आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 53
आप्ग्स्-तात्_17.2:
उदूहतीति सम्बन्धः ।
अत्र द्वितीयतृतीययोरप्युदूहयोः मन्त्रावृत्तिः, एवमिति वचनात् ।
अन्यथा उत्तरया त्रिरुदूहतीत्येव ब्रूयात्, ऽएवं त्रिःऽइति सूत्रान्तरं नारभेत
2 स्थूणागर्तखननम्, स्थूणानिखननं च ।
कॢप्तमुत्तरयाभिमृश्य प्रदक्षिणं स्थूणागर्तान् खानयित्वाभ्यन्तरं पांसूनुदुप्योत्तराभ्यां दक्षिणां द्वारस्थूणामवदधाति ॥ आ
(प.7.,खं.17-3)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.3:
एवमुदूह्य ततस्तं भूमिबागं कल्पयन्ति यथा सर्वतस्समं सम्पद्यते ।
ततः तं कॢप्तं उत्तरयर्चा ऽस्योना पृथिवीऽत्येतयाभिमृशति ।
ततः प्रदक्षिणं स्थूणागर्तान् खानयति नकारस्छान्दसः ।
अभ्यन्तरं च बहिरारभ्य मध्ये यथा समाप्यते तथेत्यर्थः ।
तत्र मद्यस्थूणासु वंशधारणार्थासु प्रदक्षिणमितिचाभ्यन्तरमिति च विशेषणस्यासम्भवात् पर्यन्तास्वेव भवति ।
तत्र प्राग्द्वारे ऽगारे दक्षिणद्वारस्थूणागर्तमारभ्य प्रदक्षिणमोत्तरस्मात् द्वारस्थूणागर्तात् खानयित्वा ततो यावत्यो मध्यममस्थूणाः तावतीनां दक्षिणादारभ्योदगपवर्गः ।
एवमन्यथाद्वारे ऽप्यगारे यथासम्भवं प्रदक्षिणमभ्यन्तरत्वं च सम्पाद्यम् ।
एवं खानयित्वा गर्तेभ्यः पासूनुदूप्य उद्धत्य तत उत्तराभ्यां ऋग्भ्यां ऽइहैव तिष्ठेऽत्येताभ्यां दक्षिणाद्वारस्थूणां गर्ते अवदधाति
आप्ग्स्-तात्_17.3:
कॢप्तमुदूहेन प्रागुदक्प्रवणं कृतं उत्तरया ऽस्योना पृथिविऽइत्यनया भिमृश्य स्थूणागर्तान् स्थूणानां विभागार्थान् गर्तान् कर्मकरैः प्रदक्षिणं खानयित्वा भ्यन्तरमारभ्य, न बहिः, पांसूनुदुप्य उत्तराभ्यां ऽइहैव तिष्ठऽइत्येताभ्यां दक्षिणां निष्क्रामत एव, न प्रविशतः, द्वारस्थूणामवटे अ वदधाति ।
अत्र प्रादक्षिण्यस्य चाभ्यन्तरत्वस्य च विधानं प4यन्तीयास्वेव स्थूणासु;न तु मध्यमासु
एवमितराम् ॥ आ
(प.7.,खं.17-4)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.4:
एताभ्यामेव द्वाभ्यामृग्भ्यां इतरां उत्तराञ्च द्वारस्थूणां अवदधातीत्य4थः ।
अहदक्षिणामितरामितिनिष्क्रमतः सव्यदक्षिणे प्रत्येतव्ये;न प्रविशतः
आप्ग्स्-तात्_17.4:
इतरां सव्यां द्वारस्थूणां एवं ऽइहैव तिष्ठऽइत्येताभ्यामेवावदधाति
यथाखातमितरा अन्ववधाय वंशमाधीयमानमुत्तेरण यजुषाभिमन्त्रयते ॥ आ
(प.7खं.,17-5)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.5:
द्वारस्थूणयोः यथाखातं अवधानं मन्त्रवच्च ।
इतरासं तु यथाखातं येन क्रमेण गर्ताः खाताः तेनावधानं तूष्णीम् ।
एवं सर्वास्ववहितासु मध्यमस्थूणासु वंशमादधति कर्मकर्तारः ।
तैराधीयमानं वंशमुत्तरेण यजुषा ऽ ऋतेन स्थूणा " वित्यनेना भिमन्त्रयते ।
वंशग्रहणेन च पृष्ठवंशो गृह्यते, मुख्यत्वात् ।
व्यक्तञ्चैतत् भारद्वाजके"ऋतेन स्थूणेऽति पृष्ठवंश- मधिरोपयतीऽति ।
तत्र मन्त्रे स्थूणाविति छान्दसो ल्ङ्गव्यत्ययः ।
द्विवचनञ्च यथासम्भवं द्रष्टव्यम्
आप्ग्स्-तात्_17.5:
यथाखातं खननक्रमेण इतराः स्थूणाः तूष्णी मन्ववधाय वंशं समतूपं समथूणास्वाधीयमानं उत्तरेण यजुषा ऽऋतेन स्थूणा वधिरोहऽ; इत्यनेनाभिमन्त्रयते
सम्मितमुत्तरैर्यथालिङ्गम् ॥ आ
(प.7खं.,17-6)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.6:
ततस्तदगारं सम्मितं संकॢप्तं उत्तरैर्मन्त्रैः ऽब्रह्म च ते क्षत्रऽमित्यादिभिष्षड्भिः ।
किम्?अभिमन्त्रयते इत्येव ।
यथालिङ्गमिति यस्यागाराङ्गस्य लिङ्गं यस्मिन् मन्त्रे दृश्यते तेन तदभिमुखो ऽगारमभिमन्त्रयत इत्यर्थः ।
यदापि पूर्वस्थूणा बद्धा तदापि द्वे एवाभिसन्धायाभिमन्त्रणम् ।
अगारस्य द्विवचनसंयोगात् ।
एवं सर्वत्र अगारमध्ये यः स्थूणाराजः स्तूपः ।
पृष्ठवंशः अत्रैके स्थूणालिङ्गेषु चतुर्षु मन्त्रेषु ऽस्थूणे अभिरक्षतुऽइत्येवमनुषङ्गाम्च्छन्ति ।
यज्ञश्च दक्षिणाश्च दक्षिणे स्थूणे अभिरक्षतु इति ।
अन्ये ऽतेऽशब्दस्यापि-यज्ञश्च ते दक्षिणाश्चेति ।
साकांक्षत्वान्मन्त्राणाम्, नेति वयम् ।
धक्षिणा इषश्चोर्जश्चेतिबहुवचनान्तैः अभिरक्षत्वित्येकवचनान्तस्य सम्बन्धानुपपत्तेः, ऊहस्य चाविधानात् अभ्यातानवत् पाठाभावच्च सर्वानुषङ्गेषु दृष्टस्यान्ते पुनः पाठस्याभावाच्च ।
यत्तु साकांक्षत्वमुक्तं तदपि नानुषङ्गहेतुः सन्निधिमात्रेणाकाङ्क्षाया निवर्तनात् ।
यदि वा धर्मस्ते स्थूणाराज श्रीस्ते इत्यत्राभिरक्षत्वित्यस्य नापेक्षा , द्वयोरपि प्रथमान्तत्वात् ।
एवं दक्षिणा इत्यादिकं प्रथमान्तं द्रष्टव्यम् ।
तस्मादाकाङ्क्षैव नास्ति ।
सन्निधानाच्च स्थूणाप्रतिपत्तिः
आप्ग्स्-तात्_17.6:
सम्मितं निर्मितमगारं उत्तराः ऽब्रह्म च ते क्षत्रं चऽइत्यादिभिः पञ्चभिर्मन्त्रैः यथालिङ्गं मन्त्रलिङ्गावगतदिङ्मुखो ऽभिमन्त्रयते तत्र पञ्चमेन मध्यमाभिमुखः, अनन्वितत्वात् ।
केचित्-षड्भिः ।
तत्र ऽधर्मस्ते स्थूणाराजःऽइति मध्यमश्च ऽश्रीस्ते स्तूपःऽइति पृष्ठवंशमिति ।
अत्र यद्यपि मन्त्रैरगारावयवास्स्थूणाः स्तूयन्ते;तथाप्येभिः स्थूणावदगारमेव स्तूयते, यथा पादवन्दनेन पादवानेव वन्द्यते ।
अत्र केचित्-द्वितीयादिषु त्रिषु मन्त्रेषु वाक्यसमाप्त्यर्थ ऽस्थूणे अभिरक्षतुऽइत्याद्यनुङ्गं मन्यन्ते ।
अन्ये ऽतेऽशब्दस्यापि ।
तथा ऽधर्मस्तेऽइत्यादौ अभिरक्षत्वित्यस्य च ।
अपरे तु-नैवेह कस्याचित्क्वचिदप्यनुषङ्गः;अनुषज्यमानस्य वैरूप्यात्, अन्ते ऽपि च पाठाभावाच्च ।
वाक्यसमाप्तिस्तु प्रकृततया बुद्धिस्थपदार्थान्वयात्सिध्यति, यथा ऽइषे त्वाऽ(तै.सं.1-1-1)इति मन्त्रस्य बुद्धिस्थच्छेदनान्वयात् छिनद्भीति वाक्यसमाप्तिरिति
अथ गृहप्रवेशविधिमाह--
17 गृहप्रवेशविधिः-
1 गृहस्येशानदिग्भागे ऽग्निप्रतिष्ठापनम् ।
पालाशं शमीमयं वेध्ममादीप्योत्तरयाग्निमुद्धृत्योत्तरेण यजुषागारं प्रपाद्योत्तरपूर्वदेशे ऽगारस्योत्तरयाग्निं प्रतिष्ठापयति ॥ आ
(प.7,खं.,17-7)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.7:
अथ प्रवेशनविधिः ।
अन्यथा सम्मितस्याप्यगारस्य प्रवेशे विधिरयं भवति ।
उदगयनाद्यपेक्षिमिति केचित् ।
नेत्यन्ये ।
बीजवतो गृहान् प्रतिपद्यते (आश्व.गृ.2-10-2)इत्याश्वलायनः ।
बीजग्रहणं सर्वेषामेव गृहोपकरणानामुपलक्ष- णम् ।
तत्र प्रवेक्ष्यन् पालाशं समीमयं वा इध्मं अग्नावादीपयति ।
इध्मश्चात्रार्थलक्षणो न नियतपरिमाणः ।
आदीप्य तमग्निपात्रं उद्धरच्यु त्तरयर्ता ऽउद्ध्रियमाणऽइत्येतया पञ्चपादया ।
यद्यहनि प्रवेशो रात्रिलिङ्गो ऽविवादः प्रयोक्तव्यः ।
तथा रात्रावहर्लिङ्गो निर्विवादः प्रयोक्तव्यः ।
विभज्यविनियोगाभावात् ।
येषां तूदगयनापेक्षा ते रात्रौ प्रवेशं नेच्छन्ति ।
अहःकृतस्य रात्रिकृतस्य च पाप्मनो विनियोगः प्रपाद्यत इत्यर्थः ।
विरोधो ऽपि नास्ति ।
यथा ऽयदापो नक्तं दुरितं चरामेऽति ।
तमुद्धृतमग्निं उत्तरेण यजुषा ऽइन्द्र स्य गृहा वसुमन्तो वरूथिनःऽइत्यनेन अगारं प्रपादयति ।
प्रपाद्य अगारस्य उत्तरपूर्वे देशे तमग्निं प्रतिष्ठापयति उत्तरयर्चा ऽअमृताहुतिऽमित्यनया ।
अत्रागरस्येति न वक्तव्यं, अग्निमिति च ।
कस्मात्?उभयोरष्यत्रैव वाक्ये श्रुतत्वात् ।
एवं तर्हि नायमगारशब्दो देशविशेषणार्थः ।
किं तर्हि?अग्निविशेषणार्थः अगारस्याग्निं प्रतिष्ठापयतीति ।
कः पुनरगारस्याग्निः?यः पचनाग्निः ।
तस्मादौपासनादुद्वरणंमस्याग्नेर्न भवति ।
लौकिकादेव भवतीति केचित् ।
अपरे तु होमसंयोगादौपासन एवायमग्निरिति स्थिताः ।
तेषामगारस्येत्यग्निमिति च पदद्वयं व्यर्थम् ।
होमाश्च पचने ऽपि दृष्टा वैश्वदेवे ।
तस्मात् पचनाद्रिरेवायम् ।
ययप्येवं तथापि देशसंस्कारो भवत्येव ।
होमसंयोगात् . अथौपासनस्य वैहारिकाणां च तदैव प्रवेशनं प्रतिष्ठापनं च स्वे स्थाने ।
भार्यादीनां च तदैव प्रवेशः
आप्ग्स्-तात्_17.7:
पासाशं शमीमयं वेध्मं काष्ठबौपासने ऽग्नावादीपयति ।
इध्ममिति च ऽअग्निषु महत इध्मानादधातिऽइतिवदनियतं संख्यादिकं विवक्षितम् ।
उत्तरया ऽउद्ध्रियमाणःऽइत्येतया ।
ततस्तमग्निमुद्धरति ।
अत्र च सानुषङ्गे चतुष्पदे त्रिष्टुभौ द्वे ऋचौ पञ्चभिः पादैराम्नाते ।
तयोरेकैवोद्धरणार्था ।
अन्या तु विकल्पार्था ।
उत्तरया इत्येकवचनेन विनियोगात् ।
व्यवस्थितश्चायं विकल्पो ऽभिप्रेतःअग्निहोत्रवत् ।
यद्यहनि प्रवेशस्तदा रात्रिलिङ्गया, रात्रौ चेदहर्लिङ्गया ।
रात्रौ च प्रवेशश्शिष्टाचारप्रसिद्ध इति पूर्वमेवोक्तः ।
उत्तरेण ऽइन्द्रस्य गृहाःऽइति यजुषा ।
उद्धृतमग्निमगारं प्रपाद्य अनन्तरं विधिवत्संस्कृते उत्तरपूर्वदेशे ऽगारस्य तमग्निमुत्तरया अमृताहुतिम्ऽइत्येतया प्रतिष्ठापयति ।
तथा श्रौताग्नीनपि विधिवदानीतानस्मिन्नेव काले अगारं प्रपाद्याग्न्यगारे यथाविधि प्रतिष्ठापयति ।
केचित्-इहाग्निमुद्धृत्य अगारं प्रपाद्येति प्रकृते ऽपि पुनरुक्तयोरेतयोरर्थवत्त्वाय अगारस्याग्निमित्यन्वयादादीपनादिप्रतिष्ठापनान्तं पचनार्थ स्य लौकिकाग्नेरेव, नौपासनस्येति ।
तेषामेतत्तुल्यसूत्रे विवाहाङ्गे प्रविश्य होमे पचनाग्नेरेवोपसमाधानादि स्यात् ।
अथागारशब्दस्य शयनस्थानवाचित्वात् गृहशब्दस्य चातथात्वात् न तत्र तुल्यसूत्रतेति चेत्-न;गृहागारशब्दयोरेकार्थत्वे विवादाभावात् ।
इह च ऽइन्द्रस्य गृहा वसुमन्तःऽइति मन्त्रस्थगृहशब्देनागाराभिधानात्,प्रत्युत धर्मशास्त्रे ऽमध्ये ऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् ।
उत्तर पूर्वदेशे ऽगारस्योत्तरैश्चतुर्भिः ।
शय्यादेशे कामलिङ्गेनऽ(आप.ध.2-3-22,23;2-4-1) इति शयनस्थानस्यागारादन्यत्वाभिधानाच्च ।
पिनरुक्तिः स्फुचार्थतयापि निर्वाह्या ।
किञ्चागारस्याग्निमित्यन्वयो ऽपि अगाराग्निः शालाग्निः,गृह्याग्निपासनाग्निरित्येकार्थतया याज्ञिकानां प्रयोगादौपासलन एव प्रतिष्ठाप्यः, न पचनाग्निः
2 अग्नेर्दक्षिणत उदधानायतनकरणम् ।
तस्माद्दक्षिणमुदधानायतनं भवति ॥ आ
(प.7.खं.,17-8)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.8:
एवं प्रतिष्ठतस्याग्नेः दक्षिणमुदधानायतनं कर्तव्यम् ।
उदकं धीयते यत्र तत् उदधानं मणिकाख्यम् ।
आप्ग्स्-तात्_17.8:
तस्मात् प्रतिष्ठिताग्नेर्दक्षिण मुदधानस्य मणिकस्यायतनं भवति
3 तत्रायतने उदधानप्रतिष्ठापनम् ।
तस्मिन्विषूचीनाग्रान्दर्भान्संस्तीर्य तेषूत्तरया व्रीहियवान् न्युप्य तत्रोदधानं प्रतिष्ठापयति ॥ आ
(प.7.खं.,17-9)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.9:
