भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 7

7.2

आप्ग्स्-तात्_3.2:
अत्र च वधूः फल्गुन्योरेव व्यीह्यते नीयते स्वगृह्यात्, न तु ऽतां ततः ऽ(आप.गृ.5-13) इति वचनात् ब्राह्मादिवत्तदानीमेव ॥
केचित्-ऽइन्वकाभिऽरित्यादि ऽफल्गुनीभ्यां व्यूह्यतेऽइत्यन्तमुत्तरत्रेन्वकाशब्दस्य व्याख्यानात् शाखान्तरीया गाथेति कल्पयन्तः, मघासु गवां क्रयादिना स्वीकारः, सेनायाश्च युद्धे व्यूहः, अविशेषात् पूर्वयोरुत्तरयोर्वा फल्गुन्योरिति प्रकृतानुपयोगितया व्याचक्षते

7.3

6 यां दुहितरं भर्तुः प्रिया स्यादिति कामयते तां स्वातीनक्षत्रे दद्यात्
यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात् प्रियैव भवति नेव तु पुनरागच्छती ति ब्राह्मणावेक्षो विधिः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.3:
यां दुहितरं पिता प्रियां कामयेत भर्तुरियं प्रियास्यादिति तां निष्ठायां नक्षत्रे दद्यात् ।
एवं दत्ता सा भवत्येव तस्य प्रिया ।
अयं चापरो ऽस्य नक्षत्रस्य गुणः सा प्तृगृहात् पुनरर्थिनी नागच्छति ।
पतुगृह एव तस्यास्सर्वे कामास्सम्पद्यन्ते ।
अन्ये तु निन्दामिमां मन्यन्ते ।
ब्रह्मणावेक्षो विधिरिति वचनात् अन्ये ऽपि स्मृत्यपेक्षा नक्षत्यपेक्षा नक्षत्रविधयो भवन्ति ।
अन्यथा पुंसवने तिष्यवत् विवाहे इदमेव नक्षत्रं स्यात्

7.3

आप्ग्स्-तात्_3.3:
इयं भर्तुः प्रिय स्यादिति यां दुहितरं पिता कामयेत तां निष्ट्यायां स्वातौ वराय दद्यात् ।
सा तस्य प्रियैव भवति ।
नेव तु नैव च रोगदारिद्यादिना पीड्यमाना अर्थिनी पुनः पितृगृहमागच्छति;स्वगृह एव तस्यास्सर्वे अर्थोस्सम्पद्यन्त इति ब्राह्मणावेक्षो विधिः ।
अत्रापि पूर्ववत् स्मार्तपुण्योक्तनक्षत्रैर्विकल्पः

7.4

इन्वकाशब्दो मृगशिरसि ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.4:
छन्दसि प्रयुक्तत्वादेतयोरर्थकथनम्

7.4

आप्ग्स्-तात्_3.4:
एते सूत्रे व्यक्तार्ते

7.5

-5)
निष्ठ्याशब्दस्स्वातौ ॥ आ
7 विवाहे गवालम्भनम् ।
विवाहे गौः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.6:
विवाहस्थाने गौरालब्धव्या दुहितृमता

7.6

आप्ग्स्-तात्_3.6:
विवाहस्थाने गौस्सन्निधाप्या

7.6

गृहेषु गौः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.7:
गृहेषु च गौरालब्धव्या तेनैव दुहितृमता ।
तयौर्विनियोगः

7.7

आप्ग्स्-तात्_3.7:
तथा गृहेषु शालायां अन्या गौस्सन्निधाप्या

7.7

किमर्थमित्यत आह--
8 गवा अर्हणीयः ।
तया वरमतिथिवदर्हयेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.8:
या विवाहे गौः तया वरमतिथिवत् पूजयेत् ।
अतिथिवदिति वचनात् मधुपर्केण च ।
"गोमधुपर्करहो वेदाध्याय"(आप.ध.2-8-5) इति वचनात्

7.8

आप्ग्स्-तात्_3.8:
तया विवाहस्थाने सन्निधापितया गवा, न त्वनन्तरोक्तया, वरमतिथिवत् अतिथिं यथा तथा अर्हयेत् पूजयेत् ।
तया हविरुत्पत्तिद्वारेणोत्सर्गद्वारेण वा ङ्गभूतया युक्तेन मधुपर्केण वरमवोदाध्यायिनमपि पूजयेदित्यर्थः

7.8

यो ऽस्यापचितस्तमितरया ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.9:
यो ऽस्य वरस्या पचितः पूज्यः तेन सहागत आचार्यस्त मितरया गृहेषु या गौरालभ्यते तया ।
किमिवेत्यपोक्षायां अतिथिवदर्हये दित्येव ।
विवाहे वराय तत्सहेयोभ्यश्चान्यस्मिन्नग्नौ पृतगन्नसंस्कारो भवति ।
वपाहोमश्चतत्रैव ।
अपचितय तत्सहोयेभ्यश्च गृहेषु पृथगन्नसंस्कारः ।
गोश्च वपाश्रपणं होमश्चौपासन एवोत्यनुष्ठानप्रकार-

7.9

आप्ग्स्-तात्_3.9:
यो ऽस्य वरस्य पित्राचार्यत्वादिना सम्बन्धी, लोके चापचितो विद्या भिजनादिसम्पत्त्या ।
यद्वा, वरस्यापचितः पूज्यः ।
तमितरया गृहेषु सन्निधापितया अतिथिवदर्हयेदिति सम्बन्धः ।
एतन्मधुपर्कद्वयमपि विवाहाङ्गं, प्रकरणात् ।
दातृपुरुषार्थत्वे तु ऽआचार्यायर्त्विजे श्वशुराय राज्ञो वरायापचिताय चऽइति ब्रूयात् ।
प्रत्युत ऽअतिथिः पितरो विवाहश्चऽ(आप.गृ.3-10) इति विवाहसम्बन्धमेवाह ।
ननु-वरं चापचितं चातिथिवदर्हयेदिति वक्तव्ये ऽविवाहे गौःऽइत्यादि किमर्थम्?उच्यते-उभयोः पूज्योर्भिन्नदेशत्वेन भिन्नतन्त्रत्वज्ञापनार्थम्; इतरथा सम्भवतां तन्त्रता स्यात् ।
ऽसर्वेभ्यो वैकामविभवत्वात्ऽइति कल्पान्तरे सर्वेभ्यः ऋत्विग्भ्यो विकल्पेन गवैकत्वदर्शनादिहापि वरापचितयोर्विकल्पेन प्रसक्तं गवैकत्वं माभूदिति प्रतिषेधार्थ च

7.9

9 गोरालम्भस्थानानि ।
एतावद्गोरालम्भस्थानमतिथिः पितरो विवाहश्च ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.10:
एतोष्वेव त्रिषु स्नेषु गोरालम्भः नान्यत्र पाकयज्ञेषु ।
अतिथिशब्देनातिथ्यकर्म व्यपदिश्यते"यत्रास्मा अपचितिं कुर्वन्ती" (आप.गृ.13-2) त्येवमादि ।
पितृशब्देनाष्टका कर्म"श्वोभूते दर्भेण गा"(आप.गृ.22-3) मित्यादि ।
विवाहशब्देनानन्तरोक्तस्य ग्रहणम् ।
कल्पान्तरोष्वीशानयज्ञादावपि गोरालम्भ आम्नातः, तत्प्रतिषेधार्थो नियमः ।
एवं ब्रुवता कल्पान्तरे दृष्टा अन्ये विशेषा अभ्यनुज्ञाता भवन्ति

7.10

आप्ग्स्-तात्_3.10:
अतिथिः वेदाध्याय्यागतः पितरः अष्टकाकर्म, विवाहश्चेति, यदेतत्त्त्रयं एतावत् गवालम्बाङ्गक4मनिमित्तम् ।
एतदुक्तं भवति-
यथातिथिः पितरश्च गवालम्भाङ्गकर्मनिमित्तभूताः एवं विवाहो ऽप्यस्मादेव वचनाद्विशेषणान्तरनिरपेक्षा इति ।
यद्येतत्सूत्रमेवं न व्याख्यायेत तता ऽगौरिति गां प्राहऽ(आप.गृ.13-15) ऽश्वोभूते दर्बेण गामुपाकरोतिऽ(आप.गृ.22-3) ऽविवाहे गौःऽ(आप.गृ.3-6) इत्येतैरेव सिद्धत्वात्
व्यर्थमेव स्यात्;तेन अवेदाध्यायिभ्यामपि वरापचिताभ्यां धर्मोक्तगोरहितो मधुपर्को देयः ।
वेदाध्याय्भ्यां तु तत्सहित इति ॥
केचित्-एतत्त्त्रयमेवास्माकं गोरालम्बस्थानम्, न पुनरन्येषामिव विकल्पेनापीज्ञानबसिश्शूलगवापरनामा ।
एवं वदन्नस्माकमपि कल्पान्तरोक्तानपि विशेषान् विकल्पेनानुजानातीति

7.10

अथ विवाहे वर्जनीयाः कन्या आह--
10 वरणे वर्जनीयाः कन्याः ।
सुप्तां रुदन्तीं (तीं) निष्क्रान्तां वरणे परिवर्जयेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.11:
वरेषु वरणार्थ प्राप्तेषु या कन्या स्वपिति रोदिति निष्क्तामति वागृहात्, तस्या वरणं न कर्त्तव्यम् ।
अशुभलिङ्गान्येतानीति ।
परिशब्दो ऽत्यन्तप्रतिषेधार्थः मनश्चक्षुषोर्निबन्धे सत्यपीति

7.11

आप्ग्स्-तात्_3.11:
या वरेषु वरणार्थ प्राप्तेषु स्वपिति, या रोदिति, या वा गृहान्निष्क्तामति, ता एता वरणे परिवर्जयेत् अत्यन्तं वर्जयेत्, ऋद्धौ ज्योतिषादिभिर्ज्ञातायामपि;यतस्स्वापादीनामत्रानृद्धिलिङ्गत्वं प्रबलत्वं च विवक्षितम्

7.11

दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.12:
दता वाचान्यस्मै दत्ता ।
गुप्ता प्रयत्नेन रक्ष्यमाणा ।
दुश्शीला वा सा भवति अशुभलक्षणा वा ।
द्योता विषमदृष्टिः ।
ऋषबा
ऋषभशीला ।
शरभा अतिदर्शनीया ।
जारास्तां कामयेरन् सा च तान् ।
विनता विनतगात्रा, कुब्जा वा ।
विकटा विस्तीर्णजङ्घा ।
मण्डा अपनीतकेशा ।
मण्डूषिका मण्डूकत्वक् अश्लक्ष्णेत्यर्तः ।
वामनेत्यन्ये ।
सांकारिका कुलान्तरे जाता कुलान्तरस्यापत्यत्वं गता वा, यस्यां वा गर्भस्थायां माता अस्थिसञ्चितवती ।
राता रतिशीला ।
पाली वत्सादीनां पालयित्री ।
मित्रा वमित्रवती बहुमित्रेत्यर्तः ।
स्वयं वा मित्रभूता ।
स्वनुजा यस्या स्वनुजा शोभना स्वयंदर्शनीया सा स्वनुजा वरजननादूर्ध्वमल्पीयसि काले जाता तस्मिन्नेव संवत्सरे जातेत्यन्ये ।
वर्षकारी वर्षेणाधिका वर्षकारी स्वेदनशीला इत्यन्ये ।
वर्जयेदित्युच्यते वरणे परिवर्जयेदित्यस्यानुवर्तनं माभूदिति ।
तेन योषु वरणं नास्ति ब्राह्मादिषु विवाहेषु तेषिवप्यासां प्रतिषेधः ।
किञ्चि तदनुवृक्तावत्यन्तप्रतिषेधप्रसङ्गः

7.12

आप्ग्स्-तात्_3.12:
दत्ताद्याःपञ्चदश कन्या वर्जयेत् ।
दत्ता अनेयस्मै वाचा प्रतिश्रुता, उदकपूर्व वा प्रतिपादिता ।
गुप्ता अदर्शनार्थ कञ्चुकादिभिरावृता, प्रयत्नसंरक्ष्यमाणा वा दौश्शील्यादिशङ्कया ।
द्योता पिङ्गाक्षी, बभ्रुकेशी वा, विषमदृष्टिर्वा ।
ऋषभा प्रधाना, ऋषभस्येव शरीरं गतिः शीलं वा यस्यास्सा, ककुद्वास्ति यस्यास्सा ।
शरभा शीर्णदीप्तिः, सर्वनीललोम्नी वा, अरूपा वा, निष्प्रभा वा ।
केचित्-दर्शनीया, यतस्सा जारकाम्या ।
विनता कुब्जा ।
विकटा विकटजङ्घा, विस्तीर्णजङ्घा वा ।
मुण्डा अपनीतकेशा, अजातकेशा वा ।
मण्डूषिका अल्पकाया, अरुणदती वा मण्डूकत्वग्वा ।
अपरे-वामनाङ्गा, दग्धाङ्गा वा ।
साङ्कारिका गर्भस्थायां यस्यां सत्यां माता भर्तुरस्थिसञ्चयनकारिका, कुलान्तरस्य दुहितृत्वं गता वा ।
राता रमणाशीला कन्दुकादिक्रीडाप्रियेत्यर्थः, ऋतुस्नाता वा ।
केचित्-रतिशीला विषयोपभोगशीलेत्यर्थः ।
पाली वत्सक्षेत्रादिपालिका ।
मित्रा बहुमित्रा, सखी वा ।
स्वनुजा शोभनानुजा यस्यास्सा, न तु शोभनो ऽनुजो यस्याः शोभनायामनुजायां कदाचित् प्रमादस्स्यादिति ।
केचित्-वरजन्मसंवत्सर एव पश्चाज्जातेति ।
वर्षकारी वराद्वर्षेणाधिका ।
यात्यन्तं स्रवति सा वा ।
परिवर्जयेदि त्यनुशङ्गे सत्यपि वर्जयेदिति पुनर्वचनं ब्राह्मादिषु सर्वेषु विवाहेष्वासां प्रतिषेधार्थम्;असति गत्यन्तरे ऋद्धावपि परीक्षितायां दत्तेततरासामनिषेधार्थ वा

7.12

नक्षत्रनामा नदीनामा वृक्षनामाश्च गर्हिताः ॥ आ
सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.14:
नक्षत्रं नाम यासां ता तथा नक्षत्रनामाः, नदीनामाः वृक्षनामाश्च रोहिणी गङ्गा करेजोत्यादयः ।
ताश्च विवाहे गर्हिताः ।
तथा
सर्वाश्च रेफलकारोपान्त्याः एवं भूतं नाम इत्यर्तः ।
करा काला सुवेलेत्यादयः ।
ताः वरणे परिवर्जयेत् वरणमप्यासां न कर्तव्यमित्यर्थः

7.13

आप्ग्स्-तात्_3.14:
नक्षत्रस्य नामेव नाम यासां नक्षत्रनामाः ।
एकस्य नामशब्दस्य लेपः, उष्ट्रमुखादिवत् ।
एवमिखादिवत् विग्रहः रोहिणी चित्रेत्येवमादयो नक्षत्रनामाः ।
गङ्गेत्यादयो नदीनामाः ।
शिंशुपेत्याद्या वृक्षनामाः ।
गर्हीताः वर्जनीयाः

7.14

रेफो वा लकारो वा यासां नाम्नौपान्त उपधेत्यर्थः यथा गौरी शालीत्यादि ।
शेषं व्यक्तम् ।
अत्र चकारेण गर्हिता इत्यनुकर्षणात् आसां वर्जनीयत्वे सिद्धे ऽसर्वा वरणे परिवर्जयत्ऽइति व्यर्थम् ।
न;सुग्रहार्थत्वात् ।
अथ वा या एता रेफलकारोपान्ता गौरी शालीत्याद्या-, याश्च प्रकारान्तरेणापि स्मृत्यन्तरोक्ता रेफलकारोपान्ताः, यथा सगोत्रा समानप्रवरा पुंश्चलीति तास्सर्वा वरणे परिर्जयेदिति ज्ञापनार्थम् ।
इदं त्विहवक्तव्यम्- असत्यपि गत्यन्तरे व्यक्ते ऽप्यृद्धिलिङ्गे स्रगोत्रादीनां सर्वथानिषेध एव ।
गौर्यादीनां तु न तथा गुप्तादीनामिवेति ॥
केचित् नक्षत्रनामेत्यादिकेयं शास्त्रान्तरगीता गाता, तस्याः पादपूररमानि ऽसर्वा वरणे परिवर्जयेऽदिति पदानीति परिकल्पयन्तो, यस्मान्नक्षत्रादिनामा रेफलकारोपान्ताश्च गर्हिताः तस्मात्तास्सर्वो वरणे परिवर्जयेदिति व्याचक्षते

7.13

11 ऋद्विपरीक्षा ।
शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति ॥ आ
नाना बीजानि संसृष्टानि वेद्याः पांसून् क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.16:
ऽलक्षणसम्पन्नामुपयच्छेतेऽति वक्ष्यति ।
तत्र लक्षणानामज्ञातत्वात् तत्परीक्षणोपाय उपदिश्यते ।
नचायं नित्यो विधिः;ऽसक्तिविषयऽइति वचनात् ।
शक्ति स्सामर्थ्य यदि सम्फवः ।
यदि वधूज्ञातयो ऽनुमन्येरन् तदा कर्तव्यं नान्यथेत्यर्थः ।
तत् कथं कर्तव्यम्?उच्यते-द्रव्याणि पञ्चवक्ष्यमाणानि मृत्पिण्डेषु प्रतिच्छन्नानि कृत्वा उपनिधाय कन्यासमीपे निधाय तां ब्रूयाद्वरः- एषां पिण्डानां एकतमुपस्पृशेति ।
कानि पुनस्तानि द्रव्याणि?नानाबीजानि संसृष्टानि व्रीहियवादीनि ।
वेद्याः पांसूनाहृतान्, सस्यसम्पन्नात् क्षेत्रादाहृतं लोष्टं, सकृत् गोमयं, श्मशानादाहृतं लोष्टमित्येतानि ।
बीजानां द्रव्यत्वाव्यभिचारे ऽरि द्रव्याणीत्युच्यते-शास्त्रान्तरे दृष्टानामन्येषामपि द्रव्याणामिह विकल्पेन प्राप्त्यर्थ तद्यथा-अविदासिनोहदात् सर्वसम्पन्ना देवनात् कितवी इरिणादधन्येति(आश्व.गृ.1-5-6)

7.15

आप्ग्स्-तात्_3.16:
शक्तिस्समर्थ्यम् ।
विषये ऽवकाशः ।
अस्यामृद्धिपरीक्षायां वरतत्पक्षिणां सामर्थ्यस्यावकाशे सम्भवति, यदि कन्या च तदीयाश्चेमां परीक्षामभ्युपगच्छेयुरित्यर्थः ।
यत एवात्र शक्तिविषय इत्याह, अत एवैषा ऋद्धिपरीक्षा ज्योतिषादिभिर्वैकल्पिकी, न तु नित्यवद्विवाहाङ्गम् ।
द्रव्याणि वक्ष्यमाणानि मृत्पिण्डेषु च प्रतिच्छन्नान्येकस्मिन् भाजने निधाय कन्यां समीपे च कृत्वा, तां ब्रूयादेषां पिण्डानामेकमुपस्पृशेति

7.16

कानि तानीत्यत आह--
नानाबीजानि व्रीहियवादिबीजानि ।
संसृष्टानि एकस्मिन् पिण्डे क्षिप्तानि ।
वेद्याः सौमिक्याः आहृतान् पांसून् ।
क्षेत्रात् सस्यसम्पन्नादाहृतं लोष्टम् ।
अविशिष्टे प्रसिद्धे

7.14

पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः ॥ आ
उत्तमं परिचक्षते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.18:
तत्र बीजस्पर्शने प्रजाभिस्समृद्धिः ।
वेदिपुरीषे यज्ञैः, क्षेत्रलोष्टे धनधान्यैः, गोमये पशुभिः, श्मशानलोष्टे मरणमिति यथालिङ्गार्थः ।
उत्तममन्त्यं द्रव्यं परिचक्षते गर्हन्ते वर्जयन्तीत्यर्थः

7.17

आप्ग्स्-तात्_3.18:
पूर्वेषां चतुर्णामुपस्पर्शने यथालिङिगमृद्धिः ।
नानाबीजानामुपस्पर्शने प्रजानां समृद्धिः ।
वेद्याः पांसूनां यज्ञानां, क्षेत्राल्लोषटस्य सस्यानां, शकृतश्च पशूनामिति ।
ऋद्धिनिश्चयाद्विवाहकर्तव्यतानिश्चय इत्यर्तः

7.18

उत्तमं श्मशानलोष्टं परिचक्षते गर्हन्ते शिष्टां, जायापत्योरन्यतरस्य वा मरणलिङ्गत्वादिति

7.15

उद्वाह्यामाह--
12 उद्वाह्यकन्यासम्पत् ।
बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.19:
उक्ता वर्जनीयाः कन्याः ।
अथ ग्राह्या उच्यन्ते ।
बन्धुशब्देन कुलमुच्यते ।
यदुक्तमाश्वलायनेन"कुलमग्रे परिक्षेत ये मातृतः पितृतश्चेति यथोक्तं पुरता"(आश्व.गृ1-5-100 दिति ।
शीलसम्पन्ना आर्यशीला ।
लक्षणसम्पन्ना स्त्रीलक्षणैरुपेता रोगराहिता क्षयापस्मारादिरहिता

7.19

आप्ग्स्-तात्_3.19:
अत्र सम्पन्नामिति प्रत्येकं सम्बध्यते ।
बन्धुसम्पन्नां प्रशस्ताभिजनाम् ।
शीलसम्पन्ना मास्तिक्यादिगुणान्विताम् ।
लक्षणसम्पन्नां गूढगुल्फत्वादिस्त्रीलक्षणयुक्ताम् ।
अरोगां क्षयापस्मारकुष्ठाद्यचिकित्स्यरोगरहिताम् ।
उपयच्छेत उद्वहेत्

7.16

अथ वरगुणानाह-
13 वरगुणाः ।
बन्धुशीललक्षणसम्पन्नश्श्रुतवानरोग इति वरसम्पत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.20:
श्रुतवान् श्रुताध्ययनसम्पन्नः ।
वरसम्पत् वरगुणाः ।
एवंगुणाय कन्यका देयोत्यर्थः

7.20

आप्ग्स्-तात्_3.20:
बन्दुशीललक्षणसम्पन्न इति पूर्ववद्व्याख्यानम् ।
श्रुतवान् श्रुताध्ययनसम्पन्नः;अविदुषश्चोदुतकर्मानधिकारात्, धर्माद्यर्थत्वाच्च विवाहस्य ।
अरोग इति पूर्ववत् ;तस्याप्यसमर्थत्वेनानदिकारात् ।
एवंभूता वरसम्पत् ।
एवङ्गुणाय वराय कन्यादेयेत्यर्थः

7.17

अथर्द्धिनिश्चये एकायं मतमाह--
यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्विर्नेतरदाद्रियेतेत्येके ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_3.21:
यस्यां कन्यायां वरस्य मनसश्चक्षुषश्च निबन्धः तृप्तिरुत्पद्यते तस्यामृद्धि र्ध्रुवा, नेतरत् न दत्तादिगुणदोषाद्यनुदर्शनमादरणीयमित्येके शिष्टा ब्रुवते ।
अत्र पक्षे सर्वगुणासम्पन्नायामपि यस्यां मनश्चक्षुषी न निबध्येते सा वर्जनीया ।
शास्त्रानिषिद्धास्तत्रापि पक्षे वर्ज्या एव, यथा सवर्णा सर्गोत्रेति

7.21

आप्ग्स्-तात्_3.21:
यस्यां कन्यायां वरस्य मनस्चक्षुषीर्निबन्धः नितरां बन्धनं, यस्यामासत्त्यतिशयेन मनस्चक्षुषी निबद्धे अव तिष्ठत इत्यर्थः ।
तस्यां जायायां सत्यां धर्मादीनां समृद्धिः, नेतरत् गुणदोषानुदर्शन माद्रियेतेत्येके ब्रूवते ।
एतदुक्तं भवति- अत्र मनश्चक्षुषोर्निबन्ध एवादरणे कारणम्, न तु ज्योतिषादिना ज्ञाता गुणाः ।
तथा तदभाव एव परिवर्जने कारणम्, न स्वापादयो दोषा इति ।
उभयोरपि मतयोर्दत्तादीनां निषेधमाद्रियेतैव;ऽसर्र्वणापूर्वशास्त्रविहितायाम्ऽ(आप.ध.2-13-1) ऽअसमानार्षगोत्रजाम्ऽऽपञ्चमात् सप्तमादूर्ध्वम्ऽइत्यादिवचनजातात्

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc