आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 10
आप्ग्स्-तात्_4.2:
तान् प्रस्थितान् ।
मन्त्रसमाम्नाय स्यादितः ऽप्रसुग्मन्ताऽइति द्वाभ्यां ऋग्भ्यां अभिमन्त्रयेत ।
अभिमन्त्रणं आभिमुख्येन मन्त्रस्योच्चारणम् ।
अनुमन्त्रमप्येवम्ऽअनुमन्त्रयितव्यद्रव्यगतचित्तेनेति तु भेदः ॥
अथ सूत्रस्यापूर्णत्वात् क्रम उच्यते-
कृतप्राणायामो ऽवरान् प्रेषयिष्येऽइति सङ्कल्प्य, ऽप्रसुग्मम्तेऽति द्वाभ्यां वरानभिमन्त्र्य, ऽयूयममुष्मात् कुलात् मह्यं कन्यां वृणीध्वम् ऽइति प्रेषयेत् ।
ततस्ते दुहितृमतो गृहं गत्वा, कन्यां दत्तसगोत्रत्वादिदोषरहितां बन्ध्वादिगुणसम्पन्नां च यत्नतो ऽवधार्य, दुहितृमन्तं पित्रीदिकं ऽगौतमगोत्राय विष्णुशर्मणे वराय भवदीयां कन्यां प्रजासहत्वकर्मभ्यो वृणीमहेऽइति ब्रूयुः ।
ततस्स पित्रादिर्ऽदास्यामीऽति प्रतिब्रूयात् ।
ततस्ते प्रत्येत्य,ऽसुद्धार्ता वयऽमिति वराया वेदयेयुः ।
एतच्च वरप्रेषणाद्यासुरार्षयोरेव, नान्येषु अर्थलोपात् ।
अथ यस्मिन्नहनि विवाहः ततः पूर्वमेव पञ्चमे तृतीय वाहनि यथाशिष्टाचारमङ्कुरारोपणं कुर्यात् ।
तथा श्वो विवाह इत्यद्य विवाह इति च ।
ऽतथा मङ्गलानिऽऽआवृतश्चास्त्रीभ्यः प्रतीयेरत्ऽ(आप.गृ.2-14,15) इत्युक्तानि कर्माणि वरो वधूश्च यथाकालं यथायोग्यंकुरुतः ।
केचित्-पूर्वेद्युर्नान्दीश्राद्धं कल्पान्तरादिति ।
ततः पित्रादिर्वधूकुलं प्राप्ताय वराय कन्यामुदकपूर्व दद्यात्-इमां वत्सरोत्रजां लक्ष्मीदायीं गौतमगोत्राय विष्णुशर्मणे तपभ्यं प्रजासहत्वकर्मभ्यः प्रतिपादयामीति ।
गान्धर्वराक्षसयोस्तु न प्रतिपादनम्, दातृव्यापारा नपेक्षत्वात् ।
ततस्तां वरः प्रतिगृह्य विवाहस्थाने ऽयत्र क्वचाग्निम्ऽ(आप.ध.2-1-13) इत्यादिविधिनाग्निं प्रतिष्ठाप्य, तत्रैव यस्यां शालायां कन्याऽस्ते तां गत्वा मधुपर्क प्रतिगृह्णाति यथार्ह यथाविधि ।
एवमेव वरापचितो ऽपि
अनन्तरं वरः किं कुर्यादित्यत्राह--
2. कन्यायाः समीक्षणम् ।
स्वयं दृष्ट्वा तृतीयां जपेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.3:
ततो विवाहे निश्चिते पूर्वेद्युर्नान्दीश्राद्धं कृत्वा परेद्युर्ब्रअह्मणान् भोजयित्वाशिषो वाचयित्वा वरो वधूकुलं गच्छति ।
तस्मै कूर्चदानादि भोजनान्तं मधुपर्क दत्वा कन्यां प्रतिपादयति-तुभ्यमिमां प्रजासहत्वकर्मभ्यः प्रतिपादयामीति ।
ततस्तां वरः स्वयं दृष्ट्वा तृतीयामृचं जपेत्
अभ्रातृघ्नीमित्येताम् ।
स्वयमित्यनुच्यमाने वरं दृष्ट्वेत्यर्थः स्यात् प्रकृतत्वात् ।
स्वयं ग्रहणात्तु कन्यां दृष्ट्वत्यर्थो भवति ।
तत्र ब्राह्मे विवाह उदकपूर्व प्रतिपादनम् ।
गान्धर्वराक्षसयोस्तु नैव प्रतिपादनम्
आप्ग्स्-तात्_4.3:
वरः स्वयं कन्याम दृष्ट्वा ऽअब्रातृघ्नीम्ऽइति तृतीयां ऋचं जपेत् ।
दृष्ट्वै वचक्षुषी उपसंहरति ।
जपश्च सर्वत्र चातुस्स्वर्येण;नतु करणमन्त्रादिवदेकश्रुत्या ।
ऽएकश्रुति दूरात्सम्बुद्धौऽ(पा.सू.1-2-33) ऽयज्ञकर्मण्यजपन्यूखसामसुऽ(पा.सू.1-2-34) इति वचनात् ।
अत्र च स्वयमिति विशेषमं वरयितॄमां प्रकृतानामयं जपो मा भूदिति ।
केचित्- स्वयं वधूमेव दृष्ट्वा जपेत् ;न तु वरानिति ।
स्वयं दृष्ट्वेत्यादि च सर्वविवाहानामविकृतम्
चतुर्थ्या समीक्षेत ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.4:
अवयवश ईक्षणं समीक्षणम् ।
अघोरचक्षुरित्येषा चतुर्थीं
आप्ग्स्-तात्_4.4:
ऽअघोरचक्षुःऽइत्यनया समीक्षेत ।
वध्वा दृष्ट्वो स्वदृष्टिं निपातयति, अघोरचक्षुरपिघ्न्येधीति मन्त्रालिङ्गात् ।
केचित्-समीक्षेत अवयवशो निरीक्षेतेति ।
अत्र वरो वधूश्च दर्मेष्वासीनौदर्भान् धारयमाणौ कृतप्राणायामौ सङ्कल्पयेते- आवाभ्यां कर्माणि कर्तव्यानि, प्रजाश्चोत्पादयितव्यां-इति
3. तस्याः भ्रुवोरन्तरे सम्मार्जनम् ।
अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भं संगृह्योत्तरेण यजुषा तस्या भ्रुवोरन्तरं संमृज्य प्रतीचीनं निरस्येत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.5:
मध्यमासमीपे व4तत इत्युपमध्यमा तयाङ्गुल्या अनामिकयेत्यर्थः ।
भ्रुवोरन्तरं मध्य मित्तरेण यजुषा इदमहमित्यनेन ।
संमार्जनमन्त्रो ऽयं न निरसनमन्त्रः ।
प्रतीचीनं प्रत्यग्गतम् ।
उपर्युपरि शिरो निरस्येत् ।
तत उदकोपस्पर्शनं अङ्गुष्ठसाहचर्यादुपमध्यमयेति विशेषणादेव सिद्धे अङ्गुल्येति विशेष्यनिर्देशो विस्पष्टार्थम् ।
यजुषेति विशेषणं उत्तरेणेति दिग्वाचिताशङ्का मा भूदिति
आप्ग्स्-तात्_4.5:
उपमध्यमा उपकनिष्ठिका, न तु प्रदेशिनी, तस्या विस्रंसिकेति व्यपदेशात् ।
उत्तरेण यजुषा ऽइदमहं या त्वयिऽइत्यनेन ।
शेषं व्यक्तम् ।
दर्भ निरस्याप उपस्पृशेत्
प्राप्ते निमित्त उत्तरां जपेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.6:
वध्वा स्वबन्धूनां च रोदनं निमित्तं जीवा रुदन्तीति लिङ्गात् ।
उत्तरामृचं ऽजीवारुदन्तीऽत्येताम्, सर्वत्र समावेशनान्ते विवाहकर्मण्यस्मिन्निमित्ते ऽयं जपो भवति ।
निमित्तावृत्तौ मन्त्र आवर्तते
आप्ग्स्-तात्_4.6:
जीवांरुदन्तीऽति मन्त्रलिङ्गनुरूपे निमित्ते प्राप्ते मात्रादिभिः कन्यकया वा अन्योन्यवियोगचिन्तया रोदने कृते इमामृचं जपेत्
4. तस्याः स्नानार्थजलाहरणार्थ युग्मानां ब्राह्मणानां प्रेषणम् ।
युग्मान्समवेतान् मन्त्रवत उत्तरयाद्भ्यः प्रहिणुयात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.7:
वधूस्नापनार्थानामपामाहरणं उत्तरयर्चा ऽव्युक्षत्क्रूरऽमि त्येतया ।
मन्त्रवतः प्रहिणुयात् प्रस्थापयेत् ।
ऽतथा मङ्गलानीऽत्येव सिद्धे युग्मवचनं पञ्चभिर्मन्त्रैः स्नापनं वक्ष्यति, तत्र प्रतिमन्त्रं स्नापनावृत्तिः ।
तत्र च स्नापनस्यायुग्मत्वात् तदर्थानामुदकुम्भानामप्ययुग्मत्वं स्यात् ।
एवमाहर्तॄणां ब्राह्मणानामपि ।
अतो युग्मानित्युच्यते ।
तेन प्रतिमन्त्रं कुभ्भभेद- प्रतिकुभ्भं ब्राह्मणभेदश्च सिद्धो भवति ।
तत्र यदि चत्वारः कुम्भाः चतुर्थेन कुब्भेन चतुर्थपञ्चमाभ्यां मन्त्राभ्यामभिषेकः ।
यदा त्वष्टौ तदा प्रतिमन्त्रं पञ्चभिस्तूष्णीमितरैः ।
समवेतवचनमुदकाहरणे सह प्रवृत्त्यर्थम् ।
मन्त्रवत इति ब्राह्मणानां ग्रहणम्,"आस्यै ब्राह्मणा"इति मन्त्रे दर्शनात्
आप्ग्स्-तात्_4.7:
युग्मान् समसङ्ख्याकान् ।
समवेतान्मन्त्रवत इति पूर्ववत् ।
उत्तरया ऽव्युक्षत्क्रूरम्ऽइत्येतया प्रैषत्वादुच्चैः प्रयुक्तयाद्भ्यः प् रहिणुयात् वधूस्नापनार्था उप आहर्तु प्रेषयेत् ।
एते च ब्राह्ममा एव,ऽआस्यै ब्राह्मणाऽइति मन्त्रलिङ्गात् ।
ते च ब्राह्मणा यास्वप्सु पुरुषाः स्नानादिषु पूर्व न मृताः ताभ्यस्तृणावकाद्यपनीयाप आनन्यन्ति;ऽअवीरघ्नीःऽइति मन्त्रलिङ्गात्
5. तस्याः स्नापनम्, अहतवस्रधारणं, योक्त्रसन्नहनं च ।
उत्तरेण यजुषा तस्याश्शिरसि दर्भेण्वं निधाय तस्मिन्नुत्तरया दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य छिद्रे सुवर्णमुत्तरयान्तर्धायोत्तराभिः पञ्चभिस्स्नापयित्वोत्तरयाहतेन वाससाऽच्छाद्योत्तरया योक्त्रेण सन्नह्यति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.8:
ततस्तैरप्स्वाहृतासु तस्या वध्वाशिशरसि दर्भेणवं दर्भैः परिकल्पितं मण्डलं उत्तरेण यजुषा ऽअर्यम्णो अग्निऽमित्यनेन निधाय तस्मिन्निण्वे इत्तरया ऽखे ऽनसऽइत्यनया दक्षिणं युगच्छिद्रं दक्षिमस्या युगधुरो बाह्यच्छिद्रं प्रति ष्ठाप्य तस्मिन् छिद्रे सुवर्णमुत्तरयर्चा ऽशं ते हिरण्यऽमित्येतया न्तर्धाय ताभिरद्भिस्ता मुत्तराभिः प्चभिः ऽहिरण्यवर्णाऽइत्येताभिः प्रतिमन्त्रं स्नापयति ।
कथं पुनच्छिद्रस्यान्तर्धानेन स्नापनं संभवति । तथान्तर्धानं कुरुते यथोदकमवस्रवति ।
ततस्तामुत्तरयर्च्चा ऽपरि त्वा गिर्वणो गिरऽइत्येतयाहतेन वाससाऽच्छादयति ।
स्वयमेव मन्त्रमुक्त्वा परिधापयति आच्छाद्याचमय्य उत्तरयर्चा आशासानेत्येतया योक्तत्रेण सन्नह्यति ।
ऊर्ध्वज्ञुमासीना(आप.श्रौ.2-5-2)
मित्यादिदार्शपौर्णमासिको विशेष इहेष्यते
आप्ग्स्-तात्_4.8:
दर्भेण्वं, दर्भैः परिकल्पितमिण्वं निगलाकृतिं परिमण्डलाकारमित्यर्थः ।
तदुत्तरेण यजुषा ऽअर्यम्णो अग्निंऽइत्यनेन वध्वाश्शिरसि निधाय तस्मिन्निण्वे वर उत्तरया खे ऽनसऽइत्येतया दक्षिणं युगछिद्रं , युगस्य दक्षिणं च्द्रं दक्षिमस्या धुरो बारह्यछिद्रं प्रतिष्ठाप्य, छिद्रे सुवर्णमुत्तरया ऽशं ते हिरण्यम्ऽइत्येत यान्तर्धाय, उत्तराभिः ऽहिरम्यवर्णाश्शुचयः पावकाः प्रचक्रमुर्हित्वाऽइत्यादिभिः प् अञ्चभिः ऋग्भिः स्नापयति ।
एतच्च पञ्चानामन्ते सकृदेव, ऽवचनादेकं कर्म बहुमन्त्रम्ऽ(आप.प.1-47) इत्युक्तत्वात् ।
एवं सर्वत्र एवं विधेष्वन्नप्राशनादिषु ॥
केचित्- पञ्चभिरिति वचनात् प्रतिमन्त्रमिति ।
तन्न;तिसृभ्यो ऽ; वशिष्टयोर्विकल्पनिवृत्त्यर्थत्वादस्य ।
इतरथा क्रियाभ्यावृत्तिवाचक प्रत्ययाश्रुतेः गुणार्थ प्रधानस्नानाभ्यावृत्तिकल्पनापत्तिः, प्रयुक्तिगौरवं च ॥
उत्तरया ऽपरि त्वार् र्वणो गिरःऽइत्येतया ।
अहतेन अनिवसितेन वाससा परिधाप्य, द्विराचमप्य, उत्तरया ऽआशासाना सौमनसम्ऽ; इत्येतया योक्त्रेण सन्नग्यति ।
कृत्स्नविधानं ।
केचित्-ऐष्टिकसन्नहनविधिप्रदर्शनार्थमिति
अथैनामुत्तरया दक्षिणे हस्ते गृहीत्वाग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत उत्तरो वरः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.9:
अथ सन्नहनानन्तरंऽयत्र क्वचाग्निऽमित्यादिकल्पेनाग्निं प्रसाधयति ।
मथित्वा श्रोत्रियागाराद्वाहृत्य ततो वधूमग्निमभ्यानयति ।
उत्तरयर्चा ऽपूषात्वेतऽइत्येतया ।
आनयनमन्त्रो ऽयम् ।
हस्तग्रहणं तु तूष्णीमेव ।
उदगग्रवचनं दक्षिणाग्रनिवृत्त्यर्थम्
आप्ग्स्-तात्_4.9:
अथशब्द उक्तार्थः अर्थकृत्यप्रतिषेधार्थ इति ।
एनां वधूं दक्षिणे हस्ते गृहीत्वा, उत्तरया ऽपूषा त्वेतो नयतुऽइत्येतया
अग्निमभ्यानीया ग्न्यभिमुखमानयति;नयत्विति मन्त्रलिङ्गात् ।
व्यवहिते ऽपि नयने विनियोगात् अपरेणाग्निम् अग्नेरदूरेणऽपस्चादुगग्रं कटमास्तीर्य, तस्मिन् कटे युगप दुपविशतः, यतोत्तरो वरो दक्षिणा वधूः
6. अग्नेरुपसमाधानादि कर्म ।
अग्नेरुपसमाधानाद्याज्यभागान्ते ऽथैनामादितो द्वाभ्यामभिमन्त्रयेत ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.10:
अथैवमुपविश्याग्नेरुपसमाधानादि कर्म प्रतिपद्यते ।
अग्निमिध्वा प्रागग्रैरित्यादि आज्यभागान्ते कर्मणि कृते अथानन्तरमुपोत्थाय एनामासीनां वझूं तृतीयस्यानुवाकस्यादितो द्वाभ्यामृग्भ्यां ऽसोमः प्रथमऽइत्येताभ्यामभिमन्त्रयेत ।
अग्नेरुपसमाधानादि वचनं तन्त्रप्राप्त्यर्थम् ।
आज्यभागान्तग्रहणमभिमन्6णादेरुत्तरस्य कर्मण- कालोपदेशार्थम् ।
अथशब्दो ऽवस्थान्तरप्रदर्शनार्थः ।
आज्यभागान्तमासीनः कृत्वा अतोत्थायाभिमन्त्रणादि प्रतिपद्यत इति ।
तथा च बोधायनः-अथास्या उपोत्थाय हृदयदेश (बौ.गृ.1-4-1) मिति ।
आश्वलायनश्च-तिष्ठन् प्राङ्मुखः प्रत्यङ्मुख्या आसीनाया (आश्व.1-7-3) इति ।
एनामित्युच्यते अग्नेरभिमन्त्रणं मा शङ्कीति ।
उत्तराभ्यामिति वक्तव्ये आदितो द्वाभ्यां इत्युच्यते मन्त्रसमाम्नाये अनुवाकव्यवस्थाप्रदर्शनार्थम् ।
तेन"शेषं समावेशने जपे"दित्यादावनुवाकशेषस्य ग्रहणम्
आप्ग्स्-तात्_4.10:
अथं तन्त्रोपदेशः क्रमार्थ इत्युक्तमेव ।
यदि तु लाजहोमास्तन्त्रशून्या आगन्तुकाः, तदा स क्रमतन्त्रविधानार्तः ।
अथोति पूर्ववत् ।
केचित् कल्पान्तरसिद्धो पोत्थानानन्तर्यप्रदर्शमार्थमिति ॥
एनां वझूं वरः आदित अ नुवाकस्य ऽसोमः प्रथमःऽइत्यस्य ऽसोमः प्रथमः ऽइति द्वाभ्यां ऋग्भ्यामभिमन्त्रयेत
7. पाणिग्रहणम् ।
अथास्यै दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानं हस्तं गृह्णीयात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.11:
अथ तथैवावस्थितः अस्यै अस्याः तथैवासीनाया दक्षिणमुत्तानं हस्तं गृह्णीयात् ।
दक्षिणेन नीचा न्यक्भूतेन पस्तेन ।
इदं पाणीग्रहणं नामकर्म ।
दक्षिणेनेति न वक्तव्यम् ।
एकपाणिसाध्येषु कर्मसु दक्षिणस्यैव प्रसिद्धत्वात् ।
अथाप्रसिद्धः, अन्यत्रानियमः प्राप्नोति ।
यथात्रैव पुरस्तादुपनयने च ।
एवं त4हि नात्र दक्षिमहस्तो विधीयते ।
किं तर्हि?न्यक्ताविदानार्तमनूद्यते यो ऽयं दक्षिणो हस्त- सर्वकर्मसु प्रसिद्धः तेन नीचापाणिग्रहणमिह कर्तव्यमिति ।
अस्मादेव चानुवादात् सर्वत्र दक्षिणपाणिरिति सिद्धम्
आप्ग्स्-तात्_4.11:
अनेन नित्यविधिना ऽसो ऽभीवाङ्गुष्ठम्ऽइत्येतावन्मात्रस्य व्यवहितस्यापि सम्बन्धः ।
इतरथा स इति न ब्रूयात् ।
अस्मै अस्या वध्वाः;षष्ठ्यर्थे चतुर्थी ।
उत्तानं दक्षिणं हस्तं वरस्स्वेन नीचा न्यग्णूतेन दक्षिमहस्तेन ।
अभीवाङ्गुष्ठं अभिरुपर्यथः ।
इवेत्यवधारकः ।
उपर्यङ्गुष्ठमेव गृह्णीयात्
अथ काम्यं विधिदिवयमाह--
8. तत्र कामनायां विशेषः ।
यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.12:
अङ्गुलीरेव नाङ्गुष्ठं नापि पाणितलम् ।
पूर्वोक्तस्यैवायं कामसंयुक्तो विशेषविधिः ।
तेनेहापि दक्षिणेन नीचा हस्तेनेत्येवमादयो विशेषा भवन्ति
आप्ग्स्-तात्_4.12:
अङ्गुलीरेव नाङ्गुष्ठम् ।
शेषं नित्यवत्
यदि कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सो ऽभीवाङ्गुष्ठमभीव लोमानि गृह्णाति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.13:
गृह्णीयादित्यनुवर्तते
आप्ग्स्-तात्_4.13:
अभीव लोमानि , यथा वरस्याङ्गुष्ठलोमानि सर्वाण्येवोपरि भवन्ति तथा गृह्णाति ।
शेषं नित्यवदेव ।
अतो वध्वङ्गुष्ठमप्युत्तानम्
पूर्वोक्तस्य नित्यस्य काम्ययोश्च मन्त्रानाह--
गृभ्णामि त इत्येताभिश्चतसृभिः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.14:
यः माणिग्रहणे कामं नेच्छति स पाणिमभीवाङ्गुष्ठमभीव लोमानि गृह्णीयादित्येव ।
अभिशब्द उपरिभावे ।
इव शब्द- ईषदर्थे ।
यथा लोमानि हस्तजातानि इषदभिस्पृषाट्नि भवन्ति ।
अङ्गु#ठञ्च तथा गृह्णीयादित्यर्थः ।
"लोमान्ते हस्तं शाङ्गुष्ठमुभयकाम" (आश्व.गृ1-7-5) इत्याश्वलायनः
आप्ग्स्-तात्_4.14:
गृह्णीतीति सम्बन्धः ।
सर्वासामन्त एव
9. सप्तपदीगमनम् ।
अथैनामुत्तेरणाग्निं दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमय त्येकमिष इति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.15:
अथेदानीमेनां वधूमृत्त्थाप्योत्तरेणाग्निं यो देशस्तस्मात् प्रक्रम्य प्राचीं वा दिशमभि उदीचीं वा दक्षिणेन पदा सप्त पदानि प्रक्रामयति
एकमिष इत्येतैर्मन्त्रैः ।
प्राग्गतान्युदग्गतानि वा पदानि निधापयतीतियर्थः ।
अत्र स्वयमेव पादं गृहीत्वा मन्त्रांश्चोक्त्वा निधापयति ।
संभाराक्रमणवत् ।
दक्षिणेन पदेति मन्त्राणां दक्षिणसम्बन्धार्थ पूर्वप्रवृत्त्यर्थ च, तस्मात्तूष्णीमितरस्य पश्चादनुप्रवृत्तिः ।
इह सोमाय जनिविदे स्वाहेत्येतैः प्रतिमन्त्रमित्यत्र एतैः प्रतिमन्त्रमिति न वक्तव्यम् ।
यथाचैतत्तथा तत्रैव वक्ष्यामः ।
तस्मात्तयोरिहपकर्षेण संबन्धः ।
एकमिष इत्येतैः प्रतिमन्त्रमिति ।
इतरथा प्रतिपदं मन्त्रसम्बन्धो न सिध्यति ।
पदानाञ्च सप्तसंख्यानियमो ऽतोत्तराभिस्तिसृभिः प्रदक्षिणऽमित्यत्र तिसृणामन्ते परिक्तमणारम्भः तद्वदिहापि स्यात् ।
ऽविष्णुस्त्वा न्वेत्विऽति सर्वत्रा नुषजन् जपति प्रथमोत्तमयोः पठितत्वात्
आप्ग्स्-तात्_4.15:
अथाग्नेरदूरेणोत्तरत आरभ्यैनां दक्षिणेन पदा पादेन प्राचीमुदीचीं वा दिशमभि प्रागायतान्युदगायतानि वा सप्त पदानि प्रक्रमयति;ऽएकमिषेऽइत्यादिभिस्सप्ताभिड- ऽविष्णुस्त्वान्वेषुऽइत्यनुषक्तैः प्रतिमन्त्रम्
सखेति सप्तमे पदे जपति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.16:
उक्तं सप्तपदानि प्रतिमन्त्रं प्रक्रमयतीति ।
तत्र सप्तमे पदे निहिते पादमुपसंगृह्यैव ऽसखासप्तपदेऽत्यापभ्य जपति होममन्त्रेभ्यः प्राक् ये मन्त्राः तानित्यर्थः ।
त6 कल्पान्तरे दृश्यते ऽसप्तमं पदमुपसंगृह्येति
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0