अनुत्तरप्रकाशपञ्चाशिका · श्लोक 21-40
इदन्ताहन्तयोर् ऐक्यम् इति विद्या निगद्यते
स्वाङ्गकल्पेषु भावेषु मायातत्त्वं विभेदधीः ॥
मायागृहीतसंकोचः शिवः पुंतत्त्वम् उच्यते
अयम् एव हि संसारी जीवो भोक्तैव दृश्यते ॥
ज्ञत्वकर्तृत्वपूर्णत्व नित्यत्वान्यस्य शक्तयः
तत्संकोचात् संकुचितः कलाद्यात्मतया मतः ॥
मायात्मकं कला नाम किंचित्कर्तृत्वकारणम्
कालः परिच्छेदकरो नियतिश् चेदम् एव मे ॥
कर्तव्यं नान्यद् इत्य् एषा व्यवस्था यन्त्रणाकृइतिः
प्रकृतिर् गुणसाम्यं स्याद् अहंकारादिजन्मभूः ॥
अहं ममेदम् इत्य् एतद् बुद्धिहेतुर् अहंकृतिः
बुद्धिर् अध्यवसायस्य कारणं निश्चयात्मनः ॥
संकल्पस्य विकल्पस्य बीजं मन उदीर्यते
वचनादेश् च शब्दादेर् वागादिश्रवणादिकम् ॥
कारणं श्रवणादीनां ग्राह्यं तन्मात्रपञ्चकम्
आकाशाद्यवकाशादि कारणं भूतपञ्चकम् ॥
परापराशक्तिमये शुद्धे विद्यादिपञ्चकम्
तदन्यद् अपराशक्तिर् इत्य् एतत् तत्त्वम् ईरितम् ॥
इयं देवी परा शक्तिः शुद्धाशुद्धाध्वगर्भिणी
पृथिव्यादीनि तत्त्वानि यदा-लीनानि कारणे ॥
तदा कारणमात्राणि बहिर् उद्वमते विभुः
अनुत्तरेच्छे उन्मेषे आनन्देशनम् ऊनता(?) ॥
क्रियेच्छाज्ञानशक्तीनां सत्ता षट् . . . . .*
इच्छेशनान्तरारूढा स्फुटास्फुटजगन्मयी ॥
चत्वारः परतो वर्णाः षण्डात्मानः प्रचोदिताः
अनुत्तरानन्दशाक्तिस् त्रिकोणाद् वृत्तियोगतः ॥
तथैवोनेषयोगेन क्रियाशक्तेः स्फुटं वपुः
उक्तं त्रिशक्तिसंघट्टात् त्रिशूलं द्वैतघस्मरम् ॥
परस्परविरोधे तु कार्येषु प्रविरोहति
न कथंचिद् उपादेयम् आसां रूपम् इदं भवेत् ॥
बिन्दुर् वेद्यस्य संस्कारो विमर्शः सर्ग इत्य् असौ
कलाषोडशकाकारा शक्तिर् विजयते परा ॥
तिथयः प्रतिपत्पूर्वाः पञ्चदशेति मायया
सूर्याचन्द्रमसौ स्वान्तश् चरन्तौ स्थितिहेतवे ॥
यथा-विमर्शवपुषः सर्गस्याद्याः कलाः स्मृताः
द्विधेयं मातृका देवी बीजयोन्यात्मना स्थिता ॥
नित्यप्रवृत्तशृङ्गाट वपुर्विश्वस्य जन्मभूः
हृदयं बीजम् एतस्यां सारं यत् तत् परं महः ॥
वटबीजे यथा वृक्षस् तथात्र निहितं जगत्
विचार्यमाणे नैवेदं कारणाद् अतिरिच्यते ॥
मूल पाठ: Anuttaraprakāśapañcāśikā · Edition: Mukundarama Shastri Bombay : Tatva Vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 13) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0