भाषा

ENहिગુ
ग्रंथ पाठ

आङ्गिरसस्मृति · अध्याय 2.8

2.8.1

आहिताग्निस्तु यो विप्रः प्रतिगृह्णाति शूद्रतः ।
भोक्त्ःणां समतां याति तिर्यग्योनिं च गच्छति ॥

2.8.2

यस्तु वेदमधीयानो भुङ्क्ते शूद्रान्नमेव च ।
शूद्रे वेदफलं याति शूद्रत्वं च स गच्छति ॥

2.8.3

घ्रात्वा पीत्वा निरीक्ष्याथ स्पृष्ट्वा च प्रतिगृह्य च ।
प्रशस्य स्वस्ति चेत्युक्त्वा भोक्ता एव न संशयः ॥

2.8.4

एते दोषा भवन्तीह शूद्रान्नस्य परिग्रहे ।
अनुग्रहं तु वक्ष्यामि मनुना चोदितं पुरा ॥

2.8.5

आमं वा यदि वा पक्वं शूद्रान्नमुपसेवते ।
किल्बिषं भुञ्जते भोक्ता यश्च विप्रः पुरोहितः ॥

2.8.6

गुरुवह्न्यतिथीनां तु भृत्यानां तु विशेषतः ।
प्रतिगृह्य प्रदातव्यं न भुञ्जीत स्वयं ततः ॥

2.8.7

शूद्रान्नरसपुष्टस्य चाधीयानस्य नित्यशः ।
जपतो जुह्वतो वापि गतिरूर्ध्वं न विद्यते ॥

2.8.8

षण्मासानथ यो भुङ्क्ते शूद्रस्यान्नं निरन्तरम् ।
जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥

2.8.9

अकृत्वैव निवृत्तिं यः शूद्रान्नान्म्रियते द्विजः ।
आहिताग्निर्विशेषेण स शूद्रगतिभाग्भवेत् ॥

2.8.10

पक्वान्नवर्ज विप्रेभ्यो गोधान्यं क्षत्रियादपि ।
वैश्यात्तु सर्वधान्यानि शद्राद्धान्यं न किंचन ॥

2.8.11

अनूदकं तु तत्सर्वं गन्धमाल्यविवर्जितम् ।
यथा वर्णेषु यद्दत्तं प्रतिगृह्णीत वै द्विजः ॥

2.8.12

यत्त क्षेत्रगतं धान्यं खले वा कण एव वा ।
सार्वकालं गृहीतव्यं शूद्रादप्यङ्गिरो ऽब्रवीत् ॥

2.8.13

सत्पात्रे समनुज्ञातं दुग्धं यच्छुचिना भवेत् ।
यथा चौपधिकृत्यं स्याद् दध्ना वा पयसापि वा ॥

2.8.14

पात्रेभ्यो ऽपि तथा ग्राह्यं शूद्रेभ्यः प्राकृतादपि ।
शूद्रवेश्मनि विप्राणां क्षीरं वा यदि वा दधि ॥

2.8.15

निवृत्तेन न पातव्यं शूद्रान्नसदृशं हि तत् ।
अग्न्यगारे गवां गोष्ठे नदीविप्रगृहेषु च ॥

2.8.16

कूपस्थाने तथारण्ये पेयं चैव पयो दधि ।
आमं मांसं दधि घृतं धान्यं क्षीरमयौषधम् ॥

2.8.17

गुडो रसस्तथोदश्विद् भोज्यान्येतानि नित्यशः ।
अशृतं चारनालं च ताम्बूलं सक्तवस्तिलाः ॥

2.8.18

फलानि पिण्याकमथो ग्राह्यमौषधमेव च ।
अप्रणोद्यानि मेध्यानि प्रतिग्राह्याणि नित्यशः ॥

2.8.19

सूतके तु यदा विप्रो ब्रह्मचारी विशेषतः ।
पिबेत्पानीयमज्ञानाद् भुङक्ते वा संस्पृशेत वा ॥

2.8.20

पानीयपाने कुर्वीत पञ्चगव्यस्य प्राशनम् ।
त्रिरात्रोपोषणं भुङ्क्ते स्पर्शे स्नानं विधीयते ॥

मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc