अनुत्तरप्रकाशपञ्चाशिका · श्लोक 1-20
अकृत्रिमाहमामर्श प्रकाशैकघनः शिवः
शक्त्या विमर्शवपुषा स्वात्मनो ऽनन्यरूपया ॥
शिवादिक्षितिपर्यन्तं विश्वं वपुर् उदञ्चयन्
पञ्चकृत्यमहानाट्य रसिकः क्रीडति प्रभुः ॥
पृथगर्थम् अर्थवत्ता विश्वविश्वशरीरयोः
न विश्वविश्ववपुषोर् भिन्नता कापि तात्त्विकी ॥
भेदे सत्तास्फुरत्ताभ्यां भिन्नं किं तु जगद् भवेत्
सत्तास्फुरत्तासंबन्धात् सत्ता-भानं च तन् न चेत् ॥
असतः किं सतस् ताभ्यां संबन्धः सो ऽयम् इष्यते
स्वरूपलाभसुलभः संबन्धो न ह्य् अवस्तुनः ॥
न लब्धरूपसंबन्धे ताभ्यां किं चिद् उपेक्ष्यते
उपेक्षायाम् अवस्थानं न स्याद् एतस्य किं चन ॥
स्वभावतः स्फुरत्ता च सत्ता च न विनाशिनी
विनाशानभुपगमे जडतापि निवर्तते ॥
ततो गत्यन्तराभावाच् चिद् एव परिशिष्यते
सतश् चिदैक्यं प्रकृतं कदा चिन् न निवर्तते ॥
प्रकाशे ऽनन्यतो भावः स्वातन्त्र्योल्लासकेवलः
परिछिन्नात्मिका शक्तिः शम्भोर् विश्वातिशायिनः ॥
यत् प्रकाशात्मकं सर्वं तमःकेवलतां गतम्
यच् च किं चिज् जगद् एतत् प्रकाशाद् अतिरिच्यते ॥
विमृश्यसरणीं प्राप्तम् इत्य् एषा तात्त्विकी मतिः
अवभासैकतानानां मतिर् एकात्र साक्षिणी ॥
किं प्रमाणाइर् वराकैस् तैश् चिदानुप्राणितात्मभिः
न हि वैकर्तनं ज्योतिर् दीपालोकम् अपेक्षते ॥
शक्तिपातपवित्रे ऽस्मिन् धीतत्त्वे च परीक्ष्यताम्
आदर्शविमलाभोगे न तु सर्वं प्रकाशते ॥
इत्थं चिदात्मकं सर्वं षट्त्रिंशद्भेदतत्त्वतः
आदौ शुद्धात्मकं तत्त्वं पञ्चधा-तमसः परम् ॥
शिवः शक्तिश् च सादाख्यम् ईशो विद्येति भिद्यते
अक्षादिशान्तवर्णात्मा निरमायि शिवेन तु ॥
कलाविद्यारागकाल नियतिर् बन्ध उच्यते
मायापूर्वो वकारादि क्षकारान्ताक्षरात्मकः ॥
पुमाञ् शक्तिर् मनो बुद्धिर् अहंकारादिपञ्चकम्
श्रोत्रादिपञ्चकं तादि टादि वागादिपञ्चकम् ॥
तन्मात्रपञ्चकं चादि कादि व्योमादिपञ्चकम्
सिसृक्षोः प्रथमस्पन्दः शिवतत्त्वं विभोः स्मृतम् ॥
इच्छैव सापरिम्लाना शक्तितत्त्वम् उदञ्चयन्
स्वेच्छया-सूचितं विश्वम् आच्छाद्याहन्तया स्थितम् ॥
स एव तत्त्वं सादाख्यं सर्वानुग्रहणोद्यतम्
स एवेश्वरतत्त्वं स्यात् पश्यन् विश्वम् इदन्तया ॥
मूल पाठ: Anuttaraprakāśapañcāśikā · Edition: Mukundarama Shastri Bombay : Tatva Vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 13) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0