आङ्गिरसस्मृति · अध्याय 2.4
प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयोगात् प्रायश्चित्तमिति स्मृतम् ॥
प्रायश्चित्तसमं चित्तं चारयित्वा प्रदीयते ।
पर्षदा क्रियते यत्तत् प्रायश्चित्तमिति स्मृतम् ॥
चत्वारो वा त्रयो वापि वेदवेदाग्निहोत्रिणः ।
ये तु सम्यक्स्थिता विप्राः कार्याकार्यविनिश्चिताः ॥
प्रायश्चित्तप्रणेतारः सप्तैते परिकीर्तिताः ।
एकविंशतिभिश्चान्यैः पार्षदत्वं समागतैः ॥
सावित्रीमात्रसारैस्तु चीर्णवेदव्रतैर्द्विजैः ।
यतीनामात्मविद्यानां ध्यायिनामात्मवेदिनाम् ।
शिरोव्रतैश्च स्नातानाम् एको ऽपि परिषद्भवेत् ॥
एवं पूर्वं मयाप्युक्तं तेषां ये ये परे परे ।
स्ववृत्या परितुष्टानां परिषत्त्वमुदाहृतम् ॥
एषां लघुषु कार्येषु मध्यमेषु च मध्यमा ।
महापातकचिन्तासु शतशो भूय एव वा ॥
अत ऊर्ध्वं तु ये विप्राः केवलं नामधारकाः ।
परिषत्त्वं न तेष्वस्ति सहस्रगुणितेष्वपि ॥
जन्मशारीरविद्याभिर् आचारेण श्रुतेन च ।
धर्मेण च यथोक्तेन ब्राह्मणत्वं विधीयते ॥
चित्रकर्म यथानेकैर् अङ्गैरुन्मील्यते शनैः ।
ब्राह्मण्यमपि तद्वत्स्यात् संस्कारैर्मन्त्रपूर्वकैः ॥
मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0