भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 25

25.1

आप्ग्स्-तात्_9.1:
चतुर्थीप्रभृतीति दीर्घेमार्थपाठः ।
चतुर्थी रात्रिमारभ्याषेडशी;अङ् अबिविधौ, द्वितीया च पञ्चम्यर्थे;आषोडश्या इति यावत् ।
उत्तरामुत्तरां युग्मां रात्रिं प्रति ऋतुगमने ऋतौ मैथुने कृते, प्रजानिःश्रेयसं, प्रजाः पुत्राः तेषां निश्श्रेयसं आयुरादीप्सितगुणसम्पत्तिर्भवती त्युपदिशन्ति मन्वादयः ।
एतदुक्तं भवति-त्रयोदशसु रात्रिषु ऋतुगमने शुक्लाधिक्ये सति पुत्रा जायन्ते ।
उत्तरोत्तरासु च युग्मासु यथाक्रमं तरतमभावेन ते सद्गुणाधिका भवन्ति

25.2

संस्कारकाण्डे कर्मान्तरव्याख्यानमसङ्गतमपि मन्त्राम्नानक्रमेणैव कार्यमित्युत्तरसूत्रजातं यावत्पटलान्तरमारभ्यते--
1. धनादिप्राप्त्यर्थ प्रस्थितस्य मध्ये परिक्षवादौ दुर्निमित्ते जाते कर्तव्यो जपः ।
अर्थप्राध्वस्य परिक्षवे परिकासने चाप उपस्पृश्योत्तरे यथालिङ्गं जपेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_9.2:
अध्वानं प्रस्थितः प्राध्वः ।
अर्थः प्रयोजनम् ।
यत्किञ्चित् प्रयोजनमुद्दिश्य यो ऽध्वानं प्रस्थितः, तस्य अर्थप्राध्वस्य ।
परिक्षवे
परिकासने वा दुर्निमित्ते प्राप्ते प्रायश्चित्तं अप उपस्पृस्योत्तरे ऋचौ जपेत् ऽअनुहवं परिहवंऽ; इत्येते ।
परितः क्षवः परिक्षवः सर्वतः स्थितैर्जनैःकृतक्षवथुः ।
तथा परिकासनम् ।
उपस्पर्शनं पाणिना संस्पर्शः, स्नानमाचमनं वा ।
तत्र यस्मिन् कृते प्रयतो मन्यते तत्र तत् कुर्यात् ।
यथालिङ्गमित्यनुपपन्नम् ।
परिक्षवपरिकासलिङ्गभावात् ।
अथ पूर्वस्यामृचि परिक्षवशब्द एकतोश- विकृतो लिङ्गमित्युच्यते तथाप्युत्तरस्यां परिकासनलिङ्गं नास्त्येव ।
तस्मादेवं व्याख्येयम्-एतयोर्निमित्तयेरेकस्मिन्नपि सति मन्त्रयोरेतयोर्जपः कार्यः ।
अन्येषु च मन्त्रलिङ्गप्रतीतेष्वनुहवादिषु दुर्निमित्तेष्विति ।
तत्र पृष्ठत आह्वान मनुहवः ।
सर्वत आह्वानं परिहवः ।
परिवादो ऽभिशंसनम् ।
परिक्षव उक्तः ।
दुःस्वप्नः प्रसिद्धः ।
दुरुदितम् अल्पायुरित्यादि ।
अनुहूतं परिहूतमिति शकुनेरशोभना वागुच्यते ।
अशाकुनं अनिमित्तभूतम् ।
मृगस्य सृगालादेः ।
अक्ष्णया सृतम् तिर्य्यग्गमनमपसव्यादि ।
एतेषामेकस्मिन्नपि निमित्ते द्वयोरपि मन्त्रयोर्जपः कार्यः ।
परिक्षवपरिकासनयोश्च लिङ्गाभावे ऽपि ।
परिक्षवशब्दस्तु क्षवधुलिङ्गं न भवति, रूपभेदात् ।
एकदोशविकारस्तु परिक्षवस्यापि संभवति ।
तन्निमित्ते तु अन्यस्मिन् प्रकरणे एतद्वक्तव्यम् ।
इह च वचनप्रयोजनं विवाहार्थ गच्छ तो ऽपि एतेषु निम्त्तेषु प्रायश्चित्तमेतत् यथा स्यादिति ।
प्रकरणान्तरे तु श्रुतानां विवाहादूर्ध्वमेव प्रवृत्तिः ।
इदं तु अर्थप्राध्वस्येति वचनात् सर्वार्थ च भवति ।
प्रकरणात् विवाहे ऽपि स्वाध्यायस्थाननियमार्थ च मन्त्रयोरेतयोरिह पाठः

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc