आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 26
आप्ग्स्-तात्_9.2:
अर्थः प्रयोजनं, धर्मार्थ तदुपकारकाणि ।
अर्थमुद्दिश्य यः प्रसिद्धमध्वानं प्रस्थितः सोर्ऽथप्राध्वः, न तु स्नान, ब्रह्मयज्ञोदक यग्यघासादि कमुद्दिश्य समीपदोशं प्रति निर्गतः ।
तस्य परिक्षवे क्षवधौ परिकासने कासे च दुर्निमित्ते जाते अप उपस्पृश्य उपस्पर्शनमाचमनं स्पर्शनमात्रं वा यथातुष्टि कृत्वोत्तरे ऽअनुहवं परिहवम्ऽइत्येते यथालिङ्गे परिक्षवे पूर्वा, परिकासने चोत्तरां जपेत् ।
जपत्वाच्चानयोश्चातुस्स्वर्यमेव ।
अत्र च यथालिङ्गमित्यनेनैतत् ज्ञापयति-पूर्वया वर्णव्यत्ययोन परिक्षव एव प्रकाश्यः, उत्तरया त्वध्याहृतं परिकासनमेव ।
यथा चैते ऋचौ क्षवधुकासावेव तात्पर्येण प्रकाशयतः, तथा व्याख्याते भाष्यकारेण ।
केचित्-यथालिङ्गमिति न केवलं परिक्षवे परिकासने चानयोर्जपः अन्येषु च मन्त्रलिङ्गप्रतीतेष्वनुहवादिषु दुर्निमित्तेष्वपीति
2 तत्रैव चित्रियवृक्षादिदर्शने जपः ।
एवमुत्तरैर्यथालिङ्गं चित्रियं वनस्पतिं शकृद्रीति सिग्वातं शकुनिमिति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_9.3:
एवमित्यनेन ऽअर्थप्राध्वेऽति च, अप उपस्पृश्येति च, ऽजपेदिऽतिचापेक्ष्यते ।
एवञ्च यथालिङ्गवचनं विस्पष्टार्थम् ।
चित्रियः प्रसिद्धः तत्रार्तप्राध्वः चित्रियं वृक्षमासाद्याप उपस्पृश्य ऽअग्निरस्त्विऽति एतयर्चानुमन्त्रयते ।
ऽनयश्सकृत्सदेऽइति शकृद्रीति मुपतिष्ठेत ।
ऽसिगसीऽति सिग्वातम् अन्यकृतम् ।
आत्मसंस्पृष्टो वाससा कृतो वातः सिग्वातः ।
सिगसि नासीति दीर्घान्ते प्राप्ते छान्दसो ह्रस्वः ।
शकुनिं शुभां वाच मनुमन्त्रयेत उद्गातेव शकुनेऽऽकत्येतयर्चा अशुभवचने तु प्रागुक्तो जपः ।
केचिदिदमपि तत्रैवेच्छन्ति
आप्ग्स्-तात्_9.3:
एवमित्यनेन अर्थप्राध्वोऽप उपस्पृश्येत्याकृष्यते ।
इहोत्तरैरिति करमविभक्तिदर्शनाद्वनस्पत्यादीनि यथालिङ्गमभिमन्त्रयते ।
न तु पूर्ववज्जपेत् ।
चित्रियं लोकप्रसिद्धम्,चयनमूलं वा ।
वनल्पतिं पुष्पैर्विना फलवन्तम् ।
अस्य प्रदर्शनार्थत्वात्
वृक्षमप्येवाविधं ऽआरात्ते अग्निःऽइत्येतयाभिमन्त्रयते ।
ऽनमश्शकृत्सदेऽइति सकृद्रीतिं सकृत्सन्ततिम् ।
ऽसिगसिनसिऽ इति सिग्वातम् ।
सिचो वस्त्रस्य वातस्सिग्वातः ।
स चान्यकृतः स्वदेहसंस्पृष्टश्चोदमङ्गलः ।
ऽउद्गातेव शकुनेऽइत्येतया शकुनि मशोभन वाचम्,ऽप्रति नस्सुमना भवऽइति मन्त्रलिङ्गात् ॥
केचित्-शुभवाचं, अशुभदर्शने तु पूर्वसूत्रेणोक्तो जप इति
3 दम्पत्योः परस्परं प्रीतिजनकं कर्म ।
उभयोर्हृदयसंसर्गे ऽप्सुस्त्रिरात्रावरं ब्रह्मचर्य चरित्वा स्थालीपाकं श्रपयित्वाग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायां स्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वा तेन सर्पिष्मता युग्मान् द्व्यवरान् ब्राह्मणान् भोजयित्वा सिद्विं वाचयीत ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_9.4:
यदि वरस्य मनो वर्ध्वा न तुष्येत् अथ तस्सिद्धिकामेन वध्वाः पित्रादिना तपोयुक्तेनेदं कर्म कर्तव्यमज्ञातं वरस्य ।
वशीकरणार्थत्वात् ।
औपासने च कर्तव्यम् ।
तदुक्तं पुरस्तात् ब्रह्मचर्यविधानस्य दृष्टार्थत्वात् यावता तपसार्थसिद्धिं मन्यते तावत् कर्तव्यम् ।
पुनर्वस्वोश्चेदं कर्म भवति ।
ऽश्वस्तित्येणऽ(आप.गृ.9-5) इति वचनात् ।
किं पुनस्तत् कर्म?स्थालीपाकः,पाठार्चनं च ।
सर्व कर्म पार्वणवत् ।
विवाहप्रकरणे तूपदेशात् सकृत् पात्रप्रयोगः शम्याश्च ।
कालस्य चानियमः ।
विवाहप्रकरणे चास्यास्समाप्तिः तच्छेषभूतस्य वासोदानस्योपरिष्टादुपदेशादवगन्तव्या ।
एवमर्थमेव च तस्योपरिष्टादुपदेशः
सप्त प्रधानाहुतयः प्रातरग्निमित्येवमाद्याः ।
ततः स्विष्टकृत्, ततो जयादि
पार्वणातिदेशात् एकस्यैव ब्राह्मणस्य भोजने प्राप्ते बहुत्वं विधीयते ।
तेन स्थालीपाको महान् कर्तव्यः ।
सर्पिष्मद्वचनं नियमार्थ परिषेचनादूर्ध्व पार्वणधर्माणां सर्पिष्मत्वमेव भवतीति ।
तेन ऽपूर्णपात्रस्तु दक्षिणेत्येकंऽइत्येतन्न भवतति ।
सिद्धिं वाचयीत तैर्भुक्तवद्भिः सङ्कल्पसिद्धिरस्तित्वति वाचनम् ।
परिषेचनान्तवचनं कर्तृनियमार्थम् ।
कथम्?यो होमस्य कर्ता स एव व्राह्मणभोजनं सिद्धिवाचनं च कुर्यादिति तेन यदुत्तरं कर्म परिकिरणादि तस्य वधूः कर्त्रीति
आप्ग्स्-तात्_9.4:
उभयो र्जायापत्योः ऽत्रिरात्रमुभयोरधश्शय्याऽइत्यधिकारात्, इह अन्वारब्धायामिति स्त्रीलिङ्गनिर्देशाच्च ।
हृदयसंसर्ग मनसोस्सम्प्रीतिमीप्सुः वध्वा हितैषी पितृभ्रात्रादिरपापो ऽपि त्रिरात्रादनूनं यावन्मनस्तोषं ब्रह्मचर्य चरित्वा तस्यौपासन एव स्थालीपाकश्रपणाद्यग्निमुखान्तं कृत्वा तस्यामन् वारब्धायां स्थालीपाकादवदाय ऽप्रातरग्निम्ऽइत्यादिभिस्सप्तभिर्मन्त्रैः प्रत्यृचं प्रधानाहुतीर्हुत्वा जयादि प्रतिपद्यते ।
तदनन्तरं स्विष्टकृदादि तन्त्रशेषं पार्वणवत् समाप्य, तेन हुतशेषेण सर्पिष्मता युग्मान् द्व्यवरान् द्वाववरौ संख्यातो येषां तान् ब्राह्मणान् यथालाभं भोजयित्वा तैरेव भुक्तवद्भिः कर्मफलसिद्धिरस्त्विति सिद्धिं वाचयीत ।
तेन सर्पिष्मतेति च पार्वणसिद्धानुवादो युगिमानिति विधातुम्
4 पतिवश्यकरं कर्म (पाठाख्यायाः ओषध्याः यवैः प्रकिरणम्, तां स्वहस्तयोराबध्य ताभ्यां पत्युस्समालिङ्गनं च)
श्वस्तिष्येणेति त्रिस्सप्तैर्यवैः पाठां परिकिरति"यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामि"इति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_9.5:
श्वो यत् करणीयं कर्म तत्तिष्येण नक्षत्रेणसम्पाद्यत इति कृत्वा पूर्वेद्युस्सिद्धिवाचनान्ते कर्मणि कृते पित्रादिना ऋत्विजा यजमानभूता वधूः यत्र प्रदेशे पाठा तिष्ठति तत्र गत्वा तां पाठां त्रिस्सप्तैः एकविंशत्या यवैः परिकिरति ऽवारुण्यसीऽत्येताभ्याम् ।
त्रिस्सप्तैरिति छान्दसो निर्देशः पाठा ओषधिविशेषः ।
आथर्विणिकास्तु पाशेत्यधीयते
आप्ग्स्-तात्_9.5:
पाठोत्थापनादि भर्तृपरिग्रहणान्तं कर्म श्वोभूते परिद्युस्तिष्यो भवतीति कृत्वा पूर्वेद्युः श्वस्तिष्यः पुनर्वसू इत्यर्थः ।
तस्मिन् नक्षत्रे पित्रादिना सिद्धिवाचनान्ते कर्मणि कृते, अनन्तरं वधूर्यत्र भूमौ पाठास्ति तत्र गत्वा तां पाठां त्रिस्सप्तैः एकविंशत्या यवैः ऽयदि वारुण्यसिऽ; इत्येताभ्यां परिकिरति परितो वपति ।
त्रिस्सप्तैरिति छान्दसं रूपम्
श्वोभूते उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_9.6:
कृत्वा परिकिरणमुपोष्य ततः श्वोबूते तां पाठां इत्थापयति खनित्रेण खात्वोत्खिदति उत्तरयर्चा "इमां खनीमी"त्येतयी ।
ततस्तामुत्तराभिः स्तिसृभिः ऋग्भिः अभिम्नत्रयेत ऽउत्तानपर्णे ऽइत्येताभिः ।
तस्या मूलं द्वेधा प्रच्छिद्य हस्तयोरावध्नाति उत्तरयर्चाऽअहमस्मीऽत्येतया ।
प्रतिच्छन्नां यथा भर्ता न पश्यति तथेत्यर्थः ।
उभयत्र मन्त्रस्यावृत्तिः आबध्य ततो रात्रौ शय्याकाले भर्तारं परिगृह्णीयात् ।
उपधानलिङ्गया ऋचा ऽउपते ऽधाऽमित्येतया उत्तरयेति वक्तव्ये उपधानलिङ्गयेति वचनं परिग्रहे विशेषविधानार्थम् ।
यथा मूलयोः
अन्यतरदधस्तादुपधानं भवति इतरच्चोपरिष्टादपिधानं तथा परिग्रहः कर्तव्यः
आप्ग्स्-तात्_9.6:
परेद्युर्वधूरेव तां पाठां ऽइमां खनामिऽइत्येतया खमित्रेणोत्खाय ऽउत्तानपर्णेऽइत्यादिभि स्तिसृभिरभिमन्त्र्य तस्याः मूलं द्विधा छित्वा
उपायेन भर्तुरदृश्ये कृत्वा ऽअहमस्मि सहमानाऽइत्येतयाभ्यस्तया स्व हस्तयोराबध्य रात्रौ शय्याकाले ऽउपते ऽधाम्ऽ इत्युपधानलिङ्गया बाहुभ्यां भर्तारं परिगृह्णीयात् ।
उपधानलिङ्गयेति ज्ञापनं च कर्माङ्गम् ॥
केचित्-आबध्य पाठामूलयोर्हस्तयोरुपधानमेको ऽन्यश्चापिधानं यथा स्यात् तथा परिगृह्णीयादिति
वश्यो भवति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_9.7:
यदि भार्या भर्तरि न रमते तदा नैवैतत्कर्म भवतीति प्रदर्शनार्थमिदं वश्य ः पतिर्भवति भार्यायाः न भार्या भर्तुरिति
इदं स्पष्टम् (तासर्थदर्शनम् ) वश्य इति पुल्लिङ्गनिर्देशात् वधूरिह यजमाना
अस्य अधिकारान्तरसंयोगमाह--
5 सपत्नीबाधनं कर्म ।
सपत्नीबाधनं च ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_9.8:
न केवलमुभयोर्हृदयसंसर्गसाधनमेवैतत्कर्म, किं तर्हि? सपत्नीबाधनच्च सपत्न्यप्यनेन बाधितुं शक्येत्यर्थः ।
अस्मिन्नपि पक्षे
औपासन एवाग्निः यो ऽस्या विवाहेन सम्पादितः या सप्तनीं बाधते ।
विवाहभेदाध्द्यग्निस्संसृज्यते ।
तथा च राजसूय इत्युक्तं-"तस्या औपासने प्रतिनिहितम्"(आप.श्रौ.18-16-14) इति ।
तथा-अग्निसंसर्गो बौधायनीये ऽभिहितः संसर्गादूर्ध्वमपि तस्मिन्नेव भवति ।
यथा बाध्यमाना सपत्नी न जानाति ।
केचित् पूर्वस्मिन्नेवाग्नौ द्वितीयं विवाहमिच्छन्ति ।
तेषामपि तस्मिन्नेव कर्म
आप्ग्स्-तात्_9.8:
सपत्नी बाध्यते येन तत् सपत्नीबाधनम् ।
एतत्कर्म सपत्नीबाधनमपि भवति ।
अधिकारान्तरं च युक्तम्;य एकया संसृष्टहृदयो ऽप्यन्यां तत्सपत्नीं भार्या तदधीनधर्मादावपि लोभान्न बाधते सो ऽपि कथं नु नाम तदधीनधर्मा द्युपेक्षयापि तां बाधेतैवेत्येवमर्थत्वादस्य कर्मणः
अथान्यदपि सपत्नीबाधनमाह-
6 क्षयरोगग्रस्तायां भार्यादौ तन्निवृत्तिकरं कर्म ।
एतेनैव कामेनोत्तरेणानुवाकेन सदाऽदित्यमुपतिष्ठते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_9.9:
एतेनैव सपत्नीबाधनेन कामेन उत्तरेणानुवाकेन "उदसौ सूर्यो अगात्"इत्यनेन सदा अहरहः आदित्यमुपतिष्ठते ।
सदार्थकएवकारः पौनर्वाचनिकः
आप्ग्स्-तात्_9.9:
एतास्मिन्नेव कामे वधूः ऽउदसौ सूर्यो अगात्ऽइत्यनुवाकेन प्राग्भोजनादहरहरादित्यमुपतिष्ठते ।
सदेति वचनं च सिद्धे ऽपि सपत्नीबाधनकामे कर्मान्तरं वेति
यक्ष्मगृहीतामन्यां वा ब्रह्मचर्ययुक्तः पुष्करसंवर्तमूलैरुत्तरैर्यथालिङ्गमङ्गानि संमृश्य प्रतीचीनं निरस्येत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_9.10:
यक्ष्मा राजयक्ष्माक्षयरोगः ।
तेन गृहीतां भार्या अन्यां वा स्वां स्त्रियं मातृप्रभृतिं ज्ञात्वा भैषज्यमिदं कर्तव्यम् ।
किं तत्?
उत्यते-ब्रह्मचर्येण युक्तः पुष्करस्य संवर्तमूलैः परिमण्डलाकारैः मूलैः ।
संवर्तमूलैश्चेत्यन्ये ।
संवर्तिका नवदलमिति नैघण्टुकाः ।
उत्तरैर्मन्त्रैः "अक्षीभ्यां ते नासिकाभ्यां"इत्यादिभिः ।
यथालिङ्गं तस्या अक्ष्यादीन्यङ्गानि समृश्य प्रतीचीनं यथा तथा निरस्येत् ।
यथालिङ्गवचनात् प्रतिमन्त्रं सम्मर्शनं निरसनं च ।
एकैकेन मूलेन सम्मर्खनम्,बहुवचनस्य सर्वापेक्षत्वात् ।
आन्त्रादीनामन्तर्गतत्वात्
बहिस्तत्प्रदेशे सम्मार्जनम्
आप्ग्स्-तात्_9.10:
राज्यक्ष्मणा गृहीतां, अन्यां वा राजयक्ष्मणो ऽन्यैः कुष्ठादिभिर्गृहीतां वा वधूं तद्धितैषी उक्तलक्षणब्रह्मचर्ययुक्तः पुष्करस्य पद्मस्य संवर्तिकाभि र्दलैर्मूलैश्च ऽअक्षीब्यां तेऽइत्याद्यृग्रूपैष्षड्भिर्मन्त्रैः यथालिङ्गं मन्त्रलिङ्गप्रतिपन्नानि भाष्ये व्याख्यातान्यक्ष्यादीन्यङ्गानि संमृश्य प्रतिमन्त्रं तानि प्रतीचीनं निरस्येत् ।
एतेन भैषज्येनागदा स्यादिति तात्पर्यम् ॥
केचित् यक्ष्मगृहीतां भार्या अन्यां वा मात्रादिं पुष्करस्य संवर्तैः परिमण्डलाकारैः मूलैरिति
7 वधूवाससो दानम् ।
वधूवास उत्तराभिरेतद्विदे दद्यात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_9.11:
विवाहकाले यत् वासः परिधापितं, तत् एतद्विदे ब्राह्मणाय दद्यात्, यो ऽस्मिन् प्रश्ने पठितान् मन्त्रान् सार्थान् वेद तस्मै ।
केचित्-भैषज्यशेषमिदं मन्यन्ते ।
आनन्तर्यात् ।
तेषां वधूवास इति विशेषणमन्यस्याः स्त्रियाः यक्ष्मगृहीतायाः वाससो दाननिवृत्त्यर्थम् ।
एतद्विद इति च भैषज्यकर्मकृत इत्यर्थः मन्त्रेषु तु परादेहि इत्यादिषु विवाहकाले परिहितस्य वधूवाससः स्पर्शनिन्दा ।
सूर्याविदे ब्राह्मणाय तद्दानं च दृश्यते ।
कल्पान्तरे च तद्व्यक्तम् -"चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात्"(आश्व.गृ. 1.8.13) इति ।
तस्मात् भैषज्यशेषत्वमनुपपन्नम् ।
यत्पुनरुक्तं आनन्तर्यादिति, तत्र कारणमुक्तमेव ।
कथम्?एवमन्तं विवाहप्रकरणं स्यादिति
आप्ग्स्-तात्_9.11:
यस्या वध्वा इदं भैषज्यं क्रियते तस्या वासः ।
एतद्विदे एतत्कर्म समन्त्रार्थ यो वेत्ति तस्मै ऽपरा देहिऽइत्यादिभिश्चत भ्र्द तसृभिर्दद्यात् ।
केचित्-विवाहकाले वध्वा यदाच्छादितं वासस्तद्रिमुच्यासंस्पृशन्नेव पञ्चम्यां ऽपरा देहिऽइत्यादिभिश्चरितव्रताय एतद्विदे सूर्याविदे, य एतान् मन्त्रान् सार्थान् वेद तस्मै दद्यात् ।
असंस्पर्शस्च ऽक्रूरमेतत् कटुकमेतत्ऽइति लिह्घात् ।
अस्य च समावेशनानन्तरमुपदेष्ट व्यस्य इहोपदेशो हृदयसंसर्गार्थे कर्मणि शम्याज्ञापनार्थमिति ।
नेदं युक्तम्, सन्निहितकर्मपरित्यागेन वासोदानस्य अतिव्यवहितविवाह अर्थज्ञानानुदयात्, अस्मदीयानामाचाराभावाच्च
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0