भाषा

ENहिગુ
ग्रंथ पाठ

आङ्गिरसस्मृति · अध्याय 2.7

2.7.1

आर्तानां मार्गमाणानां प्रायश्चितानि ये द्विजाः ।
जानन्तो न प्रयच्छन्ति ते च यान्ति समं तु तैः ॥

2.7.2

तस्मादार्तं समासाद्य ब्राह्मणं तु विशेषतः ।
जानद्भिः पर्षदः पन्था न हातव्यः पराङ्मुखैः ॥

2.7.3

तस्य कार्ये व्रतादेशः प्रमाणार्थं हि दातृभिः ।
अज्ञानादुपदेष्टव्यः क्रमशः सर्व एव वा ॥

2.7.4

भयादभ्युत्तरेत्कश्चिद् भयार्तं ब्राह्मणं क्वचित् ।
एवं पापात्समुद्धृत्य तेन तुल्यफलो भवेत् ॥

2.7.5

अनर्थितैरनाहुतैर् अपृष्टैश्च यथाविधि ।
प्रायश्चित्तं न दातव्यं जानद्भिरपि च द्विजैः ॥

2.7.6

तस्माज्जनैः प्रदातव्यम् अनुज्ञाप्य च पर्षदम् ।
न चान्येषु प्रजल्पत्सु चैवं धर्मो न हीयते ॥

2.7.7

पातकेषु शतं पर्षत् सहस्रं महदादिषु ।
उपपापेषु पञ्चाशत् स्वल्पं स्वल्पेषु निश्चयः ॥

2.7.8

ब्रह्महा स्वर्णहारी च सुरापो गुरुतल्पगः ।
एतैः संयुज्यते यो ऽन्यः पतितैः सह पञ्चमः ॥

2.7.9

नारीपुरुषहन्ता च कन्यादूषी गवां च हा ।
चत्वारः पतिता प्रोक्ता यथा वै ब्रह्महादयः ।
उपपातकास्त्वसंख्यातास् ते च गोघ्नादयस्तथा ॥

मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc