भाषा

ENहिગુ
ग्रंथ पाठ

अनुव्याख्यान · अध्याय 4.3

4.3.1

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्यने चतुर्थाध्यायस्य द्वितीयः पादः ॥
उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितम् सुक्रमविक्रमौ च ।
सान्तानिकं प्राप्तिरभीष्यता च सौकयर्मित्यन्यमतस्य तर्काः

4.3.2

विशेषसम्प्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ।
सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः

4.3.3

उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ।
प्राप्स्यन्त्यतो ऽन्ये ऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्ते

मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc