भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 1

1.1

अथ प्रथमः पटलः
प्रथमः खण्डः
1. सामान्यपरिभाषाः
1 प्रतिज्ञासूत्रम् ।
अथ कर्माण्याचाराद्यानि गृह्यन्ते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.1:
नमो रुद्राय यद्गृह्यमापस्तम्बेन निर्मितम् ।
क्रियते हरदत्तेन तस्य वृत्तिरनाकुला ॥
द्विप्रकाराणि कर्माणि-श्रुतिलक्षमानि आचारलक्षमानि च ।
तत्र श्रुतिलक्षणानि व्याख्यातानि ।
अथेदानीं यानि कर्माणि विवाहप्रभृतीनि आचारात् प्रयोगात् गृह्यन्ते ज्ञायन्ते, न प्रत्यक्षश्रुतेः, तानि व्याख्यास्यामः ।
किं प्रयोजनं सूत्रस्य?स्मार्तानां कर्मणां अधिकारः ।
तेन
उदगयनादिनियमः."सर्वत्र स्वयं प्रज्वलिते ऽग्ना"(आप.गृ.8-5) वित्येवमादीनि च गार्ह्येष्वेव कर्मसु भवन्ति, न श्रौतेषि ।
अत्राथशब्देन
श्रौतोपदेशानन्तरं स्मार्तोपदेशं करिष्यामीति वदन् तदपेक्षामस्य दर्शयति ।
तत्र याः परिभाषाः"स त्रयाणां वर्मानांऽ(आप.परि1-2) "मन्त्रान्तैः कर्मादीन् सन्निपातयेत्"(आप.परि.2-1.)"रौद्र, राक्षसऽ(आप.परि2-9)"तदिदं स4वप्रायश्चित्तऽमित्येवमाद्यास्ता इहापि भवन्ति(इदंकार्याणि) ॥
आप्ग्स्-तात्_1.1:
यो वर्णैरिज्यते नित्यैः कर्मभिश्चोदितैर्निजैः ।
तेभ्यो ऽ(1) पवर्गदो यश्च तं नमाम्यद्वयं हरिम्(2)

1.2

आपस्तम्बमुनिं वन्दे मन्दधीहितकाम्यया ।
यो ऽनुष्ठेयपदार्तानां क्रमकल्पयत्

1.3

यत्कृतं वेदवद्भाष्यमाद्रियन्ते विपश्चितः ।
स कपर्दी चिरं जीयाद्वेदवेदार्थतत्त्ववित्

1.4

सुदर्शनार्यः(3)कुरुते गृह्यतात्पर्यनिर्णयम्(4) ।
केवलं वैदिकश्रद्धाप्रेरितो मन्दधीरपि

1.7

अथशब्द आनन्तर्यार्थः ।
तदर्थ पूर्ववृत्तमुच्यते ।
इह हि यज्ञा एकविंशतिभेदाः ।
तत्र च सप्त पाकयज्ञसंस्थाः-
औपासनहोमो, वैश्वदेवं, पार्वण, मष्टका, मासिश्राद्धं, सर्पबलिं, रीशानबलिरिति ।
सप्त च हविर्यज्ञसंस्थाः-अग्निहोत्रं, दर्शपूर्णमासा, वाग्रयणं, चातुर्मास्यानि, निरूढपशुबन्धस्, सौत्रामणिः, पिण्डपितृयज्ञादयो दर्वीहोमा इति ।
(5)सप्तैव च सोमसंस्थाः-अग्निष्टोमो,ऽत्याग्निष्टोम, उक्थ्य, ष्योडशी, वाजपेयो, ऽतिरात्रो ऽप्तोर्याम इति ।
एते च नित्याः नियतप्रदिकालीनजीवननिमित्तका इत्यर्थः ।
कुत एते च नित्याः?ऽजायमानो वै ब्राह्मणस्त्रिभिऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेनऽदेवेभ्यः प्रजया पितृभ्यः,(तै.सं.6-3-10) इत्यत्र ऽयज्ञेनऽइत्यकवचनं ऽयज्ञं व्याख्यास्यामःऽ(आप.परि.1-1) इतिवत् जात्यभिप्रायं मन्यमानस्य भगवतो वसिष्ठस्य ऽनैयमिकंह्येतदृणत्रयं संस्तुतम्ऽ(व.सं.11-47) इति
वचनेन एषामवश्यानुष्ठेयत्वावगमात् ।
तथा ऽसायं प्रातरत ऊर्ध्वम्ऽ(आप.गृ.7-19.) ऽयावज्जीवमग्निहोत्रं जुहोति,ऽऽवसन्ते ज्योतिष्टोमेन यजेतऽ(आप.श्रौ.10-2-5) इत्येवमादिभिः, ऽअहरहः प्रवृज्यन्तेऽ(तै.ब्रा.2-1-3.), अर्धमासेर्ऽधमासे प्रवृज्यतेऽ(तै.बार.3-2-8), ऽपुनर्भक्ष्यो ऽस्य सोमपीथोभवतिऽ; (तै.ब्रा.3-2-3). इत्येवमादिभिः, (1) कर्मण्योरम्भन्यायेन च प्रयोगाभ्यासावगमात् ।
तथैव सोमस्येषट्यादेश्चाकरणे ऐन्द्राग्नशुविभ्रष्टेष्ट्यादि प्रायश्चित्तविधानेन प्रत्यवायोत्पत्त्यवगमात् ।
तथैव ऽस एतांश्टतुर्होतॄनात्मस्परणानपश्यत्ऽ(तै.ब्रा.2-3-7) इति अग्निहोत्रादिसोमान्तानामात्मनिष्क्रयणार्थत्वावगमात् ।
न तु सौर्यादिवत्(2) कोवलं काम्याः उक्तहेतूनां सर्वेषामनुपपत्तैः ।
यत एवैते नित्यां अत एव ऽअनाहिताग्नितास्तेयम्ऽ(मनु.11-65). इत्यनाहिताग्निताया उपपातकगणे पाठः ।
अत एव नित्याधिकारविधिप्रयुक्तमाधानम् ।
काम्यसिद्धिस्तु नितयानुष्टानेनैव गुणफलाधिकारविधया प्रासङ्गिकी भवतु ।
मीमांसकमत्या तु यद्यपि काम्याधिकारविधिग्रयुक्तमाधानं, काम्यानुष्ठानैन च नित्यसिद्धिः (3) प्रसङ्गात्;तथापि कल्पसूत्रकारणां प्रक्रियया साधिकारत्वेन (4)प्रयुक्तिसक्तियोग्यतया अन्यतो ऽप्रयुक्तौ नित्याधिकारविधिप्रयुक्तिरप्युपपन्ना ।
यथा(5) विवरणमते स्वविधिप्रयुक्तमध्ययनमिति ।
तस्मात् मन्दमध्यमोत्कृष्टबुद्धिभि (6) स्सर्वैरपि त्रैवर्णिकैरेते ऽवश्यं कर्तव्याः ।
ते च नानासाधनका नानाशाखान्तरस्थाङ्गका मीमांसान्यायसहस्रनिर्धार्यवचनव्यक्तिका मन्दबुद्धिभिरिदानीन्तनैर्(7) दुर्शाना- अज्ञाने चानुष्ठातुमशक्ताः कथञ्चन प्रत्यवेयुरितु कृपाविष्टचेतस्कतया सूत्रकारेणऽयज्ञं व्याख्यास्यामःऽ(आप.परि.1-1) इति परिभाषायामेकविंशतियज्ञान् सामान्यतः (8)
संक्षेपतश्च व्याखायाय तावन्मात्रेणानुष्ठानानुपयोगात् ऽअथातो दर्शपूर्णमासौऽ(आप.श्रौ.1-1) इत्यारभ्य श्रौता हविर्यज्ञास्सोमसंस्थाः (9)
क्षामवत्यादयो नैमित्तिकाः प्रसङ्गात् काम्याश्च(10) विशेषतो व्याख्याताः ॥
अथ अनन्तरम् ।
आचारात् -आङ् इत्युपसर्गस्य अविच्छेदो व्याप्तिरभिप्रेतोर्ऽथः ।
चारः चरणं क4मसु प्रवर्तनम्, ऽपिण्डपितृयज्ञेन चरन्तिऽ(आप.श्रौ.1-7-2) इत्यादौ दर्शनात् ।
तेन यत्सर्वेषु देशेषु सर्वेषु कोलेषु च सर्वैस्त्रैविद्यवृद्धैश्शिष्टैर्लौकिकप्रयोजनाभावे ऽप्यविच्छिन्नमवि(1)गानेनाद्रियमाणं, अतएव मूलान्तरासम्भावात् स्वमूलभूतवेदानुमानेलिङ्गभूतं कर्मसु प्रवर्तनं स आचारः ।
तस्मादाचारात् अनुमितैर्वेदैः यानि औपासनहोमादीनि पाकयज्ञशब्दवाच्यानि पाणिग्रहणादीनि च यशेष्वधिकारिष्यमाणदेहसंस्कारार्थानि कर्माणि गृह्यन्ते ज्ञायन्ते कर्तव्यत्वेन तानि व्याख्यास्याम इति शेषः ।
यत एव आचारानुमेयवेदावगम्यानि गार्ह्यअणि कर्माणि अत एव तेभ्यः प्रथममनुष्ठेयेभ्यो ऽपि पूर्व श्रौतानां व्याखायानं कृतम्;प्रत्यश्रुतिविहितेषु जिज्ञासायाः प्रथमभावित्वात्, अनुमितवेदार्थजिज्ञासाया(2) श्चरमभावित्वात्, जिज्ञासाशान्त्र्थत्वाच्च व्याख्यानस्येति ।
अत्र च आचारादित्याचारेणोपलक्ष्य गार्ह्यअणि कर्माणि वदन्नेवं ज्ञापयति- इह साक्षादनिबद्धानामपि येषां ऽजमदग्नीनां तु पञ्चावत्तम्ऽ; (आप.श्रौ.2-18-2) इत्यादीनां पदार्थानामाचारः कृत्स्नदेशादिव्याप्तस्स्यात् ते ऽपि वेदमूला एवोति ।
कृत्स्नदेशादिव्याप्तिश्चाधिकपौनरुक्त्यादिभिश्श्रौते दर्शनेन गृह्यान्तरैर्र्धमशास्त्रैः न्यायबलेन सम्प्रदायविद्वाख्यातृवचनैर्वा निश्चेतव्या ।
इदं चाधिकारसूत्रम् ।
यान्यङ्गान्युत्तरत्रऽपुरस्तादुदग्वोपक्रमःऽ(आप.गृ1-5) इत्यादीनि वक्ष्यन्ते तेषां गार्ह्यकर्मार्थतां, श्रौतानां सार्वत्रिकाणामपि स्वतो ऽनिदमर्थतां च ज्ञापयितुम् ।
एतच्च(3) समानोपदेशातिदेशयोरभावात् ॥
केचित्-कर्माणीत्येतद्गृह्ये वक्ष्यमाणान्यस्मच्चरणार्थान्येव, न तुधर्मशब्दाधिकृतधर्मशास्त्रोक्तवत्सर्वार्तानि ।
तथा श्रौतानन्तरं गार्ह्यअधिकारः श्रौतोक्तसार्वत्रिकधर्मामामिह प्राप्त्यर्थ इति ॥
2 उदगयनादिकालविधिः ।
उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.2:
उदगयनादिविधानं दक्षिणायनादिप्रतिषेधार्थम् ।
समुञ्चयश्चोदगयनादीनां न विकल्पः ।
पुण्याहाः देवनक्षत्राणि ज्योतिश्शास्त्रे प्रसिद्धानि यमनक्षत्राणि च तद्विहितानि ।
आप्ग्स्-तात्_1.2:
उदगयनादयः प्रसिद्धाः ।
पुण्याहास्त्वह्नो नवधा विभक्तस्यायु जो भागाः- प्रातस्सङ्गव(1) मध्याह्णसायंशब्दवाच्याः पुण्यनक्षत्रापरपर्यायाः पञ्च ।
ऽसमानस्याह्नः पञ्च पुण्यानि नक्षत्राणिऽ(तै,ब्रा.2-5.6) ऽमित्रस्य सङ्गवः ।
तत्पुण्यं तेजस्स्व्यहःऽ; (तै.ब्रा.1-5-6) इत्यादिश्रुतेः ।
युग्मास्त्वश्लीलाः, ऽचत्वार्यश्लीलानिऽ(तै.ब्रा.1-5-6) इति श्रुतेः ।
केचित्-कृत्तिकादिविशाखान्तानि देवनक्षत्राणि पुण्याहाः, ऽयान्येव देवनश्रत्राणि ।
तेषु कुर्वीत यत्कारी स्यात् ।
पुण्याह एव कुरुतेऽ; (तै.ब्रा.1-5-2) इति श्रुतेः ।
उदगयनेत्यादिरयं समासो द्वन्द्वः ।
तेषु कार्याणि ।
गार्ह्यअणीति शेषः ।
एषां समुच्चयः न विकल्पः ।
एतच्च सामान्यविधानं तत्र तत्र विशेषविधानेनापोद्यते नियम्यते च ।
एवमुदगयनादीनां विदाने सत्यपि क्वचिदनियमः प्रतिभासते ।
ऽसर्व ऋतवो विवाहस्यऽ; (आप.गृ.2-12.) इति वचनात् यदा दक्षिणायने ऽपि विवाहस्स्यात्तदा समावर्तनं तत्कालसमीपकाल एव ।
इतरथा उदगयनसमावृत्तस्य शरदि विवाहे सति बहुकालव्यवधाने, ऽअनाश्रमी न तिष्ठेत दिनमेकमपि द्विजःऽ; ।
(दक्षसं.अ.1) इति निषेधातिक्रमप्रसङ्गात् ।
किञ्च आश्वलायनगृह्ये ऽउदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाःऽ(आश्व.गृ.1-5) इत्यत्र चौलविकारत्वादेव गोदानस्य उदगयनप्राप्तौ पुनस्तत्र तद्विधिः तद्विकारान्तरे समावर्तने उदगयननियमानिवृत्त्यर्थ इति गम्यते ।

तथा बौधायनीये समावर्तनस्य चौलविकारत्वादेव आपूर्यमाणपक्षप्राप्तौ पुनस्तत्र तद्विधि(2) रुदगयनानियमार्त इति गम्यते ।
तथा गृहनिर्माणप्रवेशयोः ज्योतिश्शास्त्रे दक्षिणायनस्यापि विधानात् अविगीतशिष्टाचाराच्च उदगयनानियमः ।
तथा अपरपक्षे ऽप्यापञ्चम्याः
ज्योतिश्शास्त्रादन्नप्रीशन(3)गृहनिर्मामप्रवेशान् रात्रावप्याचरन्ति ।
तथैव यदा पुण्याहाः ज्यौतिषोक्तदोषोपहताः तदा अश्लीलेष्वपि ।
तथैव यदा पुण्याहा- ज्योतिषोक्तदोषोपहताः तदा अश्लीलेष्वपि तदुक्तगुणयुक्तेषि(4) अविगानेन कर्माण्याचरन्ति ।
ज्योत्श्शास्त्रमपि (1)
वेदाङ्गत्वादगृह्यमाणकारणत्वात्, शिष्टपरिगृहीतत्वाच्च कल्पसूत्रादिवदादरणीयमेव ।
निर्णये ति शिष्टाः प्रमाणं सर्वत्र ॥
3 यज्ञोपवीतप्रादक्षिण्यादिविधिः ।
यज्ञोपवीतिना ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.3:
कार्याणि इत्यनुवर्तते ॥
आप्ग्स्-तात्_1.3:
कार्याणीति सम्बन्धः ।
ननु यज्ञोपवीतं पाकयज्ञेषु ऽप्रागपवर्माणिऽ(आप.प.215) इत्यादिना सिद्धम् ।
विवाहादिहोमेषु जपादिषु च ऽहोमे जप्यकर्मणिऽ(आप.ध.1-151) इत्यादिना ।
अतो ऽत्रैतद्विधिर्र्व्यथः ।
सत्यम्;यत्राप्राप्ति(2)र्हेमन्तप्रत्यवरोहणादिषु तत्रायं विधिस्सार्थ एव ॥
प्रदक्षिणम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.4:
प्रदक्षिणं च तानि कर्तव्यानि दक्षिनं पाणिं प्रतिगतं प्रदक्षिणम् ।
उदाहरणं परिस्तरणादि ।
ननु-तदिदमुभयमविधेयं, पूर्वमेव श्रौतेषु विहितत्वात् ऽदैवानीऽति(आप.प.2-35) तत्रोच्यते, इह मानुषेषु जातकर्मादिष्वप्येतयोः प्रवृत्तिरिष्यते93)तदर्थमयमारम्भः ।
आप्ग्स्-तात्_1.4:
कार्याणीत्येव सम्बन्धः ।
इदं तु प्रादक्षिण्यं पाकयज्ञेषु तत्कोटिषु च विवाहादिषु परिभाषासिद्धमपि(4)
तद्वतिरिक्तगार्ह्यरथ विधीयते ।
ऽततापवर्गःऽ(आप..गृ.1-6) इति चेत्थमेव ॥
पुरस्तादुदग्वोपक्रमः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.5:
अनियमे नियमार्थमिदं वचनम् ।
दक्षिणतः पश्चाद्वोपक्रामो माभूदिति ।
परिस्तरणाद्येवोदाहरणम् ॥
आप्ग्स्-तात्_1.5:
कार्य इति शेषः ।
अयं तु सर्वेष्वपि यज्ञायज्ञरूपगार्ह्येष्वप्राप्तत्वाद्विधीयते ॥
तथापवर्गः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.6:
तेषामपवर्गो ऽपि तथा प्रत्येतव्यः ।
पुरस्तादुदग्वेत्यर्थः ।
अपवर्गः परिसमाप्तिः ।
न चात्र उपक्रामापवर्गयोः समानभिदं नियमनं क्रियते-पुरस्तादुपक्रान्ते तत्रैव समाप्यं उदगारभ्यं च तत्रैवेति ।
किं तर्हि यथासंभवं प्रवृत्तिः तद्यथा परिस्तरणस्य पुरस्तादुपक्रान्तस्य तत्रैवापवर्गासम्बवादुदगपवर्गः ।
तत्रापवर्गविधेरानर्थक्यं, श्रौतेष्वेव परिभाषितत्वात्"प्रागपवर्गाण्युदगपवर्गाणि वे"ति (आप.प.2-15) ।
उच्यते ।
यद्यपवर्गविधिः पुनरिह नारभ्यते, अपरेणाग्निं द्वे कुटी कृत्वेऽ(आप.गृ.19-14). त्यत्र दक्षिणापवर्गता प्राप्नोति, अत्रोपक्रमस्योदग्गतत्वनियमात् ।
अतो विप्रतिषेधे अपवर्गबलीयस्त्वं यथा स्यादित्ययमारम्भः ।
अन्यथा प्रदक्षिणपरिभाषया सामान्यपरिभाषा बाध्यते किञ्चिद्दैवानि कर्माणीति तत्र विशेषितम् ।
अत्र मानुषेषु कर्मादिष्वपि प्राप्यर्थो ऽपवर्गनियमः ॥
आप्ग्स्-तात्_1.6:
पुरस्तादुदग्वा क्रियापरिसमाप्तिः कार्येत्यर्तः ।
ननु-ऽपुरस्तादुदग्वोपक्रमःऽइति विधेरेव समन्तपरिषेकादावर्थसिद्धत्वान्नारब्धव्यं ऽततापवर्गः, इति ।
नः अनारभ्यमाणो ऽस्मिन् सूत्रे प्राचीलेखोत्पवनादेरुदीचीलेखा(1) कुटीकरणादेश्चापवर्गः प्रत्यक् दक्षिणा च स्यात् ।
अतस्तद्वाधनायेदमारब्धव्यमेव ।
केचित्- प्राचीनानां लेखानामुदगुपक्रमः, उदीचीनानां च प्रागपवर्गः, अग्निपरिस्तरणवदुभयाविध्यसम्भवात् (2) इति ॥
4 पित्र्याणामपरपक्षादिविधिः ।
अपरपक्षे पित्र्याणि ॥ आ
प्राचीनावीतिना ॥ आ
प्रसव्यम् ॥ आ
दक्षिणतो ऽपवर्गः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.10:
पितृदैवत्यकर्माण्यपरपक्षे कार्याणि ।
"मासिश्राद्धस्यापरपक्षे"(आ.प.गृ.21.1).ऽया माध्याः पौर्णमास्या उपरिष्टाद्यष्टकेतिऽ; (आप.गृ.21-10) तत्रापरपक्ष उपदिष्टः ।
इदं तु नियमनं यानि गयाश्राद्धादीनि देशविशेषेण पात्रविशेषेण काम्यान्युपदिष्टानि अस्माभिश्च परिगृहीतानिपार्वणे नातोन्यानीत्यत्र तेषवपरपक्षप्राप्त्यर्थ च ।
तेन पूर्वपक्षे मृतस्यापरपक्ष एकोद्दिष्टं कर्तव्यं न त्वेकादशे ऽहनि ।
अनुष्ठानञ्चै(त्वे) कादशे ऽहनि ।
मासिश्राद्धस्यापरपक्षविधेः प्रयोजनं तत्रैव वक्ष्यामः ।
अयं चापरपक्षविधिः कृत्स्नस्योदगयनादेरपवादो न पूर्वस्मादुदग्वा यथायोगम् ।
उदाहरणं परिस्तरणादि ।
तदिदं प्राचीनावीत्यादित्रयमविधेयम् ।
श्रौतेष्वेव परिभाषितत्वात्;उच्यते-ऽयज्ञोपवीतिना प्रदक्षिणंऽऽतथापवर्गऽइत्येताः परिभाषा अविशेषेणात्र प्रकरणे पठिताः सामान्यपरिभाषाया बाधितत्वात् पित्र्येष्वपि प्राप्नुवन्ति तद्वाधार्थमिदम् ।
अत्र च येषां पित्र्याणां स्वातन्त्र्येण स्वकोले प्रवृत्तिः तेषामेवायं प्राचीनावीतविधिः नत्वन्यत्राङ्गत्वेन प्रयुज्यमानानाम् ।
तेन दैवेषि मानुषेषु च कर्मसु"पितरः पितामहा"इत्यत्र यज्ञोपवीतमेव भवति ।
अपर आह -"तस्मादभ्याताना वैश्वदेवा"(तै.सं.3-4-6). इति दर्शनात्"पितरः पितामहा"इत्यस्यापि पित्र्यत्वादेव प्राचीनावीतस्याप्रसङ्गः इति ।
तथा"अपरपक्षे पित्र्याणी"त्यस्मिन्नधिकारे (1) अभिहितं प्राचीनावीतमविशेषेण पित्र्ये कर्माणि साङ्गे प्रवर्तते ।
तेन पित्र्ये आज्यभागन्ते कर्मणि जयादौ च प्राचीनावीतमेव भवति ॥
आप्ग्स्-तात्_1.10:
कार्याणीत्येव ।
अयं च विधिस्स्वतन्त्रपित्र्योद्देशेन ।
(2) अङ्गानां तु सहप्रयोज्यानां मुख्यकालत्वेन कालविध्यपेक्षाभावात् ।
एष च न पूर्वपक्षमात्रापवादः ।
किं तर्हि?सर्वापवादार्थ विध्यन्तरम् ।
आः!कुत एतद्ज्ञायते ? ।
ऽन च नक्तं श्राद्धं कुर्वीतऽ(आप.ध.2-17-23) इति ज्ञापनात् ।
(3) यदि ह्ययं पूर्वपक्षमात्रापवादस्स्यात्, तत उदगयनादीनां त्रयाणामपवादाभावाद्रात्रावप्रसक्तेः प्रतिषेधो न स्यात्, (4) अस्ति च प्रतिषेधः, इत्यतो ज्ञायते विध्यन्तरमेवेति ।
प्रयोजनं त्वविशेषेण दक्षिणायने ऽप्यपरपक्षे ऽह्नि काम्यश्राद्धानि कर्तव्यानीति ।
मासिश्राद्धं तु ऽमासि मासि कार्यम्ऽ(आप. धर्म.2-16-4) इति (5) वीप्सया दक्षिणायने ऽपि सिद्धमेव ।
नन्वस्मिन् सति ऽमासिश्राद्धस्यापरपक्षेऽ(आप.गृ.21-1.) इति विधिः किमर्थः? ।
नियमार्थः ।
तथा हि-अपरपक्ष एव मासिश्राद्धम्, न पुनर्दऐवान्मानुषाद्वा(1) विघातादपरपक्षे ऽतिक्रान्ते"सर्वो ऽपरपक्षः पूर्णमासस्य"इतयादिवत् पूर्वपक्षे ऽपि कर्तव्यम् ।
किन्तु प्रारब्धस्मार्तनित्यकर्मव्यापत्तौ प्रायश्चित्तमेव ।
तच्च ऽभूर्भुवस्सुवस्स्वाहाऽइत्येको होमस्सर्वप्रायश्चित्ताख्यः ।
ऽयद्यविज्ञाता सर्वव्यापद्वा भूर्भुवस्स्वरिति सर्वा अनुद्रुत्याहवनीय एव जुहुयात्ऽ(ऐ.ब्रा 24-34). इति बह्वृचश्रुतेः ।
अयं चात्रौपासने, नैमित्तिकैकविधिपरश्रुतिस्थाहवनीयशब्दस्य न्यायतो निमित्तवत्कर्मार्ताग्निमात्रप्रदर्शनार्तत्वात् ।
उपवासश्च कार्यः ।

वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥
(मनु.11-203)
इति मनुवचनात् ।
(2) आतमिनोः प्राणायामश्च, ऽनियमातिक्रमे चान्यस्मिन्ऽ(आप.ध.2-12-18.) इति वचनात् ।
एतोषां समुच्चयं एव न विकल्पः, ऽएकस्मिन् दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्ऽ(आप.श्रौ. 9-1-2) इति दर्शितत्वात् ।
प्रसङ्गादन्येषां लोपे ऽपि प्रायश्चित्तमुच्यते ।
एवमन्येषामपि प्रारब्धानां प्रायस्चित्तं पाकयज्ञानां व्यापत्तौ, गौमकाले ऽप्यतिक्रान्ते ।
गौणकाले ति स4वप्रायश्चित्तपूर्वकं ते ऽनुष्ठेयाः ।
औपासनहोमस्य तु बहुकालातिक्रमे अष्टभ्यो होमकालेभ्यः पूर्व प्रत्येकं सर्वप्रायश्चित्तपूर्वकं (3) अताता होमाः कर्तव्याः ।
अत्रोपवासप्राणायामयोराचारी न दृश्यते ।
ऊर्ध्व तु धार्यमाणे ऽप्यग्नौ ऽअनुगतो मन्थ्यःऽ(आप.गृ.5-17)
इत्याद्यग्न्युत्पत्तिप्रायश्चित्ते भवतः, ऽचतुरात्रमहूयमानो ऽग्निर्लौकिकस्सम्पद्यतेऽइति वचनात् ।
यदि पुनरालस्यादिनोत्सन्नाग्निरेव चिरकालं वर्तेत तदा स्मृत्यन्तरतस्तत्कालानुरूपं कृच्छ्रादिकं होमद्रव्यदानं च वेदितव्यम् ।
स्वकालं अनारब्धानां तु पाकयज्ञानां सर्वप्रायश्चित्तं हुत्वाऽरम्भः कर्तव्यः ॥
(4) केचित्- पाकयज्ञानां (5) स्वकालेष्वनारम्भे आरब्धानां चाकरणे गौणकालातिक्रमे च चतुर्गृहीतेनाज्येन सग्रहेण सप्तहोत्रा जुह्वति ।
यद्यपि ऽसप्तहोत्रा यज्ञविभ्रष्टं याजयेच्चतुर्गृहातेनाज्येनऽ(आप.श्रौ.14-14-11) इति श्रौतो दर्वीहोमः यज्ञविभ्रेषे युक्तः, तथापि ऽएषा वा अनाहिताग्नेरिष्टिर्यच्चतुर्होतारःऽ(आप.श्रौ.14-13-2.) इत्युपक्रम्य ऽआहिताग्नेस्तान् प्रतियादुभयोरितरान्ऽ(आप.श्रौ.14-15-5)
इत्युपसंहारात्, गार्ह्ये विभ्रेषे आहत्य प्रायश्चित्तविधानेनापेक्षितत्वाच्च तद्विभ्रेषे ऽपि युक्त एवोति ।
तत्तु कपर्दिस्वामिनोक्तम् ॥
जातकर्मादीनां तु (1) स्वकालातिक्रमे सर्वप्रायश्चित्तपूर्वकं तदनुष्ठानम् ।
कर्माङ्गानां तु लोपे सर्वप्रायश्चित्तं प्राणायामश्च ।
अनुष्ठानं चारादुपकारकाणामाकर्मसमाप्तेः ।
द्रव्यसंस्काराणां तु द्रव्योपयोगात् पूर्वमेव सम्भवताम् ।
पाकयज्ञेष्वाग्निहोत्रिक(2) विधौ चोपनयने चाङ्गव्यापत्तौ ऽमुवस्स्वाहाऽइति तत्त(3) त्कर्माङ्गाग्नौ होमः ।
ऽअनाज्ञातम्ऽइति तिसृभिश्च होमो जपो वा ।
भुवरनाज्ञातविध्यर्थयोर्विकल्पो वा, ऽब्राह्मणावेक्षो विधिः ऽ(आप.गृ.2-10) इति ऽश्रुतितस्संस्कारः ऽ(आप.धर्म.2-1-09) इति श्रौतप्रायश्चित्तप्राप्त्यर्थत्वात् ।
ननु-ऽभवः ऽ; इति दक्षिणाग्नौ ऽअनाज्ञातंऽइति चाहवनीये ।
सत्यम्, इह तयोरग्न्योरभावात् नैमित्तिकानामप्यङ्गत्वेनेतराङ्गवत् प्रधानाग्नौ होमस्य युक्तत्वाच्च ॥
(4) केचित् सर्वेषु गार्ह्यकर्मसु तदङ्गेषु च भ्रेषेऽअनुक्तमन्यतो ग्राह्यम् ऽइति न्याय्न गृह्यान्तरोक्तानि प्रायश्चित्तान्याहुः, तच्चिन्त्यम् ॥
अलं प्रासङ्गीकेन ।
प्रकृतमुच्यते ।
यत्तु ऽअपरपक्षस्यापराह्णश्श्रेयानिऽ(आप.धर्म.2-16-50) इति, तदपराह्णविधानार्थमनुवादः, यथा पात्नीवते ऽसर्वत्रानुवषट्कारो द्विदैवत्यर्तुग्रहादित्यसावित्रपात्नीवतवर्जम्ऽ(आप.श्रौ.12-14-2) इत्यनुवट्काराभावे प्राप्ते ऽपि ऽअपि वोपांश्वनुवषट्कुर्यात्"(आप.श्रौ.13-14-9,10) इति ।
ऽसर्वेष्वेवापरपक्षस्याहस्सुऽ(आप.धर्म.2-16-7) इति त्वहर्विशेषणार्थम् ।
अपरपक्षस्याहस्स्वेव मासिश्राद्धं, न पूर्वपक्षस्याहस्सु विकलपेनाप्यभिमतमिति ।
इतरथा आशौचादतिक्रान्ते ऽपरपक्षे-
दैवात् पितॄणां श्राद्धे तु आशौचं जायते यदि ।
आशौचे ऽथ व्यतीते वै तेभ्यश्श्राद्धं प्रदीयते ॥
इति स्मृत्यन्तरात् कदाचित् पूर्वपक्षस्याहस्स्वपि विकल्पेनेदं स्यात् ।
नित्यश्राद्धं तु ऽएवं संवत्सरम्ऽ(आप.ध.2-18-13) इति
अत्यन्त(4) संयोगे द्वितीयाबलात् पूर्वपक्षे ऽपि

1.8

पित्र्याणि कार्याणीति शेषः ।
इदंतु वासोविन्यासभेदविधानं स्वतन्त्रास्वतन्त्रसर्वपित्र्यार्थम्, ऽप्राचीनावीतिना पित्र्याणिऽइत्यनेन वाक्येन अविशेषावगमात्, उद्देश्ये पित्र्यमात्रे लब्धे अधिकाप्रकृत(1) स्वातन्त्र्यविवक्षायां वाक्यभेदापत्तेः, अङ्गेष्वपि प्राचीनावीते विधेये ऽअपरपक्षे पित्र्याणिऽइतिवदनपेक्षितत्वाभावाच्च ।
तेन यानि स्वतन्त्राणि यथा प्रधानाहुतयः, यानि चास्वतन्त्राणि यथा द्वितायनिमार्जनादीनि, तानि सर्वाण्येव प्राचीनावीतिना कार्याणि ।
इत्थमेव ऽयज्ञोपवीतिनाऽइत्यपि ।
तेन पित्र्याङ्गान्यपि दैवान्याघारादीनि यज्ञोपवीतिनैव ।
इतराङ्गानां तु पात्रप्रयोगादीनां तत्तत्प्रधानवदेव ॥
केचित्- अङ्गानां प्रधानधर्मता न्याय्येति पित्र्याङ्गानि दैवान्यपि प्राचीनावीतिना, दैवाङ्गानि पित्र्याण्यति यज्ञोपवीतिनेति, तच्चिन्त्यंमे

1.9

तथैव शेषः

1.10

पित्र्येषु कार्य इति शेषः ।
अत्र ऽप्राचीनावीतीऽ(आप.परि.2.16)इत्यादिपरिभाषया एषां त्रयाणामपि सिद्धत्वात्
अपाकयज्ञनित्यषोडशश्राद्धाद्यर्थो विधिः

1.8

निमित्तावेक्षाणि नैमित्तिकानि ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.11:
प्राचीनावीतिना प्रसव्यं दक्षिणतो ऽपवर्ग इति पूर्वसूत्रेण सम्बन्धः ।
निमित्तानि यानि नैमित्तिकानि कर्मानि तानि निमित्तमवेक्ष्य तदनन्तरमेव कर्तव्यानि, न तत्र उदगयनाद्यपेक्षा ।
"अगारस्थूणाविरोण"(आप.गृ.23-9) इत्युदाहरणानि ।
तत्रामावास्यायां निशशायामिति वचनात् तावानुत्कर्षः ।
गृहप्रवेशनं नैमित्तिकमिति केचित् ।
नेत्यन्ये

1.11

आप्ग्स्-तात्_1.11:
नैमित्तिकान्याग्रयणातिथ्यसीमन्तादीनि निमित्तावेक्षाणि ।
निमित्तानि व्रीहिपाकादीन्येवानुष्ठाने ऽवेक्षन्ते नोदगयनादीनीत्यर्थः ।
अत्रापि सम्भवत- पूर्वपक्षादेर्नापवाद-

1.9

एवं प्रयोगानुवन्धं कालादिकमुक्त्त्वा इदानीं सर्वगार्ह्यप्रधानहोमानां साधारणतन्त्रनामानं प्राच्योदाच्याङ्गसमुदायं प्रयोज्यभेदमाह-ऽअग्निमिध्वाऽ; इत्यादि ऽमन्त्र सन्नामःऽ(आप.गृ.2-8.) इत्यन्तेन ।
2. अग्निमुखनिरूपणम् -
1 परिस्तरणादि ।
अग्निमिध्वा प्रागग्रैर्दर्भैरग्निं परिस्तृणाति ॥ आ
प्रागुदगग्रैर्वा ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.13:
उक्ताः पाकयज्ञपरिभाषाः अथ तेषां साधारणतन्त्रं वक्ष्यते-अग्निमिध्वेति ।
तदग्नेरुपसमाधानमित्युच्यते ।
एतच्च कर्माङ्गम् ।
किं पुनरत्राग्निः? पत्नीसम्बन्धेष्वौपासनम् ।
अन्य लौकिकः केचिज्जातकर्मप्रभृति"परिग्रहमग्नेरिच्छन्ति ।
अन्ये पुनः उपनयनप्रभृति ।
अपरे"यत्रान्त्यां समिधमादध्यात् तं वापरिगृह्णीया"दिति ।
यत्र तु प्सिद्धौऽग्निर्नास्ति तत्र श्रौत्रियागारादाहरणं मथनं वा ।
"यत्र क्वचीग्नि"मित्ययं तु देशसंस्कारः सर्वत्र भवति यदि स्यादस्स्कृतो देशः ।
अग्निमिध्वेति प्रकृते पुनरग्निग्रहणं येषु तन्त्रं न प्रवर्तते तत्रापि परिस्तरणं यथा स्यादिति-अग्निं-परिस्तृणाति सर्ववेति ।
उपसमाधानं तु तत्रार्थसिद्धम् ।
प्रागुदगग्रैर्वा ।
अथ वा न सर्वतः प्रागग्गैरेव परिस्तरणं किं तर्हि प्रागग्रैरुदगग्रैश्च ।
तत्रोदगग्राः पश्चात्पुरस्ताच्च

1.12

आप्ग्स्-तात्_1.13:
अत्र च अग्निपदार्थविशेषप्रतिपत्त्यर्थ स्मार्तेष्वग्निर्निरूप्यते ।
तत्र याज्ञवल्क्यवचनम् ।
कर्म स्मार्त विवागाग्नौ कुर्वीत प्रत्यहं गृही ।
(या.स्मृ.2-97) इति ।
अस्यार्थ---गृही गृहस्थः सपत्नीकः स्मार्त कर्म विवागाग्नौ
औपासनाग्नौ कूर्वीत ।
यस्य कर्मणाः प्रयोगे संकल्पावघातान्वारम्भद्रव्यत्यागानुमत्यादिपदार्थद्वारा पत्न्यास्सहत्वं तत् कर्म स्वौपासने कुर्वीत इत्येतत् ।
अथ वा यस्य अग्निसाध्यस्य कर्मणः फलं साक्षात् कर्मान्तरप्रणाल्या वा जायापतिगाम्यन्यतरगामि वा भवति तत्कर्म गृही स्वौपासने कुर्यात्,ऽकुर्वीतऽइत्यात्मनेपदश्रवणादिति ।
एवं च स्मार्तानि पाकयज्ञसीमन्तादीनि औपासनाग्नौ कर्तव्यानि ।
गृहप्रवेशो ऽपि तत्कर्मजन्यवास्तुशान्तेः जायापत्यायुराद्यर्थत्वादौपासन एव ।
तथा पित्रादेर्मातामहादेश्च सपिण्डीकरणमप्यौपासने ।
सपिण्डीकरणफलस्य प्रेतत्वनिवृत्त्या पितृत्वप्राप्तिरूपस्याभ्युदयिकमासिश्राद्धादौ सम्प्रदानार्थत्वात्, तत्फलस्य च जायापतिगामित्वादिति ।
अत एव सपिण्डीकरणं सर्वैरपि पुत्रैर्न कर्तव्यम्, एकेनापि कृत्पुतृतया सम्प्रदानत्वसिद्धेः ।
अतो यत्र पत्न्यास्सहत्वं क्रियाफलं वा जायापतिगामि तत्कर्म (1-ट.ठ-स्वैपासने.) औपासन एव ।
यदि तु पुत्रो ऽनग्निरनुपनीतादिः संवत्सरे पूर्णे ऽवश्यं कर्तव्यत्वात् सपिण्डीकरणं करोति, तदा श्रोत्रियागारादाहृते ऽग्नौ;वोधायनेन ऽअथ वा श्रोत्रियागारादेव तमौपासनम्ऽ(बौ.गृ.6-2) इत्यौपासनसंस्तवात्, आचाराच्च ।
अनुपनूतो ऽपि पुत्रश्श्राद्धाधिकार्येव, अर्हत्यनुपनीतो ऽपि विनाप्यग्निं विनाऽपदम् ॥
(मनु. 2-172)
इति वचनात्, ऽऽन वब्रह्माभिव्याहारयोदन्यत्र स्वधानिनयनात्ऽ(गौ.ध.2-5) इति गौतमवचनस्थस्वधाशब्दस्य सकलीर्ध्वदैहिकप्रदर्शनार्थत्वाच्च ।
भ्राता वा भ्रातृपुत्रो वा सपिण्डश्शष्य एव वा ।
सपिण्डीकरणं कृत्वा कुर्यादभ्युदयं ततः ॥
इति वचनात् यदा भ्रातृपुत्रादिः करोति तदा यथोक्तसहत्वफलभागित्वयोरभावात् श्रोत्रियागरादाहृताग्नावेव ॥
अन्ये तु-भ्रात्रादिगतपितृत्वप्राप्तिरपि पुत्रगतपूतत्वादिफलवत् पतिगामि फलमित्यौपासने;तच्छिन्त्यम् ॥
तथा जातकर्मचौलोपाकरणसमापनगोदानसमावर्तनान्यपि ।
तथोमनयनमपि ।
आचार्यकरणसिध्द्यर्थ मुपनयनमिति मते ऽपि नाचार्यस्यौपासने ।
तस्य नित्यधार्यत्वात् ऽत्र्यहमेतमाग्निं धारयन्तिऽ(आप.गृ.11-19) इति सूत्रविरोधात् ।
विवाहोप्यस्मिन्, निर्मन्थ्ये वा, असभ्भवाद्विवाहजन्यौपासनस्य ।
सम्भवे ऽपि प्रथमौपासनस्य, न तस्मिन् द्वितीयादिविवाहः ;ऽयां कामयेत राष्ट्रमस्यै प्रजा ,स्यादिति तस्या औपासनेऽइति प्रतिणार्यमौपासनभेदावगमात्, बौधायनीये अग्निद्वयसंसर्गविधानात्, आटाराट्ट ।
कर्मार्थस्यौपासनस्य संस्कृते देशे, अनुपसमाहितस्यान्यस्य वाग्नेः, ऽयत्र क्व टाग्निम्ऽ(आप.ध.2-1-13.) इति धर्मशास्त्रोक्तविधिना अग्निप्रतिष्ठापनं कर्तव्यम् ॥
केचित्- इदं नाग्न्यङ्गं, कर्माङ्गमेवेति प्रतिकर्म कार्यम्, उखायां चाग्नेर्धारणमिति ॥
अथ सूत्रं व्याख्यायते ।
अग्निमिद्ध्वा इन्धीतेत्यर्थः ।
यद्यप्यर्थप्राप्तमग्नेरिन्धनं तथाप्येतद्वचनात् इद्धमपि पुनरिन्धीत ।
अत्र विध्यर्थे लिङ्गादौग्राह्ये क्त्वाग्रहणमिन्धनस्य परिस्तरणपूर्वकालतानियमार्थम् ।
तेन इन्धनानन्तरं परिस्तरणमेव कार्य, न तु तयोर्ध्ये ऽवश्यकार्यमपि मूत्रनिरसनादि कर्मार्थसंभारोपकल्पनं च ॥
नन्वेकस्मिन् सूत्रे इन्धनपरिस्तरणयोर्विधाने वाक्यभेदस्स्यात्;सत्यम्, न तु सूत्रे वाक्यभेदो दोषः ;सूचनात् सूत्रमिति मिर्वचनात् ।
इत्यमेव व्याख्यानं प्रयोजनं च सर्वत्र त्काग्रहणेषु ।
प्रागग्रैर्दर्भैरग्निं परिस्तृणाति ।
सर्वासु दिक्षु प्रागग्रैः कुशैरग्निं परिस्तृणाति

1.13

अथ वा प्रागग्रैरुदग्ग्रैश्च दर्भैरग्निं परिस्तृणाति ।
दक्षिणत उत्तरश्च प्रागग्रैः, पश्चात् पुरस्ताच्चोदगग्रैः , ऽउदगग्राः पश्चात्पुरस्ताच्चऽ(आप.श्रौ.2-14-15) इति श्रौते दर्शनात् ।
एतान् कुशान् दक्षिणानुत्तरान् करोति , उत्तराश्चाधरान्;बौधायनभरद्वाजगृह्याभ्या मुक्तत्वात् ।
दक्षिणतः पक्ष उपरिष्टाद्भवत्यधस्यादुत्तरःऽइति ।
अत्र ऽअग्निमिद्ध्वाऽइति प्रकृते ऽप्यग्नौ, ऽअग्निम्ऽइति पुनर्वचनं नियमार्थम्-अग्निमेव परिस्तृणाति नान्यदङ्गपीति ।
तेन उत्तरेण पूर्वेण वा निहितमुदकं बहिरेव भवति ॥
केचित्-इतन्त्रकेष्वपि कर्मस्वाग्निः परिस्तीर्य एवेति नियमार्थमिति

1.10

दक्षिणाग्रैः पित्र्येषु ॥ आ
दक्षिणाप्रागग्रैर्वा ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.15:
तत्र दक्षिणाग्राः पश्चात् पुरस्ताच्च

1.14

आप्ग्स्-तात्_1.15:
पित्र्येषु मासिश्राद्धादिषु कर्मसु सर्वासु दिक्षु दक्षिणाग्रैः परिस्तृणाति

1.15

यज्वा दक्षिणाग्रैः प्रागग्रैश्च दर्भैः ।
पश्चात्पिरस्ताच्च दक्षिणाग्रैः, उत्तरतो दक्ष्णतश्च प्रागग्रैः ।
उत्तरानुत्तरान् दक्षिणांश्चाधारान् कुर्यात् ।
तथा प्रागुपक्रम्य प्रसव्यं परिस्तृणाति

1.11

2 पात्रप्रयोगः ।
उत्तरेणाग्निं दर्भान्त्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि ॥ आप्ग्स्_1.16 ।
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.16:
परिस्तरणानन्तरं अग्नेरुत्तरतः पात्रप्रयोगार्त दर्भान् प्रागग्रान् संस्तृणाति ।
प्रथितं स्तरणम् ।
प्रयुनक्ति सादयति ।
न्यञ्चि न्यग्भूतानि ।
सर्वाणि च द्रव्याणि प्रयोजनवन्ति पात्रग्रहणेन गृह्यन्ते ।
तेनोपनयनादौ मोखलादीनामपि सादनं भवति ।
तत्र यानि देवसंयुक्तानि तानि द्वन्द्वं प्रयुनक्ति ।
द्वे द्वे इत्यर्थः ।
पार्वणादीनि देवकर्माणि ।
अग्निग्रहणमनर्थकमविकृतत्वात् अग्निमिध्वेति ।
ज्ञापकार्थ चैतत् ज्ञापयति-अग्निपरिस्तरणे विहितो ऽयं पात्रप्रयोगे नानुवर्तते इति ।
कदा पुनरसौ ?दर्भाग्रविशेषस्तन्त्राभावे प्रवृत्तिश्च ।
तेन पित्र्येष्वपि प्रागग्राणामेव संस्तरणं अग्नेश्चोत्तरतः तन्त्राभावे च पात्रप्रयोगाभावात् ।
अदिकारात्त्वाग्निप्रतिपत्तावेव ।
तदप्युभयं प्रतित्त्व्यं स्यात्
अधिकारादेवः

1.16

आप्ग्स्-तात्_1.16:
अग्नेरुत्तरतो ऽदूरेण दर्भान् संस्तूणाति ।
एते च प्रागग्राः, बौधायनगृह्यात् ।
प्रथितं च स्तरणं, समुपसर्गात् ।
उदक्च स्तरमापवर्गः ।
पित्र्येष्वप्यग्नेरुत्तरत एव प्रागग्रैः, ऽउत्तरत उपचारो विहारः,(आप.प.2.10) इति सिद्धे ऽपीहाप्युत्तरेणेति वचनात्, प्रकृते ऽप्यग्नौऽअग्निम् इत्यधिकशब्दस्य अधिकार्तपरत्वस्य युक्तत्वात्, परिस्तरणवद्विशेषस्यानुक्तेश्च ।
अपवर्गस्तु दक्षिणत एव ।
देवस्युक्तानि देवकर्मसंयुक्तानि ।
पात्राणि दर्व्यादीनि ।
द्वन्द्वं, द्वे द्वे ।
न्यञ्चि अधोबिलानि ।
प्रयुनक्ति सादयति ।
ननु-उत्तरत्र ऽमनुष्यसंयुक्तानिऽऽपितृसंयुक्तानिऽइति विशेषणेनैव सिद्धत्वात् ऽदेवसंयुक्तानिऽइति व्यर्थम् ।
न;दैवानि हि कर्माणि द्विविधानि-पुरुषार्थरूपाणि मनुष्यसंस्कारकाणि च ।
तत्रोभयत्रापि देवपात्राणां दर्व्यादीनां द्वन्द्वतासिध्द्यर्थत्वात्

1.12

तत्र मनुष्यस्स्कारकर्मार्थेषु केषुचित् पात्रेष्वपवादमाह-
सकृदेव मनुष्यसंयुक्तानि ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.17:
यानि मनुष्यसंयुक्तानि पात्राणि तानि सकृदेव प्रयुनक्ति, न द्वन्द्वम् ।
मनुष्यकर्माणि विवाहादीनि ।
एवकारः क्तियाभ्यावृत्तिप्रतिषेधार्थः ।
पात्र बाहुल्यात् द्वाभ्यां बाहुभ्यां सादनाशक्तावप्युपायेन सकृदेव सादनमिति ।
केचित् मेखलादीनामेव मनुष्यसंयुक्तानां सकृत् प्रयोगमिच्छन्ति, न होमार्थानाम् ।
वयं तु मनुष्यसंयुक्तानि मनुष्यकर्मसंयुक्तानीत्यवोचाम

1.17

आप्ग्स्-तात्_1.17:
मनुष्यसंयुक्तानि मनुष्यद्वारा संयुक्तानि अश्मवासोमेखलादीनि सकृदेव क्रियाभ्यावृत्तिपरिहारेण प्रयुनक्ति, पात्रबहुत्वे ऽप्युपायेन ।
केचित्-मनुष्यसंस्कारकर्मसु दर्व्यादीन्यपि सकृदेवेति

1.13

एकैकशः पितृसंयुक्तानि ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.18:
यानिपितृकर्मस्युक्तानि तान्येकैकशः प्रयुनक्ति एकमोकमित्यर्थः

1.18

आप्ग्स्-तात्_1.18:
पितृकर्मार्थानि दर्व्यादीनि स्वधापात्रादीनि च एकमोकं प्रयुनक्ति

1.14

3 पवित्रसंस्कारः ।
पवित्रयोस्संकार आयामतः परीमाणं प्रोक्षणीसंस्कारः पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.19:
पवित्रयोस्संम्कारः तृणं काष्ठं वे त्येवमादिः ।
तयोरायामतो यत् परिमाणं दीर्घप्रमाणं प्रादेशमात्रा (आप.श्रौ.1-11-9.) वित्येतत् ।
प्रोक्षणासंस्कारः"पवित्रान्तर्हितायामाग्निहोत्रहवण्या"(आप.श्रौ.1-11-9) मित्यादि ।
तत्राग्निहोत्रहवण्या इहाभावात् पात्रान्तरं प्रापयते ।
उत्तानानि पात्राणि इत्यादि पात्रप्रोक्षणम् ।
तदेतत् पदार्थचतुष्टयं दर्शयति ।
दर्शपूर्ममासयेरिवात्रापि कर्तव्यम् ।
तूष्णीमिति मन्त्रप्रतिषेधः ।
यथा प्रोक्षणे पात्राणामुक्ता क्रिया विस्रंसनञ्चेध्मस्यतदन्तर्भावादेव सिद्धम् ।
इदं तु वचनं नियमार्थम्-पवित्रयोरेवायामत- परिमाणं यथा स्यात्
इध्मस्य दर्भाग्रयोश्चाज्ये प्रत्यस्यमानयोर् मा भूदिति ।
कथं पुनस्तत्र प्रसङ्गः ?एतदेव ज्ञापयति-भवत्यत्रापि दर्शपूर्णमासवत्तूष्णीं संस्कार इति ।
आयामग्रहणमायामपरिमाणस्यैव पवित्रयोर्नियमेन य वा संख्यापरीमाणं दार्शपूर्णमासिकमेवेध्मस्य भवति ।
तेनात्राविद्यमानेष्वनूयाजेषु न एकविंशातिदारुरिध्मो भवति ।
उपहोमास्त्वनूयाजार्थे भवन्ति

1.19

आप्ग्स्-तात्_1.19:
पवित्रयोस्संस्कारो दर्शपूर्ममासाभ्यां तुल्यं मन्त्रवर्ज कार्यः ।
समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते, तृणं काष्ठं वान्तर्धाय छिनत्ति, न नखेन ।
ततो.प उपस्पृशेत् ।
ऽगौद्रराक्षसऽ(आप.प.2-9) इति वचनात् ।
ततस्तयोर्मूलादारभ्याऽग्रादद्भिर्मार्जनम् ।
तयोश्चायामतः परिमाणं दर्शपूर्णमासवदेव ।
यद्यपि ऽपवित्रयोस्संस्कारो दर्शपूर्णमासवत्ऽइति वचनादेव तद्वदायामतः परिमाणं प्राप्तम्, तथापि यदायामतः पर्मामं प्रादेशमात्राविति तदेव तद्वत्, न त्विह पृथुत्वेनापि साम्यमित्येवमर्थ ऽआयामतः परिमाणम्ऽइति पुनर्वचनम् ॥
केचित् -पवित्रयोरेवायामतः परिमाणं दर्शपूर्णमासवत्, न त्विध्मस्य दर्भाग्रयोश्चाज्ये प्रत्यस्यमानयोरिति नियमार्थ पुनर्वचनम् ।
एवं ब्रुवतैव सूत्रकारेण दर्शपूर्णमासवत्तूष्णीमिध्मस्य दर्भाग्रयोश्च संस्कार- प्रसिद्ध वदभ्यनुज्ञातः ।
तथैव चाचारः ।
तेन खादिरः पालासो वा शुल्वसन्नद्ध इध्मो विस्रस्य त्रिः प्रोक्षितव्यः ।
पार्वणे च पूर्वद्युस्सन्नद्धव्यः ।
दर्भाग्रे च ऽतृणं काष्टं वा ऽ(आप.श्रौ.1-11-7.) इत्यादिविधिवा संस्कृत्याज्ये प्रत्यसितव्ये ।
अत्र च यद्यप्ययमर्थः ऽआयामतःऽइति वा ऽपरिमाणंऽइति वान्यतरेण सिद्धः तथापि नियमान्तरार्थमेवमुक्तम् ।
आयामत एव यत्परिमाणं तदेव पवित्रयोः दर्शपूर्णमासवत्, न संख्यातः परिमाणम् ।
तेनेध्मस्य संख्यापरिमाणं दार्शपूर्णमासिकमेव ऽएकविंशतिदारुमिध्मम्ऽ; (आप.1-5.6) इति आयामस्यैव पवित्रयोर्नियमितत्वात् ।
यद्यप्यनूयाजाभावादेकविंशत्या न कार्यम्;तथाप्येतद्वलात्तत्स्थाने जयादयः कल्प्याः- इत्यायुक्तं भूयिष्ठं च पूर्वव्याख्यानेनान्यथासिद्धे ऽपि सूत्रे कल्पयन्ति ॥
प्रोक्षणीसंस्कारो ऽपि दर्शपूर्णमासवत्तूष्णीम् ।
उदगग्राभ्यां पवित्राभ्यां अन्तर्हितायां वेकङ्कत्यां स्नुच्यप आनीय ताभ्यां त्रिरुत्पूय प्रोक्षेत् ।
पात्रपेरोक्षणमपि तद्वत्तूष्णीम् ।
उत्तानानि पात्राणि कृत्वेध्मं च विस्रस्य ताभिस्सपवित्रेण पाणिना त्रिः प्रोक्षेत्

1.15

4 प्रणीताप्रणयनम् ।
अपरेणाग्निं पवित्रान्तर्हिते पात्रे ऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.20:
पात्रप्रोक्षणानन्तरमपरेणाग्निं प्रणीतार्थेपानो पवित्रं निधाय तस्मिन्नुदगग्रे पवित्रे अन्तर्धायाप आनीय्य पवित्राभ्यां उदगग्राभ्यां त्रिरुत्पुनाति प्रागपवर्गम् ।
अग्निग्रहणं पात्राधिकारात् ।
अङ्गुष्ठोपकनीष्ठोभ्यामुत्तानाभ्यां पाणिभ्यामिति कल्पान्तरे दृष्टो विशेषः ।
उत्पूय ता अपस्समं प्राणैर्हरति ।
मुखेन तुल्यमित्यर्थः ।
हृत्वोत्तरेणाग्निं दर्भेषु संस्तीर्णेषु सादयति ।
अग्निग्रहणं पात्रैर्व्यवधानं मा भूदिति ।
सादयित्वा दर्भैः प्रच्छादयति ।
सर्वञ्चैतत् पवित्रहस्तः करोति

1.20

आप्ग्स्-तात्_1.20:
अग्नेरदूरेण पश्चात् पवित्रान्तर्हिते कस्मिंश्चित् पात्रे ऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पुनाति ।
अत्र प्रकृतयोरपि पवित्रयोः पुनर्ग्रहणात् पाण्योः प्रागग्रत्वमाचारसिद्धं ऽआङ्गुष्ठोपकनिश्ठिकाभ्यामुत्तानाभ्यां पाणिभ्याम्ऽ(आश्व.गृ.1-3-3.) इत्याश्वलायनोक्तं च ज्ञापितम् ।
ततस्ता अपस्समं प्राणैर्हृत्वा प्रामस्थानभ्यां मुकनासिकाभ्यां सममुदूधृत्य उत्तरेणाग्निं पुनस्तीर्णेषु दर्भेषु सादयति, ऽदर्भाषुऽइति वचनात् ।
अन्ये पूर्वस्तीर्णेषु ।
ततो दर्भैः प्रच्छादयेतच् ।
अत्र ऽअपरेणाग्निम्ऽइत्यग्निग्रहणं पात्राणामपरेण मा भूदिति ।
ऽउत्तरेणाग्निम्ऽइति तु पात्रव्यवदाननिवृत्त्यर्तम्

1.13

5 ब्रह्मवरणम् ।
ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.21:
प्रकृतत्वादग्नेः दक्षिणत- ।
तत्रापरेणाग्निं दक्षिणातिर्कम्य तूष्णीं तृमं निरस्योपवेशनमिच्छन्ति ।
अग्रेणाग्निं परित्यान्ये ।
ऽहौत्रब्रह्मत्वे स्वं कुर्वन् ब्रह्मासनमुपविश्य चि(छ)त्रमुत्तरासङ्गं कमण्डलुं वा तत्र कृत्वाधान्यत् कुर्या (खा0सू01-1-26.) दिति कल्पान्तरम् ।
कृताकृतमाज्यहोमेषु परिस्तम् ।
तथाज्यभागौ वा ब्रह्मा वेदा(त्या)श्वलायनः

1.21

आप्ग्स्-तात्_1.21:
अग्निमिध्वेति प्रकृतत्वात् अग्नेर्दक्षिणतो दर्भेषु कंचिद्ब्रह्मणमुपवेशयेत् ।
न तु दर्शपूर्ममासवद्ब्रह्माणं, समानविधानवचनानाम्
चोदनालिङ्गानि विनात्र तदीयस्य ब्रह्ममः प्राप्त्यभावात्, ऽब्राह्मणं दक्षिणतो दर्भेषु निषाद्यऽइति कृत्स्नविधानाच्च ।
तेनात्र ब्रह्मधर्भावरणतृणनिरसनादयो न कर्तव्याः ।
पितृभूतर्त्विक्पक्षे ऽपि यः पितुर्ब्रह्मा स एवात्र निषाद्यत इति नियमो नास्ति ॥
अन्ये तु-श्रौते ब्रह्मा दक्षिणेनाग्निं दर्बेषु निविष्टो दृष्ट- ।
तथेव बह्वृचानां छन्दोगानां च गृह्ये ब्रह्मेत्येव चोदितः ।
अतो ऽत्रापि ऽब्राह्मणं दक्षिणतऽ; इति लक्षणया ब्रह्मैव चोद्यते ।
तेन सम्भवन्तो ब्रह्मधर्मा इहापीति ।
तन्न, स्वगृह्यस्थस्य ब्राह्मणशब्दस्य श्रुत्यर्तत्यागेन परगृह्याल्लक्षणाश्रयणस्यायुक्तत्वात् ।
न च दक्षिणतो निषदितस्य ब्राह्मममात्रस्य ब्रह्मत्वं सूत्रकारस्येष्टम् ।
यदि हि तथा स्यात्, ऽयं ब्राह्मणं विद्यां विद्वांसं यशो नर्च्छेत्" (आप.श्रौ.14-13-7). इत्यत्राल्पैरेवाश्ररैः ऽब्रह्मणे वरं ददातिऽइति ब्रूयात्, न पुनस्त्रिगुणैः ऽयो दक्षिणत आस्ते तस्मै वरं ददाति"(आप.श्रौ.14-13-9.) इति ।
सम्भवतां धर्माणां प्राप्तौ मन्त्राणामपि प्राप्तिर्दुर्वारा ।
ऽब्राह्मणं दक्षिणतो निषाद्यऽ; इत्यत्रानुक्तानां मन्त्रादीनां परिसंख्येयं चेति वदतां चोक्तिरीत्या स्वार्तपरत्वे सम्भवति दोषत्रययुक्तपरिसंख्याश्रयणं निर्हेतुकम्

1.22

6 आज्यसंस्कारः ।
आज्यं विलाप्यापरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्योदीचो ऽङ्गारान्निरूह्य तेष्वधिश्रित्य ज्वलतावद्युत्य द्वे दर्भाग्रे प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान् प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय परित्रे अनुप्रहृत्य ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_1.22:
अथाज्यसंस्कार- तत्र विलापनमाज्यस्य यस्मिन्कस्मिंश्चिदग्नौ भवति उत्तरत्राज्यग्रहणात् ।
निर्वापः आनयनम् ।
पुनराज्यग्रहणमनाघारे ऽपि कर्मणि संस्कारः आज्यस्य यथा स्यात् ।
आज्यं सर्वत्र निरुप्य जुहोतीति ।
निरूहणं पृथक्करणम् ।
उदग्वचनं पुत्र्येष्वपि यथा स्यात् ।
एतोनोद्वासनं व्याख्यातम् ।
अवद्योतनं ज्वलता तृणेनावदीपनम् ।
तत्र द्वे दर्भाग्रे पवित्रवत्संस्कृत्याज्ये प्रत्यस्यति प्रक्षिपति ।
द्वे ग्रहणमेकं वे त्यस्याग्निहोत्रदृष्टस्य विकल्पस्य प्रतिषेधार्थम् ।
तेनाग्निहोत्रिके ऽपि तन्त्रे द्वे एव दर्भाग्रे भवतः ।
ततस्तदाज्यं त्रिः प्रदक्षिणं पर्यग्नि करोति आज्यस्य सर्वतो ऽग्निं त्रिरावर्तयति तृणेनोल्मुकेन वा ।
तत्र पित्र्येष्वपि प्रदक्षिणं पर्यग्निकरणमिच्छन्ति ।
उद्वासनं निर्हरणम् ।
प्रत्यूहन माग्निमा संसजैनम् ।
पुनराहारं पुनराहृत्याहृत्य ।
त्रीण्येतानि उत्पवनानि प्रत्यगपवर्गाणि ।
अनुप्रहरणमग्नैः प्रकरणात्
"विस्रस्याद्भिस्संस्पृश्ये"ति कल्पान्तरात् ॥
इति श्रीहरदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायां प्रथमः खण्डः ॥
आप्ग्स्-तात्_1.22:
यद्यपि ऽसर्पिराज्यं प्रतीयात्ऽ(आप.प.2-25) इति परिभाषासिद्धं विलापनं, तथापि विलीनमप्याज्यं होमार्थे ऽग्नौ कर्मार्थ पुनर्विलापयेत् ।
ततो ऽग्नेः पश्चात् स्थापितायां पवित्रान्तर्हितायामाज्यस्थाल्यां तदाज्यमानयेत् ।
ऽआज्यं विलाप्यऽइति प्रकृते ऽपि पुनराज्यग्रहणमाज्यस्यैव निर्वापादयः न पुनः ऽदध्न एवाञ्जलिना जुहोति"(आप.गृ.22-10) इत्यत्र(2) पशुप्रभवस्य होमद्रव्यत्वे ऽपि यदीयतदीयन्यायाद्दध्नो भवेयुरित्येवमर्थम् ॥
केचित्-- अतन्त्रके ऽपि कर्मण्याज्यं निर्वापादिभिस्संस्कार्यमित्येवमर्थमिति ॥
अद्रिमित्यग्नेरेव पश्चात् न ब्राह्मणस्येति ।
केचित्-अन्यस्मिन्नग्नौ विलपनं, होमार्थाग्नेरेव पश्चान्निर्वाप इत्येवमर्थमिति ॥
अथाङ्रारानुदीचो निरूह्य निर्र्वत्य, तेष्वङ्गारेषु आज्यधिश्रित्य, ज्वलता तृणेनावद्युत्य अधोगामिन्या दीप्त्या द्योतयित्वा, द्वे दर्भाग्रे अनियतायामे तृणाद्यन्तर्धाय छित्वाद्भिस्संस्पृश्य ते युगपदाज्ये प्रक्षिपेत् ऽद्वेऽइत्यधिकशब्दात्, आचाराच्च ।
अथोल्मुकमादायाज्ये प्रदक्षिणं त्रिः पर्यग्नि कृत्वा समन्ततो ऽग्निमावर्त्य तदुदगवतारयेत् ।
अत्र निरूहणोद्वासनयोरुदगपवर्गस्य ऽतथापवर्गःऽ(आप.गृ.1-6) इति सिद्धस्य पुनर्विधानमेतयोर्नित्यमुदगेवापवर्गः न तु दैवे विकल्पेनापि प्रागपवर्गः, नापि पित्र्ये दक्षिणतो ऽपवर्ग इति नियमार्थम् ।
तथैव पित्र्येष्वेतयोर्मध्यस्थं पर्यग्निकरणमपि सन्दंशन्यायाद्दैववत्प्रदक्षिणमेव ।
इत्थमेव शिष्टाचारः ।
ततो ऽङ्गारान् पूर्व निरूढान् प्रत्यूह्य पुनरायतनस्थाग्निना संयोज्य ।
अत्राज्यसंस्कारकाणां अङ्गाराणां प्रयूहनविधानात् ऽअपृवृत्ते कर्मणिऽ(आप.परि.4-21) इति न लौकिकत्वम् ।
अवदेयोतनपर्यग्निकरणाग्नयोस्तु यदा आयतनस्थादुपादानं तदा तयोरग्नयेरपवृत्तकर्मत्वेन लौकिकत्वात् त्त्यागः ।
यदा तु निरूढात् तदा तदा तस्मिन्नेव क्षेपः ।
अथ पूर्ववदुदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय पुनराहृत्याहृत्य त्रिरुत्पूय ।
अत्र पुरस्तादारभ्य पश्चान्नीत्वा पुरस्तात् परिसमाप्तिः ।
केचित्- आङो बलाद्विपरीतमाहुः ॥
ततस्ते पवित्रे अनुप्रहृत्य ईचारानुकूलं प्रहृत्य, यदि ग्रन्थिस्स्यात् तदा विस्रस्याद्भिससंस्पृश्य प्रागग्रे अग्नौ प्रहरेदित्यर्थः

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc