आङ्गिरसस्मृति · अध्याय 2.5
चातुर्वेद्यो विकल्पी चे अङ्गविद्धर्मपाठकः ।
त्रयश्चाश्रमिणो मुख्या पर्षदेषा दशावरा ॥
चतुर्णामपि वेदानां पारगा ये द्विजोत्तमाः ।
स्वैः स्वैरङ्गैर्विनाप्येते चातुर्वेद्या इति स्मृताः ॥
धर्मम्य पर्षदश्चैव प्रायश्चित्तक्रमस्य च ।
त्रयाणां यः प्रमाणज्ञः स विकल्पी भवेद्द्विजः ॥
शब्दे छन्दसि कल्पे च शिक्षायां चैव निश्चयः ।
ज्योतिषामयने चैव सनिरुक्ते ऽङ्गविद्भवेत् ॥
वेदविद्याव्रतस्नातः कुलशीलसमन्वितः ।
अनेकधर्मशास्त्रज्ञः पठ्यते धर्मपाठकः ॥
ब्रह्मचर्याश्रमादूर्ध्वम् आश्रमाद्वृद्ध उच्यते ।
एषामेव तु वृद्धानां य एते संप्रकीर्तिताः ॥
परिषद्ब्राह्मणानां च राज्ञां सा द्विगुणा स्मृता ।
वैश्यानां त्रिगुणा चैव पर्षद्वच्च व्रतं स्मृतम् ॥
ब्राह्मणो ब्राह्मणानां तु क्षत्रियाणां तु पाठकः ।
वैश्यानां चैव यो प्रष्टा त एव व्रतदाः स्मृताः ॥
अगुरुः क्षत्रियाणां तु वैश्यानां चाप्ययाजकः ।
प्रायश्चित्तं समादिश्य तप्तकृच्छ्रं समाचरेत् ॥
एवमुद्दिश्य वर्णेषु क्षत्रियादिषु दर्शनम् ।
प्रवृत्तानां तु वक्ष्यामि प्रायश्चित्तमनुत्तमम् ॥
शूद्रः कालेन शुध्येत गोब्राह्मणहिते रतः ।
दानैर्वाप्युपवासैर्वा द्विजशुश्रूषणे रतः ॥
अपि वा मार्गमालम्ब्य क्षत्रधर्मेषु तिष्ठतः ।
अन्तरा ब्राह्मणं कृत्वा ततो ऽस्य व्रतमादिशेत् ॥
तस्माच्छूद्रं समासाद्य तथा धर्मपथे स्थितः ।
प्रायश्चित्तं प्रदातव्यं धर्मवेदविवर्जितम् ॥
आपन्नो येन वा धर्मो व्रतं वा येन तुष्यति ।
ब्राह्मणानां प्रसादेन संतार्यः सर्व एव हि ॥
मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0