भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 9

9.2

तानादितो द्वाभ्यामभिमन्त्रयेत ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_4.2:
गच्छतस्तान् वराननन्तरमाम्नातस्य मन्त्रसमाम्नायस्यादितो द्वाभ्यां ऋग्भ्यां पप्रसुग्मन्तेत्योताभ्यां अभिमन्त्रयेत ।
अभिलक्ष्य मन्त्रोच्चारणमभिमन्त्रणम् ।
ततस्ते कन्याकुलं गत्वा-एवंगोत्रायामुष्मै सहत्वकर्मभ्यो युष्मदीयां कन्यां वृणीमह-इति ब्रूयः ।
ततस्ते प्रतिब्रूयुः-शोभनं तथा दास्याम-इति ।
तत्र ब्राह्मे विवाहे दैवे चार्थलोपात् वरणलोपः कल्पान्तरदर्शनाच्च-नात्र वरान् प्रहिणुयादिति ।
तथा गान्धर्वराक्षसयोश्च

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc