भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 8

8.1

इत्थंसुदर्शनार्येण गृह्यतात्पर्यदर्शनम् ॥
प्रथमे पटले ऽकारि यथाभाष्यं यथामति ॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने तृतीयः खण्डः ॥
समाप्तश्च प्रथमः पटलः
====================================================================================
अथ द्वितीयः पटलः
चतुर्थः खण्डः
4 विवाहप्रकरणम् -
1 वरप्रेषणम् ।
सुहृदस्समवेतान् मन्त्रवतो वरान् प्रहिणुयात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.1:
अथ कन्यावरणविधिः ।
इन्वकाभिः प्रसृज्यन्त इत्युक्तम् ।
तस्मिन्नन्यस्मिन् वा पुण्यनक्षत्रेव ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा, सुहृदः
बन्धून् समवेतान् सङ्गतान् मन्त्रवतः श्रुताध्ययनसम्पन्नान् वरान् कन्यावरयितॄन् प्रहिणुयात् प्रस्थापयोत्-यूयममुष्मात् कुलात् मह्यं कन्यां वृणीध्वमिति ।
यद्यप्येवंविधे कार्ये सुहृदामेव सम्भावना तथापि सुहृद इत्युच्यते मन्त्रवतामसम्भवे सुहृत्वमात्रपरिग्रहार्थम् ।
मन्त्रवत इति ब्राह्मणानोमेव ग्रहणम् ।
तेन क्षत्रियवैश्ययोरपि ब्राह्मणा एव वराः

8.2

आप्ग्स्-तात्_4.1:
पूर्वत्र ऽइन्वकाभिः प्रसृज्यन्तेऽ(आप.गृ2-16) इति विवाहोपयोगिनो वरप्रेषणस्य कालो ऽभिहितः ।
इदानीं तस्य विधिमाह--
सुहृदः आत्मनो मित्राणि ।
समवेतान् आत्मानं प्रत्येककार्यान् ।
मन्त्रवतः मन्त्रब्राह्मणवतः, ऽशुचीन् मन्त्रवतःऽ(आप.ध.2-15-11)
इतिवन्मन्त्रग्रहणस्य प्रदर्शनार्थत्वात् ।
वरान् वरयितॄन् ।
वरः प्रहिणुयात् प्रेषयेत् ।
एते युग्मा ब्राह्मणाश्चेति केचित्

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc