भाषा

ENहिગુ
ग्रंथ पाठ

अनुव्याख्यान · अध्याय 1.2

1.2.1

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचायर्विरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः ॥
लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ।
चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते

1.2.2

तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।
दूरतो ऽप्यतिरिक्तः स लीलया केवलं प्रभुः

1.2.3

इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा ।
अभेदो ऽपि विशेषे स्याद् बली सो ऽप्यनपोदितः

1.2.4

एतद् भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।
अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते

1.2.5

अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ।
अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता

1.2.6

इति चेत् स विशेषो ऽपि क्रियाशक्तयात्मना स्थिरः ।
शक्तिता व्यक्तता चेति विशेषो ऽपि विशेषवान्

1.2.7

अभिन्नो ऽपि क्रियादिश्च स्वभाव इति हि श्रुतिः ।
ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः

1.2.8

इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु ।
क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता

1.2.9

इति सत्तत्त्ववचनं द्वित्वं चैकस्य युज्यते ।
यः सेतुरिति चैकत्ववचनेन विशेषणात्

1.2.10

अन्तः स्थित्वा रमणकृदन्तरः समुदाहृतः ।
रमणं चात्मशब्देनादेयं मातीति चोच्यते

1.2.11

विशिष्टसुखवत्त्वाच्च ब्रह्मत्वं च विशिष्टता ।
अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत्

1.2.12

चेतनानां विशेषो यः स्वभावो ऽपीश्वरापिर्तः ।
अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ

1.2.13

ईश्वरश्चेन्नियन्ता च स एव प्रथमागतः ।
किमित्यपोद्यते कस्माद् वृथावस्थितिकल्पना ।
दोषवत्येव तस्मात् सा नैव कार्या कथञ्चन

1.2.14

रमणं नातियत्नस्य विक्षेपादेव युज्यते ।
इति चेत् सर्वनियमो यस्य कस्मान्न शक्यते

1.2.15

आत्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ।
स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम्

1.2.16

गुणक्रियादयो भावा यदिवा स्युरभेदिनः ।
अभेदो ऽभावधर्माणां ब्रह्मणा युज्यते कथम्

1.2.17

नाभावो भाव इति च विशेषः प्रायशो भवेत् ।
अतद्भावो ऽन्यता चेति न विशेषो ऽस्ति कश्चन

1.2.18

दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ।
अदृश्यत्वादिकांस्तस्माद् गुणानाह स्वयं प्रभुः

1.2.19

भावाभावविरोधो ऽपि न तु सर्वत्र विद्यते ।
तदभावो हि तद्भावविरोधी न ततो ऽपरः

1.2.20

पृथक्तवाभावतद्रूपान् भेदांस्त्रीन् कल्पयन्ति चेत् ।
कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः

1.2.21

पृथक्तवान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।
व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः

1.2.22

दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ।
यदा तदधिको दोषो विद्यते को नु वादिनाम्

1.2.23

भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।
अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये

1.2.24

यथैकः समवायो ऽपि भेदाभेदौ च वस्तुनि ।
अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः

1.2.25

अखण्डवादिनोऽ पि स्याद्विशेषो ऽनिच्छतो ऽप्यसौ ।
व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः

1.2.26

बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।
प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः

1.2.27

वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ।
तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।
बहुलाप्यज्ञरूढिस्तत्प्रज्ञारूढिं न बाधते

मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc