आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 70
आप्ग्स्-तात्_23.1:
सव्यपाणिधृतच्छत्रदण्ड एव दक्षिणेन पाणिना फलीकरणमुष्टिमुत्तरया ऽअव जिह्वकऽइत्येतया स्वाग्नौ जुहोति ।
ऽअसाऽवित्यत्र सोमशर्मेति प्रथमया प्रत्यर्थिनो नामग्रहणम् ।
यावदुक्त (2- धर्मा चायं) धर्मश्चायं होम इति पूर्वमेवोक्तम् ।
केचित् - परिस्तरणमुभयतस्तूष्णीं पर्युक्षणं च कर्तव्यम्, मुष्टिना चावाचीनेन होम इति ।
ततस्संवाददेशं गत्वा प्रत्यर्थिनं पश्यन्नुत्तरां ऽआ ते वाचंऽइत्येतां जपेत् ।
इह च सम्बुध्या नामनिर्देशः प्रत्यर्थिन एव
3 क्रुद्धाभिमन्त्रणम् ।
क्रुद्धमुत्तराभ्यामभिमन्त्रयेत विक्रोधो भवति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_23.2:
उत्तराभ्यां ऽया त एषा रराट्याऽइत्येताभ्याम् ।
तत्र मन्त्रयोर्लिङ्गे विशेषाभावात् कुद्धमिति लिङ्गमविवक्षितम् ।
तेन स्त्रियामपि भवति ।
शूद्रादिष्वपि भवति ।
नेत्यन्ये ।
क्रुद्धस्य दर्शने नैमित्तिकमिदं नियमेन कर्तव्यमिति प्राप्त आह - विक्रोधो भवतीति ।
यस्य क्रोधविगमं चिकीर्षति तत्र कर्तव्यमित्यर्थः ।
क्रोधश्चात्मविषयः ।
परविषयो वा
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0