आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 56
आप्ग्स्-तात्_18.2:
इह च ऽशङ्खिनम्ऽइत्यत्र फलवचनं, सर्वत्र श्रुतितोर्ऽथतो वावगतस्य कामिनः कर्मोपदेशः सामर्थ्यात्फलसिद्ध्यवगमपर्यन्त इति प्रदर्शयितुम् ।
तेन ऽयक्ष्मगृहीताम्ऽ(आप.गृ.9-10) इत्यादौ फलवचनाभोवे ऽप्युपदोशः काम्यसिद्धिपर्यन्त एव ।
केचित्- एवमेतस्मिन् कर्मणि त्रिसन्ध्यं कृते, अगदो भवति ।
यदि न भवति तदा पुनरप्येतत्कर्म कर्तव्यं, यावदगदो भवति इति ।
नैतत्, स्वाभिमताभ्यासबोधकशब्दाभावात्
शङ्खिनं कुमारं तपोयुक्त उत्तराभ्यामभिमन्त्र्योत्तरयोदकुम्भेन शिरस्तो ऽवनयेत्प्रातर्मध्यन्दिने सायम् ॥ आ
(प.7.खं.,17-3)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.3:
शङ्खो नाम ग्रहः कुमाराणां भयङ्करः, येन गृहीतः शह्खवन्नदतीति ।
तेन गृहीतं शङ्खिनमुत्तराभ्यां एते ते प्रतिद्वश्येते इत्येताम्यामृग्भ्यां अभिमन्त्र्य तत उदकुंभेन शिरस्तो ऽवनयेत् , अभिषिञ्चेदुत्तरयर्चा ऽऋषिर्बोधः प्रबोधऽइत्येतया
एवमेतदभीमन्त्रणादि त्रिषु कालेषु कर्तव्यम्
आप्ग्स्-तात्_18.3:
शह्खो ऽपि ग्रहः येन गृहीतः शङ्खवन्नदति तद्गृहीत श्शङ्खी ।
उत्तराभ्यां ऽएते ते प्रतिदृश्येतेऽइत्येताभ्यां उत्तरया ऽऋषिर्बोधः प्रबोधःऽइत्ये तया शिरस्तो ऽवनयेत् शिरस्यभिषिञ्चेत्, उदकुम्भेन त्रिसन्ध्यम्
अगदो भवति ॥ आ
(प.8.खं.,18-4)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.4:
पूर्ववदस्य प्रयोजनम्
आप्ग्स्-तात्_18.4:
उक्तर्थम्
अथ सर्पबलेर्यस्मिन् काले येन विधिनोपक्रमस्तमाह--
18 सर्पबलिः -
1 तदुपक्रमे स्थालीपाकः ।
श्रावण्यां पौर्णमास्यामस्तमिते स्थालीपाकः ॥ आ
(प.7.खं18-5)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.5:
अथ सर्पवलिर्नाम कर्म नित्यं संवत्सरे संवत्सरे कर्तव्यमुपदिश्यतेतस्य श्रावण्यां पौर्णमास्यामारम्भः
मार्गशीर्ष्यामुत्सर्गः ।
तस्योपक्रमे श्रावण्यां पौर्णमास्यां अस्तमिते आदित्ये स्थालीपाको भवति ।
असत्यपि नक्षत्रयोगे श्रावणस्य मासस्य पौर्णमासी श्रावणीत्युच्यते लक्षणया ।
तत्र श्लोकौमेषादिस्थे सवितरि योयो दर्शः प्रवर्तते ।
चान्द्रमासास्तदन्ताश्च चैत्रादया द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मृता ।
कादाचित्केन योगेन नक्षत्रस्येति निर्णयः ॥
इति ॥
तत्र सायमाहुतिं हुत्वा स्थालीपाककर्म प्रतिपद्यते पार्वणेनातो ऽन्यानीत्युक्तं, पौर्णमास्यां पौर्णमासीति च ।
श्रावण्यै पौर्णमास्यै सङ्कल्पितान् व्रीहिन् यवान् वा निरुप्य प्रतिष्ठिताभिधारणान्तं कृत्वाग्नेरुपसमाधानादि द्वन्द्वं न्यञ्चि पात्राणि किंशुकपुष्पैरारग्वधमयसमिद्भिश्च सह
आप्ग्स्-तात्_18.5:
श्रवणेन नक्षत्रेण युक्ता पौर्णमासी श्रावणी ।
अयुक्तापीह विवक्षिता, नित्यत्वात्सर्पबलेः ।
श्रावणमासस्य पौर्णमासीत्यर्थः ।
न तु श्रावणमासस्य श्रवणनक्षत्रम्, श्रावणस्य पौर्णमासीविशेषणार्थत्वात्, ऽपौर्णमास्यां (आप.प.2-20) इति वचनाच्च ।
अथ चान्द्रमसमासानां चैत्रादीनां, पौर्णमासीनां च चैत्र्यादीनां निर्णयार्थौ श्लोकौ--
"मेषादिस्थे सवितरि ये ये दर्शः प्रवर्तते ।
चान्द्रा मासास्तत्तदन्ताश्चैत्राद्या द्वादश स्मृताः ॥
तेषु या या पौर्णमासी सा सा चैत्र्यादिका स्मता ।
कादाचित्केन योगेन नक्ष6स्येति निर्णयः" ॥
इति ।
तस्यां श्रावण्यां पौर्णमास्यां, अस्तमिते आदित्ये, सायं होमान्ते ऽपत्न्यवहन्तिऽ(आप.गृ.7-2) इति विधिता प्रतिष्ठिताभिघारणान्तर स्थालीपाकः कर्तव्यः
2 तत्र किंशुकहोमः ।
पार्वणवदाज्यभागान्ते स्थालीपाकाद्धुत्वाञ्जलिनोत्तरैः प्रतिमन्त्रं किंशुकानि जुहोति ॥ आ
(प.7.खं.,18-6)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.6:
सर्व पार्वणवदित्त्युच्यते-स्थालीपाकादेव पार्वणवज्जुहोति, न किंशुकानीति ।
तेन तेष्ववदानकल्पो न भवति ।
स्विष्टकृतश्चावदानं तेभ्यो न भवति ।
किंशुकैः समिधो व्याख्याताः ।
आज्यभागान्तवचनं तन्त्रप्राप्यर्थम् ।
श्रावण्यै पौर्णमास्यै स्वाहेति
स्थालीपाकादेधोमः ।
उत्तरैर्मन्त्रेः ऽजग्धो मश्कऽइत्यादिभिस्त्रिभिः ।
किंशुकानि ।
पलाशपुष्पाणि ।
पलाशानां कण्टकिनां पुष्पाणीत्यन्ये ।
प्रतिमन्त्रमित्त्युच्यते प्रतिमन्त्रं किंशुकानां बहुत्वं यथा स्यादिति ।
अन्यथा एकैकस्य किंशुकस्य होमः प्राप्नोति, यथा समिधाम्
आप्ग्स्-तात्_18.6:
ततः पार्वण वदग्नेरुपसमाधाना द्याज्यभागान्ते अग्निमुखान्त इत्यर्थः;सर्वेष्वौषधहविष्केषु तन्त्रवत्सु कर्मसु अग्निमुखस्य विहितत्वात् ।
श्थालीपाकाद्वि धिवदवदाय ऽश्रावण्यै पौर्ममास्यै स्वाहाऽइति हुत्वा ऽजग्धो मशकःऽइत्यादिभिस्त्रिभिः उत्तरैः प्रतिमन्त्रं किंशुकानि पलाशस्य पुष्पाणि जुहोति ।
केचित्-पलाशसूदृशस्य कण्टकिनः पुष्पाणीति ॥
एतानि च वसन्त एव सङ्गृहीतव्यानि ।
अत्र चाञ्जलेस्संस्कारः उपस्तरणादिरवदानधर्मः,किंशुकशेषादपि स्विष्टकृते समवदानम् ।
अञ्जलेरपि दर्व्या सह लेपाञ्जनं च भवत्येव;मुख्येन धर्मप्रवृत्तेरुक्तत्वात् ।
विप्रतिषिद्धं त्वन्यः कुर्यात् ।
केचित-अञ्जलिहोमा लाजहोमवद्यावदुक्तधर्माण एवेति
3 आरग्वधसमिद्धोमः ।
उत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः ॥ आ
(प.7.,खं.18-7)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.7:
आरग्वधो राजवृक्षः ।
यस्य सुवर्णवर्णानि पुष्पाणि अरत्निमात्राणि फलानि ।
उत्तराभिस्तिसृभिः ऋग्भिः ऽइन्द्र इति जहि दन्दशूकऽमित्यादिभिः ।
समिध आदधाति जुहोति वा ।
सर्वथा स्वाहाकारान्ता मन्त्रां
आप्ग्स्-तात्_18.7:
अथो त्तराभिस्तिसृभिः ऽइन्द्र जहि दन्दशूकऽइत्यादिभिः प्रत्यृचम् ।
आरग्वधमय्यस्समिधः, आरग्वधविकारास्समिधः ।
किम्?
जुहोतीति सम्बन्ध- ।
तेनात्र समिधां मान्त्रवर्णिकदेवतोद्देशेन त्यागः कर्तव्य एव
4 आज्याहुतयः ।
आज्याहुतीरुत्तराः ॥ आ
(प.7खं.,18-8)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.8:
उत्तरा श्चतस्र आज्याहुती र्जुहोति तत्सत्यं यत्ते ऽमावास्यायां, ऽनमो अस्तु सर्पेभ्यऽइति तिस्रः
आप्ग्स्-तात्_18.8:
उत्तरा श्चतस्रः ऽतत्सत्यं यत्ते ऽभावास्यायाम्ऽइत्येका, ऽनमो अस्तु सर्पेभ्यःऽइति त्स्रश्च
जयादि प्रतिपद्यते ॥ आ
(फ.7खं.,18-9)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.9:
एवमेता एकादश प्रधानाहुतीर्हुत्वा सौविष्टकृतं च स्थालीपाकादेव हुत्वा ततो जयादि प्रतिपद्यते किंशुकप्रभृतीनामप्याहुतीनां प्राधान्यज्ञापनार्थमिदं नचनम् ।
अन्यथा पौर्णमास्यामस्तमिते स्थालीपाक इति विहितत्वात् पौर्ममास्यां पौर्णमासीति च तस्य देवताभिधानादर्शकर्मकत्वाच्च किंशुकानां प्रधानत्वं न गम्येत ।
ततश्च पार्णवदुपहोमान्तं कृत्वा ततः किंशुकादीनां हेमः प्राप्नोति
आप्ग्स्-तात्_18.9:
एतच्च वचनं जयादिप्राप्यर्थम्, स्थालीपाककिंशुकसमिदाज्याहुतीनामेकदशानां प्राधान्यत्रापनार्थ च ।
जयाद्यनन्तरं स्विष्टकृदित्युक्तमेव
5 गृहादीशान्यां दिशि स्थण्डिलं कल्पयित्वा तत्र सक्तुनिवापः ।
परिषेचनान्तं कृत्वा वाग्यतस्संभारानादाय प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वा तत्र प्राचीरुदीचीश्च तिस्त्रस्तिस्त्रो लेखा लिखित्वाद्भिरुपनिनीय तासूत्तरया सक्तून्निवपति ॥ आ
(प.7खं.,18-10)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.10:
परिषेचनान्तवचनमानन्तर्यार्थम् ।
परिषेचनान्ते उपनिष्क्रमणमेव नान्दिति किं सिद्धं भवति ?तेन सर्पिष्मता ब्राह्मणं भोजयेत्ऽइत्यादेरुत्कर्षस्सिद्धो भवति ।
वाग्यतः शब्दमकुर्वन् धानाः लाजाः अ#जनाभ्यञ्जने स्थगरोशीरमु- दपात्रमिति संभाराः ।
उपलिप्तो भूमिभागः स्थण्डिलम् ।
कल्पयित्वेति वचनात् स्वयमेव कल्पनं नान्यैः कल्पितस्य परिग्रहः ।
तत्रेति वचनात् स्थण्डिलस्य मध्ये बलेरायतनं भवति ।
श्लोकश्च भवति--
प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् ।
अथोदीचीः पुरस्संस्थं पश्चिमारंभमालिखेत् ॥
अपरे तु प्राचीनानां दक्षिणत आरम्भमिच्छन्ति ।
(प्राचीः प्रागायतः एवमुदीचीः उदगायताः क्रमस्य विवक्षितत्वात्) ।
प्रथमं प्राचीस्तत इदीचीः ।
एकं चेदं लेखाकरणं नाम कर्म ऽपुरस्तादिदग्वोपक्रमस्तथापवर्गःऽइत्युक्तम् ।
तत्रेह प्रागुपक्रमस्यासंभवात् उदगुपक्रमः प्रागपवर्गः ।
एतेन ऽयत्र क्वचाग्निऽमिति एतल्लेखारणं व्याख्यातम् ।
एवं लोखा लिखित्वाद्भिरुपनिनयति तासां समीपे अपो निनयति सर्वदेवजनेभ्यो ददाति यथापितृभ्यः पिण्डदाने ।
ततस्तासु लेखासूत्तरयर्चा ऽनमो ऽस्तु सर्पेभ्यो ये पार्थिवाऽइत्येतया सक्तून्निवपति हस्तेन दर्व्या वा, आश्वलायनके दर्शनात् ।
तास्विति वचनं ताः सर्वा लेखाः यथा बलिर्व्याप्नुयादित्येवमर्थम्
आप्ग्स्-तात्_18.10:
अथ तन्त्रशेषं समाप्य, सम्भारानु त्तरत्रोपयोक्ष्यमाणान् सक्तवादीनादाय, वाग्यतः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य, स्थणडिलं पीठं कल्पयित्वा तत्र पीठे दक्षिणस्या आरभ्य प्राचीस्तिस्रः प्रतीच्या आरभ्य उदीचीस्तिस्रश्च रेखा लिखित्वाद्भिरु पनिनीय तासु षचिसु लेखासु लेखनक्पमेणोत्तरया ऽनमो अस्तु सर्पेभ्यो ये पार्थिवाःऽइत्यादिकया ऽबलिं हरिष्यामिऽइत्यन्तयां सक्तून्निन्निवपति ।
सकृदेव मन्त्रः ।
न च स्वाहाकारः;अजुहोतिचेदितत्वात्, नमस्कारस्यापि प्रदीनार्तत्वादित्युक्तत्वाच्च ।
केचित्-सर्वासु रेखासु यथा युगपत्याप्नुयाद्वलिः तथा निवपति
6 तत्राक्षतादीनां निवपनम् ।
तूष्णी सम्पुष्का धाना लाजानाञ्जनाभ्यञ्जने स्थगरोशीरमिति ॥ आ
(प.7खं.,18-11)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.11:
संपुष्का अक्षता अखण्डितास्तण्डुलैः कृताः स्थगरञ्चोशीरञ्च गन्धद्रव्ये एतानि षट् द्रव्याणि तासु निवपति ।
इति शब्दः समुच्चयार्थः तेन सर्वत्र पूर्वेण मन्त्रेणैव निवपने प्राप्ते तूष्णीमिति मन्त्रप्रतिष्धः
आप्ग्स्-तात्_18.11:
सम्पुष्काः सम्पुष्टा इति धानाविशे,णं अखण्डिततण्डुलैः कृता धाना इत्यर्थः ।
स्थगर मापणस्थं गन्धगद्रव्यम् ।
अन्यानि प्रसिद्धानि ।
इति शब्दस्समुच्चयार्तः ।
एतानि षट् द्रव्याणि तूष्णी रेखस्वेव निवपति
7 उपस्थानान्तरं गृहमागत्य तत्परिषिच्य ततो ब्राह्मणभोजनम् ।
उत्तरैरुपस्थायापः परिषिच्याप्रतीक्षस्तूष्णीमेत्या पश्वेत पदेत्येताभ्यामुदकुम्भेन त्रिः प्रदक्षिणमन्तरतो ऽगारं निवेशनं वा परिषिच्य ब्राह्मणान् भोजयेत् ॥ आ
(प.7.,खं.18-12)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.12:
एवमेवैतं बलिं सप्तभिर्द्रव्यैर्दत्वा ततस्तां बलिदेवतामुपतिष्ठते ।
उत्तरैर्मन्त्रैः"तक्षक वेशालेये"त्यादिभिः
अष्टादशभिः ।
तेभ्य इमं बलिमहार्षमिति पूर्वस्या एवोत्तरस्य पादस्य सन्नामः न मन्त्रान्तरम् ।
वक्ष्यति ट ऽबलिमन्त्रस्य सन्नामःऽइति ।
एवमुपस्थाय अपः परिषिञ्चति सर्वतस्सिञ्चति ।
न्युप्तस्य बलेः प्रकृतत्वात् ।
ततो ऽप्रतीक्षः पृष्टतः अप्रतीक्षमाणस्तूष्णीं वाग्यतः प्रत्येति ।
प्रत्येत्य ऽअपश्वेत पदाऽइत्येताभ्यां ऋग्भ्यां उदकुंभेन उ न्तरतो ऽगारं निवेशनं वापरिषिच्य ब्रह्मणान् युगमान् भोजयेत् स्थालीपाकश्षादिभिः
इति श्रीहरदत्तविरचितायां गृह्यवृत्तावनाकुलायामष्टादशः खण्डः
आप्ग्स्-तात्_18.12:
अथ उत्तरैर्मन्त्रैः ऽतक्षक वेशालेयऽइत्यादिबिरष्टादशभिः मान्त्रवर्णिकीं बलिदेवतामुपतिष्ठते ।
तत्र च ऽओजस्विनी नामासिऽ; इत्यादिषु चतुर्षु पर्यायेषु दशभ्यः पदेभ्य ऊर्ध्व ऽरक्षिता यश्चाधिपतिःऽइत्यादेरनुषङ्गः ।
तथा ऽहेतयो नाम स्थऽइत्यादिष्वपि पञ्चस्वेकादशभ्य उर्ध्व ऽवातनामं तेभ्यो वो नमःऽइति आदेः ।
यत्तुमध्ये-तेभ्य इमंबलिमहार्षमिति तत्पूर्वस्या एव बलिहरणार्थाया ऋचः
उत्तरभागस्योत्सर्जनार्थः सन्नामः ।
वक्ष्यति हि तत्र ऽअहार्षमिति बलिमन्त्रस्य सन्नामःऽ(आप.गृ.19-4)इति ।
अथ न्यप्तं बलिमद्भिः परिषिच्य तमप्रतीक्षमाणः तूष्णीं वाग्यतो गृहान्प्रत्येत्य ऽअप श्वेत पदाऽइत्येताभ्यामित्यादि यथासूत्रं करोति ।
तत्राति ब्राह्मणभोजनवचनं क्रमार्थम् ।
उपनयनवद्भुक्तवद्भिराशीर्वचनम्
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0