आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 54
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने सप्तदशः खण्डः ।
अष्टादशः खण्डः ।
1 बालग्रहगृहीतस्य कुमारस्य तन्निवर्तकं कर्म ।
श्वग्रहहीतं कुमारं तपोयुक्तो जालेन प्रच्छाद्य कंसं किङ्किणिं वा ह्रादयन्नद्वारेण सभां प्रपाद्य सभाया मध्ये ऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषूत्तानं निपात्य दध्ना लवणमिश्रेणाञ्जलिनोत्तरैरवोक्षेत्प्रातर्मध्यन्दिने सायम् ॥ आ
(प.8.खं.18-1)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_18.1:
बहवो बालग्रहाः दिवसमासससमादिकाः ।
तत्र येन गृहीतः श्ववच्चेष्टते स श्वग्रहः ।
तेन वगृहातं कुमारं, पुल्लिङ्गनिर्देशात् कुमार्यान भवतीत्येके ।
तपोयुक्तः कर्ता पितेत्येके ।
यः कश्चिदित्यन्ये ।
तपो ब्रह्मचर्यादि ।
यावता तपसा सिद्धं मन्यते तावत् कृत्वेत्यर्थः जालं मत्स्यग्रहणं तेन प्रच्छाद्य ।
कंसं प्रसिद्धं ।
किङ्किणिः घण्टाविशेषः ।
तयोरन्यतरं ह्रादयन् अन्यतरस्य ध्वनिं कारयन् केनचिदन्येन ।
स्वयं कुमारं गृहीत्वा समां प्रपादयति अद्वारेण छदीरपोह्यमार्ग कृत्वा तेनेत्यर्थः ।
किं तत् स्थानम्?सभा, तस्या मध्ये ऽ धिदेवनं स्थानं यत्र कितवा दीव्यन्ति तं प्रदेशं उद्धत्याद्भिरवोक्ष्य तत्राक्षान्निवपति ।
अक्षाश्शाराः ।
विभीतका इत्यन्ये ।
तान् पृथु प्रथयित्वाप्वेनमुत्तानं निपातयति ।
शाययति ।
ततो दध्ना लवणमिश्रेणावोक्षेदञ्ज- लिना उत्तरै र्मन्त्रैः ऽकूर्कुरस्सुकूर्कुरऽइत्यादिभिः ऽश्वानमिच्छ्वादन्न पुरुषं छत्ऽइत्यन्तैः ।
प्रतिमन्त्रमवोक्षणम् ।
तत्रादितस्तिस्र ऋचः, ततो यजुषी द्वे ऽतत्सत्यं, विगृह्यबाहूऽइति ततः पञ्चर्चो ऽविभ्रन्निष्कञ्चेऽत्याद्याः, ततो यजुरेकं ऽश्वानऽमिति, एवमेकादशैते मन्त्राः ।
यावत् कर्म समाप्यते तावत् संसकिङ्कण्योरन्यतरस्य ह्रादनम् ।
एवमेतत्कर्म जालप्रच्छादनादवोक्षणान्तं त्रिसन्ध्यं कर्तव्यम्
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0