तस्मिन्नायतने विषूचीनाग्रान् सर्वतोदिक्कान् दर्भान् संस्तीर्य तेषु दर्भेषु ब्रीहीन् यवांश्च संयुक्तान् निवपति उत्तरयर्चा ऽअन्नपतऽइत्येतया ततस्तस्मिन्नायतने उदधानं प्रतिष्ठापयति यथा निश्चलं भवति तथा स्थापयति
आप्ग्स्-तात्_17.9:
तस्मिन् उदधानस्थाने विषूचीनाग्रान् नानादिगग्रान् दर्भान् संस्तीर्य, तेषु दर्भेषु उत्तरया ऽअन्नपते ऽन्नस्यऽइत्योतया ब्रीहियवांश्च संयुक्तान् न्युप्य तेषुदधानंप्रतिष्ठापयति
4 उदधानस्य जलेन पूरणम् ।
तस्मिन्नुत्तरेण यजुषा चतुर उदकुम्भानानयति ॥ आ
(प.7.खं.,17-10)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.10:
उत्तरेण यजुषा ऽअरिष्टा अस्माकऽमित्यनेन ।
प्रतिकुंभं मन्त्रावृत्तिः ।
तत्र चतुर्भिर्वा कुम्भैः पृथगानयनमेकेनैव वाथ पुनः पूरयित्वा, यथा-ऽतिस्रः स्रु च उत्सिच्येऽति
आप्ग्स्-तात्_17.10:
तस्मिन् उदधाने उत्तरेण ऽअरिष्टा अस्माकंऽइत्यनेन यजुषा चतुर उदकुम्भानानयति ।
प्रतिकुम्भं मन्त्रावृत्तिः, द्रव्य भेदेन प्रकाश्यक्रियाभेदात् ।
यत्र पुनर्मधुपर्कप्राशनादौ आवृत्तिविधिस्तस्या एव क्रियायाः, तत्र सकृदेव मन्त्रः
5 तस्य भेदने ऽनुमन्त्रणम् ।
दीर्णमुत्तरयानुमन्त्रयते ॥ आ
(प.7.खं.,17-11)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.11:
अथ यदि तदुदधानां भिद्यते तत् उत्तरयर्चा भूमिर्भूमिऽमित्येतया अनुमन्त्रयते ।
कालान्तरे दीर्ण एतद्भवति उदधानान्तरे ऽपि तत्स्थानापन्ने
आप्ग्स्-तात्_17.11:
यदि दीर्ण मणिकं स्यात्तदा उत्तरया ऽभूमिर्भूमिमगात्ऽइत्येतया नुमन्त्रयते ।
एतच्च प्रकरणात्कर्माङ्गमेव
6 प्रधानाहुतयः ।
अग्नेरुपसमाधानाद्याज्यभागान्ते उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ॥ आ
(प.7खं.,17-12)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.12:
चतस्रः उत्तराः प्रधानाहुतयः"वास्तोष्पते प्रतिजानीहि, वास्तोष्पते शग्मया, वास्तोष्पते प्रतरणो न एधि, अमीवहा वास्तोष्पत"इति ।
तत्राज्यभागान्तवचनेनैव तन्त्रप्राप्तिस्सिद्धा, यथा ऽपार्वणवदाज्यभागान्तेऽइत्यत्र ।
किमग्नेरुपसमाधानादिवचनेन?अग्निनियमार्त तु-यो ऽगारे पचनार्थ प्रतिष्ठापितो ऽग्निः तस्यैव होमार्थमुपसमाधानं यथा स्यादिति ।
अन्यथा सर्वपाकयज्ञार्थे औपासन एव होमः स्यात् ।
जयादिवचनं स्थालीपाकप्रतिषेधार्थम् ।
का पुनः प्राप्तिः स्थालीपाकस्य?कस्पान्तरे दर्शनात् ।
कथं पुनः
जयादिवचनेन स्थालीपाकस्य प्रतिषेधः?उत्यते-स्विष्टकृत्प्रतिषेधस्तावत् गम्यते-उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते न स्विष्टकृत्प्रतिषेधस्तावत् गम्यते-उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते न स्विष्टकृतमिति ।
स च स्थालीपाकेषु भवति ।
अतस्यतत्प्रतिषेधद्वारेण स्थालीपाकप्रतिषेध एवायं सम्पद्यते
आप्ग्स्-तात्_17.12:
उत्तरा आहुती श्चतस्रः प्रधानाहुतीः ताश्च ऽवास्तोष्पते प्रतिजानीहिऽ(तै.सं.3-4-10) इति द्वे, ऽवास्तोष्पते प्रतरणो नःऽइति द्वे ।
आज्यहविष्ट्वाच्च तन्त्रविधानम् ।
आज्यभागान्त इति वचनं त्वाज्यभागानन्तरमेव प्रधानहोमाः, नान्यदर्थकृत्यमपीति क्रमार्थम् ।
केचित्-ऽपार्वणवदाज्यभागान्तेऽ(आप.गृ.18-6) इतिवदाज्यभागान्त इत्यनेनैव तन्त्रप्राप्तौ सिद्धायां ऽअग्नेरुपसमाधानादिऽइति वचनं स्वमतेन प्रतिष्ठितः पचनाग्निरेवेह होमार्थ इत्येवमर्थमिति ।
तदयुक्तम् , ऽकर्मस्मार्त विवाहाग्नौ कुर्वीत प्रत्यहं गृहीऽ; ।
(या-स्मृ.1-97)
इति सर्वस्मार्तहोमानामविशेषेण औपासनविधानात्, अस्य सूत्रस्योक्तविधयान्यार्थत्वात्, अस्मादीयानां गृह्यान्तरीयाणां चौपासन एव वास्तुहोमाचाराच्च
7 गृगस्य परिषेचनम् ।
परिषेचनान्तं कृत्वोत्तरेण यजुषोदकुम्भेन त्रिः प्रदक्षिणमन्तरतो ऽगारं निवेशनं वा परिषिच्य ब्राह्मणान् भोजयेदपूपैस्सक्तुभिरोदनेनेति ॥ आ
(प.7.ख.,17-13)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.13:
परिषेचनान्तवचनं आनन्तर्यार्थम् ।
तन्त्रशेषं समाप्यागारस्य परिषेचनमेव कर्तव्यम् ।
नान्यद्वैश्वदेवादिकमिति ।
उत्तरेण यजुषा ऽशिवं शिवऽमित्यनेन ।
उदकुम्भेन न हस्तेन ।
परिभाषयैव सिद्धे प्रदक्षिणमिति वचनात् परिषेचनमिदमेकमेव प्रदक्षिणं त्रिगुणीभूतं सकृदुपात्तेनैवोदकुम्भेन संततमविच्छिन्नं कर्तव्यम् ।
मेखलया परिव्याणवत् त्रीणि परिषेचननीति सिद्धं भवति ।
अन्तरंत इति वचनमगारात् बहिः परिषेचनं मा भूत् ।
अब्यन्तरमेव यथा स्यादिति ।
अगारं गृहं, निवेशनं शयनदेशः ।
ब्राह्ममान् युग्मान् भोजयेदपूपादिभिः ।
इतिशब्दः समुच्चयार्थः
इति हगदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायां सप्तदशः खण्डः ॥
आप्ग्स्-तात्_17.13:
परिषेचनान्त मुत्तरेण ऽशिवं शिवम्ऽइत्यनेन यजुषा उदकुम्भेन सकृदुपात्तेन अगारं निवेशनं वान्तरतो न बहिः त्रिः प्रदक्षिणं परिषिच्य ब्राह्मणान् भोजयेदपूपादिभिः ।
इतिशब्दस्समुच्चयार्थः ।
सक्तूनां तु भोजनात्प्रागेव उपयोगः, न मध्ये लोक- प्रसिद्ध्यभावात् ।
ऽशुचीन् मन्त्रवतः सर्वकृत्येषु भोजयेत्ऽ(आप.ध.2-15-11) इति सिद्धस्य भोजनस्य पुनर्वचनमपूपादिगुणविद्ध्यर्थम्
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0