भाषा

ENहिગુ
ग्रंथ पाठ

अनुत्तरप्रकाशपञ्चाशिका · श्लोक 41-1add

41

मृदादेः कलशादीनां तत्त्वं नान्यन् निरूपणे
इत्य् आहुस् तत्त्ववादिन्यः श्रुतीनाम् अन्तिमा गिरः ॥

42

इदं सर्वं सद् एवासीद् अग्रे इति विनिश्चयात्
सत्तावाचिनि बीजे ऽस्मिन् भाति माया त्व् इदं जगत् ॥

43

विलुप्तप्रत्ययाकारम् एतत् स परिशिष्यते
ततो ज्ञानक्रियासार विद्येश्वरसदाशिवाः ॥

44

शक्तित्रिशूले लीयन्ते चतुर्दशकलात्मनि
ऊर्ध्वाधः सृष्टिवपुषि सर्वं लीनम् अतः [परम्] ॥

45

इत्थं परस्यां संवित्तौ सर्वं संकुचितं क्रमात्
अथवा मनसातीते यत्र क्वापि निरञ्जने ॥

46

षट्त्रिंशत्तत्त्वलहरी कलहातीतगोचरे
विश्वात्मनि महामन्त्रे स्वभावे सा विलीयते ॥

47

कृतश् चैन्मथिते धाम्नि दीप्ते केनापि हेतुना
सर्वं हविर् इदं जुह्वन् न दारिद्र्येण पीड्यते ॥

48

पञ्चपञ्चात्मकं विश्वं पञ्चस्पन्दविजृम्भितम्
संकोचयत्परामर्शात् सामान्यस्पन्दकेवलम् ॥

49

अहमि प्रलयं कुर्वन्न् इदमः प्रतियोगिनः
पराक्रमपरो भुङ्क्ते स्वभावम् अशिवापहम् ॥

50

इति षडधिकत्रिंशद्भेदप्रसक्तजगत्तनुः प्रसरति महाशक्त्युल्लेखविचित्रमहापटी
जयति बहुशः स्पन्दाकारा परा चिद् अनुत्तरा विमृशत जनाः किं नो स्वभावविजृम्भितम् ॥

1add

सेयं काश्मीरभूपाल संश्रितेन प्रकाशिता
सता मुकुन्दरामेण सन्मुदे ऽस्तु शिवे ऽर्पिता ॥

मूल पाठ: Anuttaraprakāśapañcāśikā · Edition: Mukundarama Shastri Bombay : Tatva Vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 13) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc