भाषा

ENहिગુ
ग्रंथ पाठ

आङ्गिरसस्मृति · अध्याय 2.12

2.12.1

अत ऊर्ध्वं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ।
यमधीत्य विमुञ्चन्ति श्रुत्वा स्मृत्वा च वै द्विजाः ॥

2.12.2

सदा त्रिषवणं स्नायात् सकृत्स्नात्वा पयः पिबेत् ।
प्रातः स्नात्वा समारम्भं कुर्याज्जप्यं तु नित्यशः ॥

2.12.3

सावित्रीं व्याहृतीं वापि जपेदष्टसहस्रकम् ।
ओंकारमादितः कृत्वा रूपे रूपे तथान्तरम् ॥

2.12.4

स्थानं वीरासनं शक्तः कुर्यादासनमेव वा ।
आसनं शल्यविद्धं स्याद् अमधःशायी भवेत्सदा ॥

2.12.5

गव्यस्य पयसो ऽलाभे गव्यमेव भवेद्दधि ।
दध्यभावे भवेत्तक्रं तक्राभावे तु यावकम् ॥

2.12.6

एषामन्यतमं यच्चाप्य् उपपद्येत तत्पिबेत् ।
गोमूत्रेण तु संयुक्तं यावकं तत्पिबेद्द्विजः ॥

2.12.7

एतत्तु विहितं पुण्यं कृच्छ्रमङ्गिरसा स्वयम् ।
प्रणवात्त समारम्भो नाम्ना वज्रमिति स्मृतम् ॥

2.12.8

एतत्पातकयुक्तानां प्रायश्चित्तं विधीयते ।
महापातकसंयुक्ता वर्षैः शुध्यन्ति ते त्रिभिः ॥

2.12.9

अथोपपातकाश्चिन्त्यास् तथा कालं समादिशेत् ।
कालस्य तु यथोक्तस्य ब्राह्मणस्तत्र कारणम् ॥

2.12.10

ब्राह्मणा एव च क्षेत्रं ब्राह्मणा एव दैवतम् ।
ब्राह्मणानां प्रसादेन सूर्यो दिवि विराजते ॥

2.12.11

न ब्राह्मणसमं क्षेत्रं न ब्राह्मणसमो ऽनलः ।
विधिर्न ब्राह्मणादूर्ध्वं न दैवं ब्राह्मणात्परम् ॥

2.12.12

जपतां जुह्वतां चैव यच्छतो च सतामपि ।
क्षेत्रो ऽग्नेस्तु सुसंभूतो ब्राह्मणो ऽद्य विशिष्यते ॥

2.12.13

न स्कन्दते न व्यथते न विनश्यति कर्हिचित् ।
वरिष्ठमग्निहोत्रेभ्थो ब्राह्मणस्य मुखे हुतम् ॥

2.12.14

देवनापितृभूतानां काचिद्भवति कस्यचित् ।
ब्राह्मणे देवताः सर्वाः स च सर्वस्य देवता ॥

2.12.15

यो हि यां देवतामिच्छेद् आराधयितुमव्ययम् ।
सर्वोपायप्रयत्नेन तोषयेद्ब्राह्मणान् सदा ॥

2.12.16

समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलक्ष्मकेतवः ।
अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥

मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc