भाषा

ENहिગુ
ग्रंथ पाठ

आङ्गिरसस्मृति · अध्याय 2.6

2.6.1

पणे तु पर्षपकल्पस्य कल्पस्य परिषद्बलम् ।
कारिणश्चाप्युपस्थानं बलं सम्यङ्निवेदितम् ॥

2.6.2

अकल्पा परिषद्यत्र कल्पो वा परिषद्विना ।
कार्यं वाप्यन्यथोक्तं वा शुद्धिस्तत्रास्य दुर्लभा ॥

2.6.3

परिषत्कल्पतो कार्या यथा सर्वे बलीयसः ।
भवन्ति न तथा पापं तस्मिन् योगे ऽवतीर्यते ॥

2.6.4

एवमेतत्समासाद्य तद्योगं च प्रणश्यति ।
महत्यां चाम्भसि क्षिप्तं यथाल्पलवणं तथा ॥

2.6.5

एतद्योगप्रधानाय कार्याणि परिशोधने ।
तद्द्रव्यं कर्णसंयोगाद् वक्त्राणामिव शोधने ॥

2.6.6

यत्पापं शाम्यमानस्य कर्तुर्धर्मेण शास्त्रतः ।
तद्वद्वच्छति कार्त्स्न्येन भागशः प्रब्रवीमि ते ॥

2.6.7

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अन्तःप्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥

2.6.8

गुरू राजा यमो वापि शास्ता धर्मेण युज्यते ।
शास्ता समुच्यते पापाद् आहतो भयतः शुभम् ॥

2.6.9

प्रायश्चित्ते यदा चीर्णे ब्राह्मणे दग्धकिल्बिषे ।
धर्मं पृच्छामि तत्त्वेन तत्पापं क्व नु तिष्ठति ॥

2.6.10

नैव गच्छति कर्तारं नैव गच्छति पार्षदम् ।
मारुतार्कांशुसंयोगाज् जलवत्संप्रशीर्यते ॥

2.6.11

तेषां त्रेताग्निना दग्धं पावकस्य तु धीमतः ।
नश्यते नात्र संदेहः सूर्यदृष्टिर्हिमं यथा ॥

2.6.12

प्रब्रूयात्पक्षतो यच्च बाह्यं यच्चापि पर्षदः ।
गच्छतस्तावुभौ मूढौ नरकं तेन कर्मणा ॥

2.6.13

अजानन् यस्तु विब्रूयाज् जानन्वाप्यन्यथा वदेत् ।
उभयोर्हि तयोर्दोषः पक्षयोरुभयोरपि ॥

2.6.14

अजानानां च दात्ःणाम् अदत्ःणां च जानताम् ।
एवं भवेन्महादोषस् तस्माज्ज्ञात्वा वदेत्सदा ॥

2.6.15

यत्तु दत्तमजानद्भिः प्रायश्चित्तं समागतैः ।
तत्पापं शतधा भूत्वा दात्ःनेवोपतिष्ठति ॥

2.6.16

ये तु सम्यक्स्थिता विप्रा धर्मवेदाङ्गपारगाः ।
शक्तास्ते तारणे तेषाम् आत्मनो ऽनुग्रहस्य च ॥

मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc