालयीत ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_23.8:
एनं स्नातकं वृक्षात् प्रच्युतफलं यद्यभिनियतेत् शिरसि प्रदेशान्तरे वा ।
वयः पक्षी काकादिः एनमभिविक्षिपेत् शिरसि प्रदेशान्तरे वा ।
यदि वा अवर्षतर्क्ये वर्ष यत्र न तर्क्येत तस्मिन् काले देशे वा बिन्दुः अपां स्तेकः अभिनिपतेत् तदङ्गं उत्तरैः ऽयदि वृक्षादिऽत्यादिभिः यथालिङ्गं अद्भिः प्रक्षालयेत् ।
ऽयदि वृक्षाऽजिति फलस्य ।
ऽये पक्षिणंऽइति वयसः ।
"दिवो नु मा बृहतऽइति बिन्दोः ।
यथालिङ्गवचनं त्रये ऽपि मन्त्राः एकस्मिन्निमित्ते मा भूवन्निति ।
तीर्थाद्यतिक्रमवत् स्यात् प्रसङ्गः, विधेर्वलीयस्त्वात्
आप्ग्स्-तात्_23.8:
यद्येनं द्विजं वृक्षात्फलं अभि उपरि नीचैरकस्मात्पतेत्, यदि वा वयः पक्षी पक्षाभ्यामेनम भिविक्षिपेत् उपरि पक्षवातेन धुनुयात्, यदि वा अवर्षतर्क्ये अभ्रशून्ये नभसि तस्माद्दिन्दुरपां स्तोकः अभिनिपतोत्, व्याख्यातम् ।
तत्फलनिपातादिभिरुपहतं शरीराङ्गमुत्तरैर्मन्त्रैर्यथालिङ्गं प्रक्षालयीत ।
तत्र ऽयदि वृक्षात्ऽइति फलाभिपाते, ऽये पक्षिणःऽइति वयो ऽभिविक्षेपे, ऽदिवो नु मा बृहतःऽइति बिन्द्वभिनिपाते ।
यथालिङ्गमिति तु वचनमेकैकस्मिन्निमित्ते त्रिभिस्त्रिभिः प्रक्षालनं मा भूदिति
अथादिभुतप्रायश्चित्तम्--
10 अद्भुतप्रायश्चित्तम् ।
आगारस्थूणाविरोहणे मधुन उपवेशने कुप्त्वां कपोतपददर्शने ऽमात्यानां शरीररेषणे ऽन्येषु चाद्भुतोत्पातेष्वमावास्यायां निशायां यत्रापां न शृणुयात्तदग्नेरुपसमाधानाद्याज्यभागान्त उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_23.9:
अथादिभुतोत्पातप्रायश्चित्तम् ।
अद्भुतमपूर्वमदृष्टचरम् ।
तस्य (अद्भुतस्यादृष्टचरस्य) उत्पात उपजनः यद्वा ऊर्ध्वभवा
अद्भुताविशेषा एवोत्पाताः दिव्या आन्तरिक्ष्याश्च ।
रात्राविन्द्रधनुर्लोहिनी द्यौरादित्ये कीलदर्शनमित्यादयः ।
तस्मिन् पक्षे ऽद्भुतशब्देन भौमान्युच्यन्ते गोवलीवर्दन्यायेन ।
द्वन्द्वश्च समासः ।
तत्रोदाहरणरूपेण कानिचिदद्भुतानि दर्शयति- अगारस्थूणेति ।
विरेहणं अङ्कुरोपजननम् ।
अगारग्रहणात् आत्मीयेष्वपि शूद्ररृहादिषु न भवति ।
मधुन उपवेशने अगारे इत्येव ।
कुप्तुः चुल्लीभ्राष्ट्रमित्यनर्थान्तरम् ।
कपोतस्य पक्षिण आरण्यस्यपददर्शने पचनागारे तस्मिन् प्रविष्ट इत्यर्थः ।
अमात्याः पुत्रादयः ।
तेषां बहूनां युगपत् शरीररेषणे ।
व्याधौमरणे च ।
अन्येषु चैवंप्रकारेषु वल्मीकादिषु इन्द्रधनुरादिषु च ।
अन्येष्वितिवचनात् अमात्यानां शरीरेषणमप्यद्भुतरूपमेव गृह्यते ।
नैकस्य द्वयोर्वा रेषणे कालभेदे च न भवति ।
अत्र प्रायश्चित्तम्- अमावास्याथां निशायां चतुर्धाविभक्तायां रात्रेः द्वतीयो भागो न्शा ।
यत्र प्रदेशे अपां कुम्भैरुदधानेष्वानीयमानानां शब्दं न शृणुयात् तत्र प्रदेशे ऽग्नेरुपसमाधानाद्युत्तरा आहुतय एकादश इमं मे वरुण इत्यादयः ।
प्रजापत इति ऽप्रजापते न त्वदेतानीऽत्येषा गृह्यते ।
प्रसिद्धेः, न ऽप्रजापते त्वं निधिपाऽइत्येषा ।
प्रजापते नत्वदिति चहुत्वा प्रधानहुर्तार्जुहुयात् इति तन्त्रशेषं प्रतिपद्यते ।
आज्यभागान्त इत्येवं तन्त्रसमाप्तौ सिद्धायां अग्नेरुपमाधानादिवचनं अग्निमात्रस्योपसमाधानार्थम् ।
तेन औपासनाभावे लौकिके ऽपि भवति ।
एवंप्रकाराणामेतेषां नैमित्तिकानां दृष्टफलानां च पण्यहोमादीनां अन्यस्मिन्नप्यग्नौ प्रवृत्तिप्रदर्शनार्थ सर्वान्ते अग्निविधानार्थो यत्नः कृतः ।
दयादि वचनमानन्तर्यार्थम् ।
प्रधानाहुत्यनन्तरं जयाद्येव प्रति पत्यते, न सूत्रान्तरदृश्टा आहुतयो ऽस्मिन् तन्त्रे होतव्याः इति ।
काः पुनस्ताः?कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोतः इति प्रत्यृचं जुहुयात् जपेद्वा ।
(आश्व3-7-7)
इत्याश्वलायनः ।
जयदिवचनेनैव तन्त्रसमुच्चयप्रेतिषेधः ।
तदपि प्रायश्चित्तं विकल्पेन भवति पृथक्तन्त्र इति ।
तत्रापि शम्याः परिध्यर्थे ।
अस्यापि प्रायश्चित्तस्यास्मिन्नेव शास्त्र उपदिष्टत्वात्
आप्ग्स्-तात्_23.9:
तत्रादुभताः स्वभावतः पूर्वमभूतास्सन्तो भवन्तीति ।
उत्पाता इति तु ऊर्ध्व भवन्ति अन्यक्तावस्थायां प्राप्नुनुवन्ति ।
अद्भुताश्चोत्पाताश्चेति द्वन्द्वसमास ।
शब्दभेदस्तु भौमदिव्यभेदाभिप्रायः ।
तत्र दिव्या उत्पाता रात्राविन्द्रधनु रादित्यकील इत्यादयः भौमांस्त्वद्भुतानगारस्थूणेत्यादिना स्वयमेवोदाहरति ।
अगारस्य स्थूणाः अगारस्थूणाः, तासां विरोहणे अङ्कुरोपजनने ।
स्थूणाग्रहणं चान्यस्यापि गृहसम्बन्धिनो वंशाद्रनिखातस्यापि प्रदर्शनार्थम्, निमित्तगतविशेषणत्वात् . मधुन उपवेशन इत्यगार एव ।
उपसर्जनस्याप्यगारशब्दस्य योग्यत्वेन बुद्ध्या विभज्य सम्बन्धः;आरामादिष्वनद्भुतत्वात् ।
कुप्तुः चुल्ली भ्राष्ट्रमम्बरीषमित्यनर्थान्तरम् ।
तस्यां कुप्त्वां पचनागार इत्यर्थः ।
कपोतस्या प्यारण्यस्य पक्षिविशेषस्य पददर्शने ।
कुप्त्वामित्यति प्रदर्शनार्थम्;अन्तर्गृहे ऽप्यस्यादुभुतत्वात् ।
अमा सह वसन्ती त्यमात्याः
एकपात्रभोजनाः पुत्रभ्रात्रादयः तेषां बहूनां सन्ततं शरीररेषणे शरीरनाशने मरण इत्यर्थः ।
केचित्-अमात्यानां युगपद्व्याधावपीति ।
अन्येषु चादुभुतोत्पातेषु उक्तेभ्यो ऽन्येषु गृहमध्ये वल्मीकजननादिष्वदिभुतेषु उसातेषु च दृषेषु सत्सु तत्सूचितदुरितशान्त्यादिकामो ऽमावास्यायां निशायां रात्र्यां मुहूर्तद्वयादूर्ध्वम् ।
केचित्-द्वितीये याम इति ।
यत्रापां वहन्तीनां शब्दं न शृणुयात् केचित्-कुम्भैरुदधानेष्वानीयमानास्विति ।
तथाबूते देशे अग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते ।
तन्त्रविधानं चास्य आज्यहविष्ट्वात् . आज्यबागान्ते इति त्वर्थकृत्यप्रतिषेधार्थम् ।
उत्तरा आहुतीः ऽइमं मे वरुण, तत्वायामिऽइत्येकादशाहुतीर्हुत्वा वचनबला ज्जयादि प्रतिपद्यते ।
अत्र प्रजापति इति प्रतीकेन ऽप्राजापत्या व्याहृतीःऽइतिवत् ऽप्रजापते न त्वदेतानिऽइत्येषैव गृह्यते
परिषेचनान्तं कृत्वाभिमृतेभ्य उत्तरया दक्षिणतो ऽश्मानं परिधिं दधाति दधाति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_23.10:
अत अमात्यानां शरीररेषणे इत्यस्मिन्नद्भुते कश्चिद्विशेषः येषां पूर्वापरा अन्वञ्चः प्रमीयन्ते ते अभिमृतास्तेभ्यस्तदर्थ तेषां मृत्युशमनार्थ उत्तरं कर्म होममिमं कृत्वा परिषेचनान्ते ऽश्मानं परिधि अन्तर्धानं मृत्त्युनिवारणार्थ प्रतिष्ठापयति उत्तरयर्चा ऽइमं जीवेभ्यऽ; इत्येतया ।
अभ्यासः प्रश्वसमाप्तिद्योतकः ।
परिधिमिति वचनात् तस्याश्मनः प्रच्यावनं न कार्यम्, तत्रैव प्रतिष्ठितो भवति
इति श्रीहरदत्तमिश्रविरचितायां गृह्यवृत्तावनाकुलायां त्रयोर्विंशः खण्डः ॥
समाप्तश्चोत्तमो ऽष्टमः पटलः ॥
====================================================================================
॥ संपूर्णानाकुला वृत्तिः ॥
आप्ग्स्-तात्_23.10:
ततः परिषेचनान्तं तन्त्रश्षं करोति ।
शम्याः परिध्यर्थे इति पूर्वमेवोक्तम् ।
केचित्-आज्यभागान्त इत्यनेन तन्त्रप्राप्तौ सिद्धायामग्नेरुपसमाधानादिवचनमग्निमात्रस्योपसमाधानार्थम् ।
तेनौपासनशून्यस्येदं कर्म लौकिके ऽपि भवति ।
अन्यानि चेवंप्रकाराणि दृष्टफलानि नैमित्तिकानि पण्यहोमादीनि, अस्य सर्वान्ते ऽग्निविधानस्य सर्वार्थत्वावगमादिति ।
अभिमृतेभ्य इत्यादिना ऽअमात्यानां शरीररेषणेऽइत्यस्मिन्नद्भुते कश्चिद्विशेषो ऽभिधीयते ।
अभिमृता अभिमुख्येन मृता योग्यतया जीवन्त एव अमात्यानां सन्ततमरणदर्शनेन स्वयमपि मरणाद्भीता इत्यर्थः ।
तेभ्यस्तदर्थ सन्ततमरणभयनिवृत्त्यर्त उत्तरया ऽइमं जीवेभ्यःऽ; इत्यनया परिधिं मृत्योरन्तर्धानभूतं अश्मानं दक्षिणतो निदधाति ।
एतच्च तन्त्रशेषान्ते, कृत्वेति क्त्वाप्रत्ययबलात् ।
केचित्-निदधाति प्रतिष्ठापयति ।
परिधिवचनाच्च तस्याश्मनः प्रच्यावनं न कर्तव्यमिति ।
दधाति ददातीतिग्विरुक्तिः प्रश्नसमाप्तिसूचनार्ता
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0