आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 37
इति गृह्यसूत्रावृत्तावनाकुलायां उपाकर्मोत्सर्जनपटलः ॥
====================================================================================
अथ पञ्चमः पटलः
द्वादशः खण्डः ।
8 समावर्तनम् -
पूर्वत्रोपनयनं व्याख्यातम् ।
उपनीतस्य च धर्मशास्त्रे ऽअथ ब्रह्मचर्यविधिःऽ(आप.ध.1-2-18) इत्यारभ्य धर्मा उपदिष्टाः ।
अध्यायकाण्डव्रतानामुपाकरणसमापनर्योर्विध्श्च ऽउपाकरणे समापने च ऋषिर्यः प्रज्ञायतेऽ(आप.गृ.8-1) इत्यत्र सम्पूर्णमेव व्याख्यातः
अथोजानीं वेदं व्रतानि वा पारं नीत्वा हयुभयमेव वा ॥
(याज्ञ.स्मृ.1-51) इत्यादिवचनार्थानुष्ठानेन कृतकृत्यस्य गुरुकुलात् समावृत्तस्यानुष्ठेयं समावर्तनापरपर्यायं स्नानाख्यं कर्म व्याख्यायते ।
केचित्-ऽउपाकरणे समापने च ऽ(आप.गृ.8-1) इत्यत्रैतयोः कल्पस्याप्रसिध्धत्वात्, अवश्यमन्यत्र प्रसिद्ध आश्रयितव्य इति वदन्तः
ऽअथात उपाकरणोत्सर्जने व्याख्यास्यामः, इत्यादिकं व्रतपटलं नाम उपनयनानन्तरं व्याचक्षते ।
नैतत्;ऽउपाकरणे समापने चऽ; (आप.गृ.8-1) इत्यत्रैवानयोर्विध्योर्भाष्यकारेण सम्पूर्णमेव व्याख्यातत्वात्, व्रतपटलाध्ययनस्य च विप्रतिपन्नत्वात्, भाष्ये प्रसङ्गभावाच्च ॥
1 उदयात्पूर्व गोष्ठप्रवेशविधानम् ।
वेदमधीत्य स्नास्यन् प्रगुदयाद्व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारमपरिधायाऽस्ते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.1:
एवमुपनीतश्चर्तब्रह्मचर्यो ऽधीतवेदषडङ्गो यद्याचार्यकुलादन्यमाश्रमं प्रेप्सुर्भवति तस्य स्नानं विधिवत् भवति तदेतत् स्नानमित्युच्यते ।
स्नानं समावर्तनं तत् करिष्यान्नित्यर्थः ।
प्रागुदयादित्या दित्योदयो गृह्यते ।
नैनमेतदहरादित्य इति दर्शनात् ।
व्रजं गोष्ठम् ।
अन्तः
अभ्यन्तरं लोमानि यस्य तेन चर्मणा यस्य कस्यचित् मृगस्य ।
आसनवचनं निष्क्रमणप्रतिषेधार्थम् ।
वेदमित्यविवक्षितमेकवचनम् ।
वेदं वेदौ वेदान् वा अधीत्य पाठतश्चार्थतश्चाधिगम्येत्यर्थः ।
स्नास्यन्निति वचनं नैष्ठिकस्य उत्तरं कर्म मा भूदिति
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0