आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 55
आप्ग्स्-तात्_18.1:
येन गृहीतः कुमारः श्वेव नदति, श्ववद्वा चेष्टते स श्वग्रहः ।
तेन गृहीतः श्वग्रहगृहीतः , पिशाचिशुना वा दष्टः ।
तपोयुक्तः यावन्मनस्तोषमनशनादियुक्तः पित्रीदिः कर्ता ।
जालं मत्स्यग्रहणसाधनम् ।
कंसं किङ्किणिं ।
लोहघण्टां ह्रदयन् पुरुषान्तरेण ध्वानय् अद्वारण कुड्याद्यपोह्य मार्ग कृत्वा ।
अधिदेवनं यत्र दीव्यन्ति कितवाः ।
अक्षान् विभीतकफलानि ।
केचित्-शारा इति ।
उत्तरैर्मन्त्रैः ऽकूर्कुरस्सुकूर्कुरःऽइत्यादिभिर्यजुर्दशमैः ।
यद्वैकादशभिः ।
तस्मिन् पक्षे आदितस्तिस्र ऋचः ततः ऽतत्सत्यं यत्त्वेन्द्रःऽविगृह्य बाहू इति द्वे यजुषा ततो ऽबिभ्रन्निष्कम्ऽइति पञ्चर्चः ।
ततः ऽश्वानम्ऽइत्येकादशं यजुरेवेति विभागः ।
अवोक्षणं च सर्वेषां मन्त्राणामन्ते सकृदेव ।
केचित्-द्वष्टोपकारकत्वात् प्रतिमन्त्रमिति ।
एवमेतज्जालप्रच्छादनाद्यवोक्षणान्तं प्रातरादिषु त्रिषु पुण्याहविशेषेषु कर्तव्यम् ।
अवोक्षणपर्यन्तं च ह्रादनम्
अगदो भवति ॥ आ
(प.8.खं.,18-2)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.2:
अगदः अरोगः, रोगनिवृत्तिरस्य प्रयोजनमित्यर्थः ।
किं सिद्धं भवति?यदि भैषज्येन कुमारो ऽगदः स्यात् न तत्रेदं कर्तव्यमिति ।
अन्यथा कुमार स्यास्मिन् रोगे पितुर्नैमित्तिकमिदमवश्यं कर्तव्यं विज्ञायेत गृहदाहेष्ट्यादिवत् . एवं ब्रुवतां दोषः यक्ष्मगृहीतामन्यां वेत्येतत्प्रकारान्तरेण रोगशान्तावपि कर्तव्यं स्यात् . तस्मादिदमन्यते प्रयोजनम् ।
एवमेतस्मिन् कर्मणि त्रिषु कासेषु कृते कुमारो ऽगदो भवति ।
यदि न भवति पुनरपि तपोयुक्तेन कर्तव्यमिति
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0