भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 36

36.2

श्रवणापक्षे श्रवणस्य मासस्य पूर्वपक्ष इत्यर्थः ।
ओषधीषु जातासु प्रवर्षणाद्रूढासु हस्तेन नक्षत्रेण पौर्णमास्यां वा श्रावणस्य कर्तव्यमित्यर्थः ।
अध्यायस्योपाकरणं अध्यायोपाकर्मप्रारम्भ इत्यर्थः ।
ओषधीषु जातास्विति वचनादाजातास्वोषधीषु प्रोष्ठपद्यां भवति ।
तथा च कल्पान्तरं-श्रावण्यां पौर्णमास्यां प्रोष्ठपद्यामाषाढ्यां वेति

36.3

2 काण्डऋष्यादिभ्यो होमः ।
अग्नेरुपसमाधानाद्याज्यभागान्ते ऽवारब्धेषु काण्डऋषिभ्यो जुहोति सदसस्पतये सावित्र्या ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा
उपहोमे वेदाहुतीनामुपरिष्टात्सदसस्पतिमित्येके

36.3

चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.24:
एवमुपाकरणस्य काल उक्तः ।
अथ प्रयोगः-अग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते ।
अग्निश्च श्रोत्रियागाराद्वाहार्यः, मन्थ्यो वा, न त्वौपासनो बहूनामत्र सहत्वाभावात् ।
भार्यायाश्च सहत्वाभावात् वचनमत्रप्रयोग? ।
विद्यासंस्कारा4थमिदं कर्म वेदसंयुक्तम् ।
तत्राज्यभागान्ते ऽन्वारब्धेषु शिष्येषु प्रधानाहुतीर्जुहोति ।
काण्डऋषिभ्यः प्रजापतिस्सोमो ऽग्निर्विश्वदेवा ब्रह्मा स्वयंभू- इति पञ्च काण्डऋषयः ।
तत्र प्रजापतये स्वाहेति होमः ।
प्रजापतये काण्डऋषये स्वाहेत्यन्ये ।
ऽसदसस्पतिमद्भुतऽमित्यनेन सदसस्पतये जुहोति ।
ऽतत्सवितुऽरित्येतया सावित्र्ये, कल्पान्तरे तथा दर्शनात् ।
ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति चतस्रो वेदाहुतयः
तत उपहोमाः ।
जयादि प्रतिपद्यते इत्यर्थः ।
एक आचार्या वेदाहुतीनामुपरिष्टात् सदसस्पतिं होतव्यं मन्यन्ते

36.4

3 आदितस्त्रयाणामनुवाकानां प्रथमोत्तमयोर्वाध्ययनम् ।
परिषेचनान्तं कृत्वा त्रीननुवकानादितो ऽधीयीरन्

36.4

तन्त्रशेषं समाप्य वेदस्या दितः त्रीननुवाकानधीयीरन् ऽइषे त्वोर्जेत्वाऽऽआप उन्दन्तुऽऽउद्धन्यानंऽऽअनुमत्यै पुरोडाशमष्टाकपालं- निर्वपति धेनुर्दक्षिणाऽ; ।
एते प्राजापत्यसौम्याग्नेयवैश्वदेवानामादितश्चत्वारो ऽनुवाकाः ।
ऽसह वै देवानां चासुराणां चेऽति स्वयंभुवः ।
एतेषां वा पञ्चानां अनुवाकानां अध्ययनम्

36.5

प्रथमोत्तमावनुवाकौ वा

36.5

यदि वा वेदस्य प्रथमोत्तमौ अनुवाकावधीयीरन् ऽइषे त्वाऽऽभृगुर्वैवारुणिऽरिति

36.6

त्र्यहमेकाहं वा क्षम्याधीयीरन्

36.6

यस्मिन्नहन्न्युपाकरणं कृतं तत आरण्य त्र्यहमेकाहं वा क्षम्य विरम्याधीर्यीरन् ।
उपाकृते त्र्यहमेकाहं वानध्याय इत्यर्थः ।
तत्र काण्डोपकरणे एकाह- पारायणोपाकरणे त्र्यहः ।
अधीयीरन्निति वचनं उपाकृत्यत्र्यहादूर्ध्व नियमेनाध्ययनं यथा स्यादिति

36.7

यथोपाकरणमध्यायः

36.8

येन प्रकेरेणोपाकरणं कृतं तथाध्ययनं कर्तव्यम् ।
यदि सर्वेभ्यः काण्डऋषिभ्यो हुत्वा वेदादौ त्रयाणामनुवाकानामारम्भः कृतः प्रथमोत्तमयोर्वा तथा सति यथाध्यायमध्ययनं कर्तव्यम् ।
यदि तु काण्डादीनां सर्वेषामारम्भः तथा सति यथाकाण्डमध्येतव्यम् ।
यस्तु कृत्स्नं वेदमरण्ये ऽनुवाक्यानि परिहाप्य प्रागुत्सर्जनादध्येतुं न शक्नोति तस्य पृथक्वाम्डोपाकरणम् ।
तत्र तस्यैव काण्डस्यैक ऋषिः सदसस्पतिः सावित्री वेदाहुतय उपहोमाः परिष्चनान्ते तस्यैव काण्डस्यानुवाकं एकाहमनध्यायः तस्यैव काण्डस्याध्ययनम् ॥
4 उत्सर्गकालः ।
तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः

36.8

एवमुपाकृत्यानध्यायवर्ज वेदं काण्डं वारण्ये ऽनुवाक्यानि परिहाप्याधीयानस्य रोहिण्यामुत्सर्गः कर्तव्यः ।
पौर्णमास्यां वा तैषीपक्षस्यैव ।
तत्रास्मिन्कर्मणि होमो ऽपि भवति ।
कथं भवति ?उपाकरणवत् समानविधानादुपाकरणवद्गृहे हुत्वैव क्षम्यमाणं कर्म प्रतिपद्यते ।
हिरण्यकेशिनां तु तर्पणादूर्ध्व उदकान्ते होमः

36.9

5 तत्र तर्पणीयेभ्य ऋषिभ्य आसनपरिकल्पनम् ।
प्राचीमुदीचीं वा सगणो दिशमुपनिष्क्रम्य यत्रापः पुरस्तात् सुखाः सुखावगाहा अवकिन्यः शङ्खिन्यः तासामन्तं गत्वाभिषेकान् कृत्वा सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वान्तर्जलगतो ऽघमर्षणेन त्रीन् प्राणायामान् धारायित्वोत्तीर्याऽचम्योपोत्थाय दर्भानन्योन्यस्मै सम्प्रदाय शुचौ देशे प्राक्कूलैर्दर्भैरासनानि कल्पयन्ति

36.9

सगण सशिष्यः यत्रापः पुरस्तदिति यत्र देशे पूर्वस्यां दिशि अपःपश्यतीत्यर्थः ।
सुखाः सुखस्पर्शाः ।
सुखावगाहाः सुतीर्थाः
यास्ववका भवन्ति ताः अवकिन्यः तथा शंखिन्यः तासामन्तं समीपं गत्वा बिषेकान् कुंभैः कृत्वा ततः सुरभिमत्या दधिक्रावम्ण इत्ये तयाब्लिङ्गाभिः ऽआपोहि ष्ठा मयो भुवऽइति तिसृभिः वारुणीभिः अवते हेड उदुत्तममिमं मे वरुण तत्वायीमीत्येताभिः
हिरण्यवर्णीयाभिः ऽ हिरण्यवर्णाश्शुचयः पावकाऽ इति चतसृभिः पावमानीभिः पवमानः सुवर्जन, इत्येतेनानुवाकेन मार्जयित्वा
अभ्युक्ष्य प्रतिम्त्रं क्रियाभ्यावृत्तिः प्रतिपादमित्यन्ये ।
ततो ऽन्तर्जलगतः जलस्यान्तर्निमग्नो ऽघमर्षणेन तृचेन ऽऋतं च सत्यं चेऽत्यघमर्षणदृष्टेन त्रीन् प्राणायामान् धारयति ।
सर्वत्र सगण इत्येव ।
अप्सु निमड्यैतमनुवाकं सकृज्जपति स एकः प्राणायामः ।
एवं त्रिर्धारयित्वोत्तीर्य गृह्यान्तरदर्शनात् प्रक्षालितोपदातान्याक्लिष्टानि वासांसि परिधायाचम्योत्थाय द्वौ संभूय दर्भानन्योन्यस्मै संप्रदाय ततः शुचौ देशे उदकान्त एव स्थण्डिलानि पृथक्कृत्वा दर्भैः प्रागग्रैः आसनानि कल्पयन्ति

36.10

केभ्यः?देवेभ्यः पितृभ्यः ऋषिभ्यश्च ।
ब्रह्मणे प्रजापतये बृहस्पतये ऽग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यस्संवत्सराय इन्द्राय राज्ञे सोमाय राज्ञे यमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यस्साध्येभ्यो मरुद्भ्य ऋभुभ्यो भृगुभ्यो ऽङ्गिरोभ्य इति देवगणानाम्

36.10

देवगण इति देवानां च तद्गणानां चेत्यर्थः ।
अत्र ब्रह्मादि दश देवताः ।
इन्द्रादयः पञ्च राजानः ।
वस्वादयः दश देवगणाः ।
सर्वान्ते कल्पयन्तीति वचनात् सर्वत्र कल्पयामीत्यस्य सम्बन्धः ।
ब्रह्मणे कल्पयामि प्रजापतये कल्पयामीति ।
एतानि पञ्चविंशतिरासनान्युदगपवर्गाणि ।
तर्पणं चैषां देवेन तीर्थेन भवति

36.11

6 तर्पयितव्याः देवगणाः ऋषिगणाश्च ।
अथर्षयः -- विश्वामित्रो जमदग्निर्भरद्वाजो गौतमो ऽत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः, सप्तर्षिभ्यः कल्पयित्वा दक्षिणतो ऽगस्त्याय कल्पयन्ति

36.11

देवानामुत्तरतः सप्तर्षीणामासनानि, दक्षिणतो ऽगस्त्याय, कश्यपादूर्ध्वमरुन्धत्याः, गृह्यान्तरदर्शनात्

36.12

ततो यावदेकवैद्यन्तैः कल्पयन्ति

36.12

ततः अनन्तरं यावन्तः एकवेद्यन्ता समानवेद्यन्ताः?सप्तर्षिभिः, तेभ्यः कल्पयन्ति ।
के पुनस्ते?कृष्णद्वैपायनादय ऋषयः ।
एतदुक्तं भवति-कृष्णद्वैपायनाय जीतूकर्ण्याय तरुक्षाय तृणीबिन्दवे सोमशुष्मिणे सोमशुष्काय वर्मिणे सनद्वाजाय बृहदुक्थाय वामदेवाय वाचरत्नाय हरितयज्वनः उदमयाय गौतमाय ऋणञ्जयाय कृत्जयाय बभ्रवे त्र्यरुणाय त्रिधातवे त्रिवर्षाय शिबिन्ताय पराशराय वसिष्टायेन्द्राय मृत्यवे कर्त्रे त्वष्ट्रे धात्रे सवित्रे भृतश्रवसे सावित्र्यै वेदेभ्यश्चेति पृथक् ।
एते कृष्णद्वैपायनादयंश्चतुस्त्रिंशदृषयः ।
वेदाश्चत्वार इत्यष्टात्रिंशदेकवेद्यन्ताः सप्तर्षिभिः ।
केचिदथर्वाङ्गिरस इतिहासपुराणानि स4पदेवजनान् सर्वभूतानीत्येतेषामपि वेदग्रहणेन ग्रहणमिच्छन्ति; कल्पान्तरे तथा दर्शनात्

36.13

प्राचीनावीतानि कृत्वा दक्षिणतो वैशम्पायनाय पैङ्गये तित्तिरये उखायात्रेयाय पदाकाराय,कौण्डिन्याय वृत्तिकाराय,बौधायनाय प्रवचनकाराय, आपस्तम्बाय सूत्रकाराय, भरद्वाजाय सूत्रकाराय, सत्याषाढाय हिरण्यकेशाय, आचार्येभ्य ऊर्ध्वरेतोभ्य, एकपत्नीभ्यो वानप्रस्थेभ्यः कल्पयामीति

36.13

ततः सर्वे प्राचीनावीतानि कृत्वा वैशम्पायनादिभ्यो द्वादशभ्य आसानानि कल्पयन्त दक्षिणतो देवानामगस्त्यस्य त ।
तत्र दक्षिणाप्रवणदेशे दक्षिणाग्रैः प्रत्यगपवर्ग(सगृ.2-19-7) मिति कल्पान्तरम्

36.14

7तर्पणीयानां पितॄणामासनपरिकल्पनम् ।
अथ यथास्वं पितृभ्यः कल्पयन्ति मातामहेभ्यश्च पृथक्

36.14

यथास्वं यस्य ये पितरः पितामाहाः प्रपितामहा मातामहाश्च मातुर्ये पितृपितामहप्रपितामहाः सर्वेभ्य उभयेभ्यःकल्पयन्तीत्यर्थः ।
प्राचीनावीतानि कृत्वा दक्षिणत इति चानुवर्तते ।
तत्र यथास्वं पित्रादीनां नामभिः कल्पनं-रुद्रशर्मणे विष्णुशर्मण इति ।
अन्ये पितृभ्य इत्येव कल्पयन्ति ।
किमर्थ तर्हि यथास्वमिति?जीवपितृकाणामिहापि पिण्डदानवदुपायविशेषप्रतीत्यर्थः

36.15

यज्ञोपवीतानि कृत्वा तेष्वेव देशेषु तयैवानुपूर्व्या तैरेव नामाभिर्देवानृषींश्च तर्पयन्ति वैशम्पायनप्रभृतींस्तु मातुः प्रपितामहपर्यन्तान् प्राचीनावीतिनस्तर्पयन्ति - अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति

36.15

अथ कल्पान्तरे दृष्टो विशेषः-अमुष्मै नमो ऽमुष्मै नम इति गन्धपुष्पधूपदीपैः, अमुष्मै स्वाहामुष्मै स्वाहेत्यन्नेन, अमुं तर्पयाण्यमुं तर्पयामीति फलोदकेनेति(भा.गृ.3-11) (स.गृ.2-10-5,6,7)

36.16

अभिप्यन्ते वान्योन्यम्

36.16

आप्नोतेरेतद्रूपम् ।
अभिप्या प्रार्थना ।
इहोत्सर्जने कर्मणि शिष्याणामुपाध्यायस्य च स्नानादिषु कर्मसु सह प्रवृत्तिश्चोदिता ।
सर्वत्र वहुवचननिर्देशात्-अभिषेकान् कृत्वाऽसनानि कल्पयन्तीति ।
तत्रायं विशेषो वैकल्पिक उपदिश्यते अन्योन्यमभिप्यन्ते वा द्वौ द्वौ सम्भूयान्यो ऽन्यं प्रार्थयन्ते वासः प्रवृत्यर्थ न सर्वे सहेति ।
अधीत्सन्त इति पाठे ऋध्यतेरेतद्रीपम् ।
उपसर्गवशाच्च स एवार्थः ।
ये त्वधिशब्दात् परं तकारमेवाधीयते न ररेफमपि तेषां धातुर्म-ग्यार्थ एव

36.17

8 तेषां क्रमशस्तर्पणम् । 9 पूर्ववद्ध्ययनम् ।
यज्ञोपर्वातानि कृत्वा त्रीनादितो ऽनुवाकानधीयीरन्

36.17

अध्ययनप्रकार उपाकरणेन व्याख्यातः

36.18

काण्डादीन् प्रथमोत्तमौ वा

36.18

अयमपि विकल्प उपाकरणे व्याख्यातः

36.19

10 जलसमीपे दूर्वारोपणम् ।
ऽकाण्डात् काण्डात् प्ररोहन्तीऽति द्वाभ्यामुपोदके दूर्वा रोपयन्ति

36.19

अथ समूलं दूर्वास्तम्बमाहृत्य तमुदकस्य समीपे रोपयत् ।
यथा दूर्वा प्ररोहति तथा निखनन्ति ऽकाण्डात् काण्डात् प्ररोहन्तीऽति द्वाभ्यामृग्भ्यामा ।
तत्र दूर्वा इत्येकवचनश्रवणात् एक एव मुख्यो निखनति तमितरे ऽन्वारभेरन् ।
अन्ये प्रतिपूरुषमुच्छन्ति

36.20

11 जलस्य क्षोभणम्, जलादुत्तीर्याऽजिधावनम् ।
अपः प्रगाह्योदधिं कुर्वन्ति

36.20

अथापः प्रविश्य तत्रोदधिं कुर्वन्ति ।
उदधिः समुद्रः तमिव क्षोभयन्तीत्यर्थः

36.21

कथं तदित्याह--
सर्वतः परिवार्योर्मिमन्तः कुर्वन्ति

36.21

बहुभिः परिवार्य सर्वत स्सन्निरुध्य यथोर्मयस्तत्रोत्पद्यन्ते तथा कूर्वन्तीत्यर्तः ।
एवं त्रिः कुर्वन्ति

36.22

उद्गाह्याऽतमितोराजिं धावन्ति

36.22

उद्गाह्य उत्तीर्य आतमितो- आश्रमजननात् आजिं धावन्ति ।
प्राचीमुदीचीं वा दिशमभिधावन्ति ।
तथापवर्गः

36.23

12 ब्राह्मणभोजनम् ।
प्रत्येत्याभिदानादि सक्तुभिरोदनेनेति ब्राह्मणान् भोजयित्वा वाचयति

36.23

प्रत्येत्य गृहान् प्रविश्येत्यर्थः ।
ईशिषः पुण्याहाद्याः पुण्याहं स्वस्त्यृध्यतामिति वाचयित्वेति

36.24

एवं पारायणसमाप्तौ च काण्डादि दूर्वारोपणोदधिधावनवर्जम्

36.24

यथास्मिन् वार्षिके ऽप्यध्याये समाप्ते उत्सर्गश्चोदितः एवमेव पारायणसमाप्तावपि कर्तव्यम् ।
तत्र वर्ज्याणि-काण्डादनिमध्ययनं, दूर्वारोपणमुधिकरणमाजिझावनं चेति

36.25

प्रत्येत्य ब्राह्मणभोजनादि कर्म प्रतिपद्यते

36.25

काण्डादिग्रहणात् पारायणाध्ययने यथाकाण्डमेवाध्ययनम्, न तु सम्भिन्नस्य पाठस्येति केचित् ।
अन्ये तु काण्डादिग्रहणस्योपलक्षणत्वात् सर्वप्रकारस्यानुवाकाध्ययनस्य प्रतिषेधः ।
पारायणे च यथारुच्यध्ययनामित्याहुः

36.26

एवमेवाद्भिरहरहर्देवानृषीन् पितॄंश्च तर्पयेत्

36.26

अद्भिरिति वचनात् अहरहस्तर्पणमाद्भिरेव ।
तेनोत्सर्गकर्मणि पूर्वोक्तानां गन्धादीनामपि प्रवृत्तिः ।
अहरहस्तर्पणं ब्रह्मज्ञानन्तरम्, कल्पान्तरे दर्शनात्

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc