भाषा

ENहिગુ
ग्रंथ पाठ

अनुव्याख्यान · अध्याय 4.4

4.4.1

॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्यने चतुर्थाध्यायस्य तृतीयः पादः ॥
अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः ।
समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे

4.4.2

सामान्यरूपं प्रतिभानमुक्तिराश्चर्यताकृत्रिमतास्तदोषः ।
विशेषकॢप्तिः कृतनिःश्रमश्च माहात्म्यमित्येव सुनिर्णयार्थाः

4.4.3

अनन्यभृत्यत्वमिहोदितभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ।
पतिं यदेषामपि विष्णुमाह ह्युतामृतत्वस्य पतित्ववाग्धरेः

4.4.4

एते ऽपिचान्याधिपतित्वयुक्ता विष्ण्वन्यचित्त्वेन यथा पुमांसः ।
प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्यसिद्धयै भवतीह निश्चयात्

4.4.5

मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरस्सराणाम् ।
अनेन देवेन तथामुना च हीष्ये परार्वाक्तनलोकिनामिति

4.4.6

फलं श्रुतिर्ज्ञानत आह मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् ।
लोकाधिपत्यं च विधातुरेव सर्वात्मनेत्याह तुरश्रुतिश्च ।
सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य हि युक्तिमेति

4.4.7

लोका इतीहापि तु लोकिनां वचो लोका इति ह्येव रवः प्रजासु ।
प्रयुज्यते सर्वजनैः सदैव तन्मानिनो लोकपदेन चोक्ताः ।
तद्गास्तु मुक्ता इह लोकशब्दा अन्योन्यनाथा इति पैङ्गिनां श्रुतिः

4.4.8

अलोकशब्देन विमुक्तिभाजो वाच्याः पदं तादृगपीह युक्तम् ।
लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे ।
ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च

4.4.9

नचेह विज्ञानफलं समुक्तं लोकाधिपत्यं रविबिम्बतो हरौ ।
उक्तं पृथक् तच्च पुरैव यस्माद् भेदो ऽमुनेत्यादि च सम्यगुक्तः

4.4.10

त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः ।
भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः

4.4.11

अतो जगद्वयापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण ।
अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात् समासते

4.4.12

नमो नमो ऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय ।
भक्तानुकम्पादतिशुद्धसंविद्दात्रे ऽनुपाधिप्रियसद्गुणात्मने

4.4.13

यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानलं बट् तद् दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदनुमा ग्रन्थः कृतः केशवे

4.4.14

निःशेषदोषरहितकल्याणाखिलसद्गुण ।
भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम्

मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc