भाषा

ENहिગુ
ग्रंथ पाठ

आङ्गिरसस्मृति · अध्याय 1

1.1

पावकप्रतिमं साक्षान् मुनिमाङ्गिरसं द्विजाः ।
ब्रूहि धर्मानशेषान्नं इत्यूचुः प्रणिपत्य तम् ॥

1.2

तेभ्यः स तु ततः प्रीत्या शृणुध्वमिति चाफणत् ।
वच्मि तानखिलान् धर्मान् वैदिकान् मुक्तये परान् ॥

1.3

धर्मः स्याच्चोदना प्रोक्तस् तदन्यस्तूपचारतः ।
लिङादिरूपा सा ज्ञेया मुक्तिदा श्रुतिचोदिता ॥

1.4

श्रुत्युक्तलिङ्लोट्तव्यप्र त्ययलक्षणलक्षिता ।
चोदना सैव नान्या सा पुराणस्मृतिचोदिता ॥

1.5

न वैदिकः पुराणोक्तैः कर्माणि मनुभिश्चरेत् ।
वेदोक्तैरेव तैर्मन्त्रैर् निखिलानि समाचरेत् ॥

1.6

कर्ममध्ये पुराणोक्त मन्त्रोच्चारणमात्रतः ।
नश्येत्तु वैदिकं कर्म तस्मात्तु न तथाचरेत् ॥

1.7

पुराणोक्तेष्वेषु सत्सु लौकिकेषु तथाचरेत् ।
मन्त्राभावे तु सर्वत्र स्मृता व्याहृतयः किल ॥

1.8

अन्वये लिङ्गतो ऽर्थाद्वा विरोधाभावतः परे ।
तत्तन्मन्त्रा संभवन्ति तेषु तेषु तु कर्मसु ॥

1.9

प्रायश्चित्तं दृश्यते नं यत्र कुत्रापि तत्र वै ।
तस्यैतत्कथितं दिव्यं प्रायश्चित्तं महत्तरम् ॥

1.10

पुण्या व्याहृतयश्चेति सा ऋग्वा वैष्णवी शिवा ।
सर्वपापप्रशमनी चिन्तितार्थैकदायिनी ॥

1.11

प्रायश्चित्तक्रियाहेतोर् निर्णीता विष्णुना पुरा ।
न व्याहृतिसमो मन्त्रो न व्याहृतिसमो जपः ॥

1.12

न व्याहृतिसमस्तीर्थो न व्याहतिसमं तपः ।
न व्याहतिसमो यज्ञो न व्याहृतिसमाः क्रियाः ॥

1.13

तस्मात्सर्वत्र ता दृष्टाः प्रायश्चित्ताय केवलम् ।
तस्माद्वैदिककृत्यानां लौकिकानामशेषतः ॥

1.14

प्रमादाकरणे कृत्स्ने तत्त्यागे बुद्धिपूर्वके ।
अज्ञानिनां ज्ञानिनां च पावकास्तारकाः पराः ॥

1.15

उत्तारका व्याहृतयो ऋचा युक्तास्तया पुनः ।
कर्मणो ऽकरणे जात नाम्नोर्व्याहतयः स्मृताः ॥

1.16

दिनैकसाध्याः कथितास् तथा नामाख्यकर्मणः ।
तथान्नप्राशनस्यापि चौलस्याकरणे ततः ॥

1.17

दिवसद्वयसाध्या याः परा व्याहृतयः स्मृताः ।
पश्चान्मौञ्जी प्रकर्तव्या मौञ्ज्यास्त्वकरणे तथा ॥

1.18

मुख्यकाले षोडशाब्द पर्यन्तं दशमादितः ।
दिनत्रयचतुष्पञ्च षट्सप्ताष्टनवादिकाः ॥

1.19

रात्रयः कथितास्तस्य तज्जपस्तस्य निष्कृतिः ।
किमन्येषां कर्मणां तु यस्य नास्ति हि निष्कृतिः ॥

1.20

तस्यैताः कथिताः सद्भिः सततं वेदवादिभिः ।
जप्त्वैता व्याहृतीर्दिव्याः प्रायश्चित्ताय केवलम् ॥

1.21

परिपूताः ततः सद्यस् तत्तत्कर्म समारभेत् ।
पाकारम्भसमारम्भः श्राद्धमात्रस्य संततम् ॥

1.22

प्रभवेद्धि विशेषेण संकल्पस्तु न तस्य वै ।
यदि दैवाद्यत्नमध्ये भवेत्सूतकमृत्विजाम् ॥

1.23

तत्क्रियाकरणे तत्तु न तेषां वारकं भवेत् ।
तत्क्रियार्थं प्रथमतः स्नात्वा सम्यक् समन्त्रकम् ॥

1.24

तत्क्रियामथ कुर्वीत तावत्तेषां न सूतकम् ।
कर्मकाले तदाशौचं सद्यो विलयमेति वै ॥

1.25

वृत्ते कर्मणि भूयश्च तदुदेति स्वयं पुनः ।
श्राद्धे पाकसमारम्भे वृत्ते ऽथ निपतेच्छवम् ॥

1.26

तद्वीथ्यां तेन तच्छ्राद्धं दूषितं न भवेदपि ।
पाकारम्भस्य पूर्वं तत् प्रभवेच्छ्राद्धवारकम् ॥

1.27

शवं वीथ्यां निपतितं पाकारम्भात्परं तु न ।
उपक्रान्तस्य तस्यास्य सूतकं यदि मध्यतः ॥

1.28

अप्यागतं तेन तद्धि वारितं न भविष्यति ।
तस्माच्छ्राद्धमुपक्रान्तं सूतके ऽपि तथाचरेत् ॥

1.29

आतर्पणं विधानेन पाकस्यारम्भतो ऽखिलम् ।
सर्वेषां व्रतकृछ्राणां वारकं श्राद्धमेककम् ॥

1.30

तस्यापि वारको यागः पौर्णमासश्च दार्शिकः ।
पौर्णमासं च दर्शं च पशुबन्धं च तद्दिने ॥

1.31

समागतं समाप्यादौ पश्चाच्छ्राद्धं समाचरेत् ।
पितृक्रियादिनप्राप्त यागानुष्ठानतो ऽखिलाः ॥

1.32

वसवश्चापि रुद्राश्चाप्य् आदित्याश्चैव कृत्स्नशः ।
तद्रूपाः पितरः सर्वे सर्वे चापि पितामहाः ॥

1.33

नित्यतृप्ता भवेयुर्वै निखिलाः प्रपितामहाः ।
दीक्षाप्राप्त्या तु भूयिष्ठा तृप्तिस्तेषां भविष्यति ॥

1.34

प्रत्यब्दमासस्तन्मास दीक्षा या न भविष्यति ।
प्रत्यब्दमपि पित्रोस्तन् न पितृव्यादिकं मतम् ॥

1.35

महादीक्षामध्यगतं गतमेव भविष्यति ।
महादीक्षागतस्यास्य तदन्ते करणं ननु ॥

1.36

दीक्षामहत्यस्ता ज्ञेयाश् चतुर्विंशद्दिनाधिकाः ।
तिस्रस्ताभ्यस्तु या न्यूनास् त्रिषडादिदिनात्मकाः ॥

1.37

खर्वात्मकास्ता विज्ञेयास् तन्मध्यगतपैतृकम् ।
यद्वा तदन्ते तत्कार्यम् अन्यत्कबलितं तया ॥

1.38

महत्या दीक्षया कर्म सत्रेष्वेवं गतं गतम् ।
न कार्यमिति वाच्यं किं दीक्षावृद्धौ कथंचन ॥

1.39

संप्राप्तमपि तच्छ्राद्धम् अवशाद्दैवयोगतः ।
तदन्त एव कुर्वीत तस्या अपि पुनः कदा ॥

1.40

दैवयोगेन चिद्वृद्धेर् महत्त्वं चेत्समागतम् ।
कारणान्तरसंगत्या तदन्ते चेत्कृताकृतम् ॥

1.41

तच्छ्राद्धं भवतीत्याहुर् दीक्षामध्यमृतानपि ।
न संस्कुर्यान्नापि पश्येत् संस्कुर्यात्तद्व्यतिक्रमे ॥

1.42

कर्मणो वैदिकस्यैवं प्राबल्यं प्रतिपादितम् ।
ब्रह्मविद्भिर्महाभागैर् धर्मज्ञैस्तत्त्वदर्शिभिः ॥

1.43

दानतीर्थव्रतादिभ्यः कृछ्रेभ्यो ऽपि विशिष्यते ।
वैदिकं तु महत्कर्म वैदिकं प्रभवेत्ततः ॥

1.44

शुद्धः सन्नेव कुर्वीत वैदिकं कर्म नाशुचिः ।
आशौचादशुचित्वं हि ब्राह्मणानां भविष्यति ॥

1.45

सूत्याशौचे मृताशौचे वैदिकं कर्म नाचरेत् ।
अस्पृश्यत्वं न सूत्यां स्याद् आशौचे तु भवेद्धि तत् ॥

1.46

उभयोर्भोजनं कुर्यान् महागुरुनिपातने ।
अहोरात्रं भुक्तिहैन्यं सर्वेषामपि तन्मतम् ॥

1.47

अकालभुक्तिराशौचे सूत्याशौचे न तन्मतम् ।
संध्यामात्रं प्रकुर्वीत तयोर्मानसमन्त्रतः ॥

1.48

एकद्वित्रिचतुर्नारी नष्टाशौचस्य चेत्पुनः ।
आशौचे वर्तमानस्य संघाताशौचिनस्ततः ॥

1.49

साक्षादन्नस्य मुक्तिर्न संध्या सा स्याज्जले क्रिया ।
शतज्ञातिगतग्राम वासिनः संतताघिनः ॥

1.50

सूतकान्ते पुनःप्राप्त सूतकस्य निरन्तरम् ।
अब्दं दृष्ट्वा ततो यत्नात् त्यक्त्वा तं ग्राममादरात् ॥

1.51

सद्यो देशान्तरे पित्रोः श्राद्धं कार्यमिति स्थितिः ।
यदा परंपराघो ऽस्य जायते श्राद्धवारकः ॥

1.52

तदा संवत्सरं दृष्ट्वा सद्यो देशान्तरं व्रजेत् ।
यदि विघ्नो न जायेत श्राद्धस्याथ तथा तदा ॥

1.53

श्राद्धं तत्रैव कुर्वीत धृतयज्ञोपवीतवान् ।
एकदैव समाक्रान्तः सूतकत्रयतो यदि ॥

1.54

एकाशौचेन वा पश्चाद् यज्ञसूत्रं तु बिभृयात् ।
यज्ञसूत्रविहीनः स्याद् अनर्हः सर्वकर्मसु ॥

1.55

अभावे तस्य सूत्रस्य चेलं वाजिनमेव वा ।
धारयति विधानेन न मन्त्रस्तत्र विद्यते ॥

1.56

सूत्रस्यैव भवेन्मन्त्रः शिखाहीनश्च तादृशः ।
शत्रुच्छिन्नशिखः सद्यो बिभ्रन् कर्णे शुचिर्यतन् ॥

1.57

समगोपुच्छलोमानि प्राजापत्यप्रपूर्वकम् ।
पुनःसंस्कारतः शुद्धः प्रभवेन्नात्र संशयः ॥

1.58

मध्यच्छिन्ना यदा चूडा प्राजापत्येन शुध्यति ।
शिखाया रोगतो नाशे कृत्स्नायाः संकटे ऽपि वा ॥

1.59

अवशाद्वह्नितो वापि पुनःसंस्कार एव हि ।
शिखारोहणतः पश्चान् न तत्पूर्वं समाचरेत् ॥

1.60

तावद्गोपुच्छलोमानि धार्याण्येव विधानतः ।
यथावत् सा तु न भवेद् वार्धकेण च रोगतः ॥

1.61

सप्तत्यूर्ध्वं तु चेत्तस्याः पूर्वतः पृष्ठतो ऽपि वा ।
पार्श्वतः परितो वापि समुद्भूतैश्च रोमभिः ॥

1.62

शिखा कार्या प्रयत्नेन न चेन्नैवोपपद्यते ।
तत्स्थाने सर्वशून्ये तु परितो वापि किं पुनः ॥

1.63

ब्राह्मण्यसूचनायैवं तानि लोमानि धारयेत् ।
अन्यथा न भवेदेव तथा तस्मात्समाचरेत् ॥

1.64

एवं वर्षाष्टके ऽतीते तार्तीयीकाश्रमं व्रजेत् ।
शिखा सूत्र च तद्युग्मं ब्राह्मणत्वस्य मूलके ॥

1.65

यया कया च विधया शिखां सूत्रं च बिभृयात् ।
शिखाच्छेदो पञ्चवारं यदि जायेत शत्रुभिः ॥

1.66

ब्राह्मण्यं तस्य नष्टं स्यात् पुनःसंस्कारतो ऽपि तत् ।
श्राद्धविघ्ने समुत्पन्ने सन्ततं सूतकादिना ॥

1.67

अकृत्वैव तदा श्राद्धं नोपेयाच्च स्त्रियं तराम् ।
तदा यद्याहितो गर्भो ब्रह्महत्याव्रतं चरेत् ॥

1.68

तदा सकृत्सन्निपाते प्राजापत्यत्रयं चरेत् ।
असकृद्गमनाच्चापा ग्रयानं च समाचरेत् ॥

1.69

तस्योपनयनं भूयश् चोदितं ब्रह्मवादिभिः ।
प्रविष्टपरकायो यः स्वभार्या तेन वर्ष्मणा ॥

1.70

नोपेयात्तत्प्रविष्टः सन् नोपेयात्तस्य तामपि ।
तादृशं कर्म कुर्याच्चेत् तत्कुलं स्वकुलं च ते ॥

1.71

आत्मानं पातयेद्धोरे नरके रौरवाभिधे ।
नष्टे त्रिप्रायके श्राद्धे पूर्वस्मिन् हविषि क्वचित् ॥

1.72

तदा पुनस्तत्संपाद्य हुत्वा प्राणादिभिश्चरुम् ।
द्वात्रिशदाहुतेः पश्चात् तच्छेषेण समापनम् ॥

1.73

यत्तत्त्रिप्रायकं श्राद्धं तस्यागूश्च समापनम् ।
अपराह्ने च मध्याह्ने सद्यः पक्वं भवेद्धि वै ॥

1.74

पृथक् पाकात्तस्यं भुक्तिर् द्वितीये तत्र नैव सा ।
विप्राणां भुक्तिमात्रं स्याद् आभान्त्येतत्समाचरेत् ॥

1.75

संभान्त्यथ मृताहस्य समारम्भो विधीयते ।
सर्वशेषं समादाय पिण्डास्त्रीनव निर्वपेत् ॥

1.76

अवशिष्टं प्राशयेच्च त्रिप्रायकविधौ तथा ।
यत्नान्महाभीतिमति पश्चात्स्याद्भूरिभोजनम् ॥

1.77

अर्वाक्तु लाजहोमस्य वधूर्यदि रजस्वला ।
हविष्मतीति मन्त्रेण शतकुम्भैर्विधानतः ॥

1.78

स्नापयित्वा विधानेन वस्त्राभ्यां संपरीत्यतः ।
नत्वा द्विवारं यत्नेन युञ्जानाहुतियुग्मकम् ॥

1.79

पृथगग्नौ स्थापिते ऽथ जुहुयात्संस्कृतं घृतम् ।
पश्चात्तन्त्रं प्रयोक्तव्यम् आब्राह्मणविसर्जनम् ॥

1.80

योक्त्रं विमुच्य तां पत्नीं दूरतस्तु विनिक्षिपेत् ।
पश्चाच्चतुर्थदिवसे स्नातायां समनन्तरम् ॥

1.81

प्रवाहनादिकर्माणि विधिनैव समाचरेत् ।
उभयोस्तु तदा नित्यं विधिना स्यात्पयोव्रतम् ॥

1.82

तदौपासनहोमः स्यात् समारम्भात्तु तन्मतम् ।
लाजहोमात्परं सा चेत् तदा तत्स्नानतः परम् ॥

1.83

अर्वाक्तु शेषहोमस्य तूष्णीकं मन्त्रवर्जितम् ।
वस्त्रद्वयं प्रदायास्यै ताभ्यामाच्छाद्य तत्परम् ॥

1.84

अपावृत्ते तृतीये च दिवसे ऽथ चतुर्थके ।
अह्नि द्वितीययामे वै शतकुम्भैरमन्त्रितैः ॥

1.85

अभिषेकं कारयित्वा शेषं कर्म समाचरेत् ।
औपासने त्वनारब्धे द्वितीयदिवसे यदि ॥

1.86

रजस्वला तदा तस्यै हविष्मन्मन्त्रसेचनात् ।
परं वस्त्रद्वयं दत्वा तूष्णीकं मन्त्रवर्जनात् ॥

1.87

ताभ्यामाच्छाद्य तत्पश्चात् सहस्रैरुदकुम्भकैः ।
चतुर्थदिवसे कुर्याद् अभिषेकं समन्त्रकैः ॥

1.88

पञ्चगव्यस्तिलैः श्वेतैः सर्षपैः सर्वधान्यकैः ।
व्याहृत्या चैव गायत्र्या हुनेदष्टोत्तरं शतम् ॥

1.89

अष्टोत्तरसहस्रं चेत् सर्वदोषहरं परम् ।
आयुष्यसूक्तं हुत्वाथ चरुणा लाजतो ऽपि वा ॥

1.90

होमशेषं समाप्याथ कर्मशेषं समापयेत् ।
पश्चाच्छुद्धिमवाप्नोति कर्मणस्तस्य केवलम् ॥

1.91

तत्पञ्चमे ऽथ दिवसे त्वौपासनपरिग्रहः ।
तयाथं संगमो मासाद् गर्भाधानविधानतः ॥

1.92

तद्गृहक्षेत्रमनसां परस्परविरोधतः ।
निरुद्धप्रेतकृत्यानां सूतकं तत्समापनात् ॥

1.93

निरुद्धप्रेतकृत्या ये तद्द्रव्यहरणेच्छया ।
तत्समापनपर्यन्तं तेषां तत्सूतकं भवेत् ॥

1.94

तत्समापनपर्यन्तं न कुर्युः शुभकर्म च ।
नित्यं नैमित्तिकं काम्यं ब्रह्मयज्ञादिकं तथा ॥

1.95

न स्वाध्यायं न वा होमं न सभायाः प्रवेशनम् ।
कुर्वीत मनसा संध्यां न स्वादूनि च भक्षयेत् ॥

1.96

तानि कुर्यात्तु मोहेन स प्रेतो न सहिष्यति ।
शापं घोरं ददात्येव तस्मात्तत्कृत्यरोधनम् ॥

1.97

मनसापि न कुर्वीत तच्चाण्डालं प्रकीर्तितम् ।
कृत्यं घोरं हि दुष्टं तत् तादृशं न तदाचरेत् ॥

1.98

अत्यन्यायमतिद्रोहम् अतिक्रौर्यं कलावपि ।
अत्यक्रमं चात्यशास्त्रं न कुर्यान्न च कारयेत् ॥

1.99

यदि कुर्वीत मोहेन सद्यो विलयमेष्यति ।
कर्ता कारयिता चापि प्रेरकश्च निरोधकः ॥

1.100

तत्सहायश्च सर्वे ते लयमेष्यन्ति सत्वरम् ।
गृहक्षेत्रादिकं सर्वं न नित्यं शुभकारिणः ॥

1.101

तन्निमित्तमिदं रूपं पापं मर्त्यो न चाचरेत् ।
आगामिसूतकं ज्ञात्वा समुपक्रान्तकर्मणः ॥

1.102

अङ्गापकर्षणं नैव कुर्यादिति मनोर्मतम् ।
समागते सूतके ऽपि समुपक्रान्तकर्मणः ॥

1.103

अङ्गानि तत्तत्कालेषु कुर्यात्तत्र न सूतकी ।
भवेदेव तदा सद्यो गते तस्मिन् पुनस्तथा ॥

1.104

अपि जीवत्पिता पिण्ड पितृयज्ञं समाचरेत् ।
मासि श्राद्धं तथा होमाद् अष्टकां पितृयज्ञतः ॥

1.105

पितुर्वियोगात्परतः पिण्डदानं समाचरेत् ।
तेनायं श्राद्धकर्ता स्यान्न मातुः पिण्डदानतः ॥

1.106

जीवे पितरि चेच्छ्राद्धे प्राप्ते नैमित्तिके यदि ।
येभ्य एव पिता दद्यात् तेभ्यो दद्यात्तु तत्सुतः ॥

1.107

एवं पितामहे जीवे येभ्यो दद्यात् स हि स्वयम् ।
तेभ्यो दद्यात्तु तत्पौत्रस् तथा स्यात्प्रिपितामहे ॥

1.108

संन्यस्ते पतिते ताते भ्रान्तचित्ते चलात्मनि ।
तत्कर्तृकाणि श्राद्धानि स्वयं पुत्रः समाचरेत् ॥

1.109

तत्तत्कालेषु विधिवच् छ्राद्धकर्ता न तेन सः ।
तेषामकरणात्सो ऽयं सद्यश्चण्डालतां व्रजेत् ॥

1.110

श्राद्धाधिकारी पिण्डस्य दानमात्रेण जायते ।
ऋत्विक्त्वेन वृते तस्मिन् न तु कर्ता भवेदयम् ॥

1.111

पितुः पिण्डप्रदानेन श्राद्धकर्ता भवेदयम् ।
श्राद्धाधिकारसिध्यर्थं कुर्यादेकादशे ऽहनि ॥

1.112

पार्वणं तद्विधानेन पितुः सिद्धेरनन्तरम् ।
कर्मन्दी ब्रह्मभूतस्य तदा तस्मिन्नियोजयेत् ॥

1.113

प्रतिसंवत्सरं सिद्धि दिने श्राद्धं समाचरेत् ।
पश्चादाराधनं कुर्यात् तस्मिन्नो चेत्परे ऽहनि ॥

1.114

ब्रह्मभूतस्य तस्यास्य सर्वदेवादिरूपिणः ।
संगच्छते पितृत्वं च तेन रूपेण तं तथा ॥

1.115

तस्मिन् श्राद्धदिने भक्त्या यजेदेव विधानतः ।
तादृक् तद्यजनं चास्य श्राद्धनामककर्मणः ॥

1.116

अधिकारित्वसिध्यर्थं तस्मात्तेनैव तं यजेत् ।
न मातरं पितृत्वेन यजेत तु कथंचन ॥

1.117

पितृत्वं मातरि गतम् एकशेषजमल्पकम् ।
यथा न तत्कार्यकरं मातृत्वमपि तत्तथा ॥

1.118

पितृव्यपत्न्यादीनां स्यात् तादृक्पत्नीत्वमेव हि ।
तासां भवति तस्मात्तु न तन्मातृत्वमुच्यते ॥

1.119

पितृत्वमपि मातृत्वं दानतो नाशमेष्यतः ।
तत्कर्मणि पुनः प्राप्ते जननीत्वादिना भवेत् ॥

1.120

पितृत्वमपि मातृत्वम् एकत्रैव हि तिष्ठति ।
न तिष्ठति तदन्यत्र क्रियाशतसहस्रकात् ॥

1.121

गौणमातरि मातृत्वं पुरस्कृत्यार्थलोभतः ।
समुच्चार्य क्रियां कुर्यान् न सा तद्गा भवेद्ध्रुवम् ॥

1.122

लोभान्मातृत्वमन्यासु यदि निक्षिप्य मोहतः ।
क्रियां कुर्याज्जडमतिः सद्यश्चण्डालतां व्रजेत् ॥

1.123

अतस्मिन् तत्त्वमारोप्य संस्कुर्याद्यदि कामतः ।
निष्फलं याति तत्कर्म सो ऽपि पातित्यमाप्नुयात् ॥

1.124

पितृत्वं जनितर्येव मुख्यतो ऽन्यत्र गौणतः ।
तत्पुरस्कृत्य चेत्कर्म कृतमन्यैः पुनः क्रियां ॥

1.125

विहितेनैव पुत्रत्वं स्वीकारेण न चान्यतः ।
समवाप्नोति बन्धूनां राजविद्वदनुज्ञया ॥

1.126

भ्रातृजो वाक्यतः पित्रोर् ज्यैष्ठ्यकानिष्ठ्यवर्जितः ।
पुत्रत्वं समवाप्नोति कृतदारः कृतक्रियः ॥

1.127

सो ऽप्येकश्चेदवाप्नोति नोभयोस्तु तथा विधिः ।
जनितुर्मुख्यसूनुः स्याद् अन्यस्य गुणतः सुतः ॥

1.128

मातुलत्वपितृव्यत्व सुतत्वाद्यनुबन्धकम् ।
मुख्यतो यस्य यद्वा स्यात् तदुद्दिश्यैव तत्क्रिया ॥

1.129

मुख्यानुबन्धं त्यक्त्वा यः कर्म कुर्यात्प्रमादतः ।
पितृव्यादिकमुच्चार्य पुनः कुर्यात्तु तां क्रियाम् ॥

1.130

गोत्रनामानुबन्धानां व्यत्यासेनाप्यनेहसः ।
यदि कुर्यात्क्रियां तां वै पुनः कुर्याद्यथाविधि ॥

1.131

उपनीतस्तु चेदुप नेतृत्वेनैव तत्क्रिया ।
विद्यादत्वेन तद्दातुर् भक्तदत्वेन तत्प्रदे ॥

1.132

भयपत्वेन भयपे पितृव्यत्वेन तादृशे ।
तत्तदुच्चारणं कृत्वा तत्तत्कर्म समाचरेत् ॥

1.133

तदन्यथाकृतं तच्चेत् सम्यग्भूयः समाचरेत् ।
मुख्यकर्त्रसमीपे ऽन्यो न कुर्यात् स्वानुबन्धतः ॥

1.134

तत्प्रेष्यत्वेन कुर्वीत प्रेषितस्तेन वै वृतः ।
अवृतस्तेन तत्प्रेष्य त्वेन तद्दूरगे सति ॥

1.135

कृतं चेत्कर्म तद्भूयः संकल्पादि समाचरेत् ।
वाङ्मात्रदत्तपुत्रस्तु कृतदारः कृतक्रियः ॥

1.136

ग्राहकस्य न कुर्वीत दर्शादि न कदाचन ।
तत्पत्न्यास्तस्य च श्राद्ध मात्रं सम्यक् समाचरेत् ॥

1.137

प्रतिवर्षं प्रयत्नेन न दर्शादिकमाचरेत् ।
सतामेव हि बन्धूनां कर्म कुर्यात् प्रयत्नतः ॥

1.138

भ्रष्टानामपि तुच्छानां पतितानां विकर्मिणाम् ।
न कुर्वीत क्रियां यत्नाद् अपि स्नानं समाचरेत् ॥

1.139

असतां पतितानां च भस्मान्तं सूतकं स्मृतम् ।
जातिभ्रष्टानकर्मिष्ठान् पतितान् मातरं सुतम् ॥

1.140

पितरं भ्रातरं पत्नीं पतिमेव मिथो ऽसतः ।
त्यजेद्घटप्रहारेण नान्यानेवं समाचरेत् ॥

1.141

अनाथप्रेतसंस्काराद् अश्वमेधफलं लभेत् ।
प्रेतनिर्वापणं प्रोक्तम् अत्र संस्कारशब्दतः ॥

1.142

अकृत्वा प्रेतसंस्कारं यो भुङ्क्ते कामकारतः ।
तत्प्रेतकृतपापौघं तत्क्षणाल्लभते ऽखिलम् ॥

1.143

तद्दोषशमनायाथ चापाग्रे स्नानमाचरेत् ।
मासमात्रं प्रयत्नेन न चेदुक्थ्यं समाचरेत् ॥

1.144

विप्राभ्यनुज्ञया कुर्यात् कर्ममात्रं विशेषतः ।
पितृकृत्यं प्रेतकृत्यं तयोर्नो चेद्यतेरपि ॥

1.145

विप्रानुज्ञां यतिरपि लब्ध्वा स्नात्वार्द्रवस्त्रतः ।
प्रेतकृत्यं प्रकुर्वीत न चेत् कृत्यं तु तन्न तु ॥

1.146

अपि शास्त्रकृतं कर्म बहुविप्रामतं तु यत् ।
तदभ्यनुज्ञया तत्तु कर्मतः पुनराचरेत् ॥

1.147

बहुविप्रतिरस्कार प्रद्वेषागःप्रदूषितम् ।
तदभ्यनुज्ञारहितं यत्तत्कर्म पुनश्चरेत् ॥

1.148

यद्यकर्तृकृतं कर्म समीपे कर्तरि स्थिते ।
धनवृत्तिगृहक्षेत्र हेतवे तत्पुनश्चरेत् ॥

1.149

असगोत्रमपि प्रेतं दाहयेद्यः कथंचन ।
स चापि गोत्रिभिस्तुल्यो दशाहं सूतकी भवेत् ॥

1.150

मृताहस्य परित्यागे मोहात्कृछ्रद्वयं चरेत् ।
गायत्रीदशसाहस्र जपो गोदानमेव च ॥

1.151

एवं पञ्चत्रिंशवर्ष पर्यन्तं चित्तमुच्यते ।
पृथक्त्वेन महाभागैस् तदूर्ध्वं पतितो भवेत् ॥

1.152

महानदीस्नानशतं पित्रोस्त्यक्ते तु पैतृके ।
निष्कृतिः कथिता सद्भिः पुनःसंस्कारतस्तथा ॥

1.153

नदीस्नानानि सर्वत्र सर्वकृत्येषु वच्मि वः ।
निष्कृतित्वेन विप्राणां वेदिनामभ्यनुज्ञया ॥

1.154

न हि स्नानेन सदृशी निष्कृतिर्विहितास्ति हि ।
तस्मात्स्नानानि सर्वत्र तीर्थादिषु विशिष्यते ॥

1.155

श्रुतिपारायणं यद्वा व्याहृतीनां जपो ऽथवा ।
गायत्र्या वा जपो नो चेन् महारुद्रजपो ऽथवा ॥

1.156

पुरुषसूक्तजपो वापि संहितापठनं सकृत् ।
निष्कृतिर्विहिता सद्भिर् अपि पातकिनामपि ॥

1.157

वेदाक्षरोच्चारणतः सर्वनामफलं लभेत् ।
हरिनामानि यावन्ति पठितानि द्विजातिभिः ॥

1.158

असंख्याकान्यनन्तानि सर्वाविलहराण्यपि ।
तान्येकवेदवर्णः स्यात् तादृशैर्दिव्यवर्णकैः ॥

1.159

अमेयैः संवृतो वेदः साक्षान्नारायणात्मकः ।
तादृशस्यास्य वेदस्य पठनात् सर्वकिल्बिषैः ॥

1.160

सद्य एव विमुक्तः स्यात् पातकी नात्र संशयः ।
तादृशस्यास्य वेदस्य पठने ब्राह्मणस्य वै ॥

1.161

अधिकारो न चान्यस्य संस्कृतस्यैव कर्मभिः ।
तत्रापि परिशुद्धस्य कृतनित्यक्रियस्य वै ॥

1.162

तत्रापि परिशुद्धस्य विशेषेषु दिनेष्वपि ।
शुद्धाच्छुद्धः स्वतो वेदस् तदुच्चारणतः क्षणात् ॥

1.163

देवनामान्यनन्तानि निखिलान्यघहानि वै ।
असकृत्पठितानि स्युर् नात्र कार्या विचारणा ॥

1.164

स्नानं कृत्वा प्रारभेच्च वेदं तं तादृशं शिवम् ।
यद्यस्नात्वैव मोहेन प्रारभेत् पातकी भवेत् ॥

1.165

स्नानतः सर्वकर्माणि सिध्यन्त्येव न संशयः ।
स्नानमूलमिदं ब्राह्मं स्नानमूलमिदं तपः ॥

1.166

स्नानमूलाखिला यज्ञाः स्नानमूलमिदं जगत् ।
सर्वकृत्येवु सर्वत्र स्नानमेव परं मतम् ॥

1.167

कृत्स्नेष्वशुचिषु स्नानं तारकं परिकीर्तितम् ।
अस्पृश्यस्पर्शने चैवम् अभक्ष्याणां च भक्षणे ॥

1.168

सकलीकरणे चात्र मलिनीकरणे तथा ।
अपात्रीकरणे ऽन्यत्र जातिभ्रंशकरादिषु ॥

1.169

सूतकादिषु सर्वेषु सर्वेष्वाशौचकर्मसु ।
स्नानमेव परं प्रोक्तं सर्वकृछ्रव्रतादिषु ॥

1.170

सर्वाद्यन्तेषु सत्रेषु तदेव परिकीर्तितम् ।
अभोज्यभोजनेष्वेवं स्नानं तत्समुदाहृतम् ॥

1.171

अकार्यकरणेष्वेषु मुख्यस्नानानि मुख्यतः ।
भवेयुर्हि पवित्राणि तानीमानि ततः सदा ॥

1.172

चरेद्यत्नेन शुध्यर्थं न चेत्किं वात्र शुध्यति ।
स्वक्रियावमने सद्यः सवासा जलमाविशेत् ॥

1.173

अजीर्णवमने स्नानम् औषधादिक्रियावशात् ।
वमने ऽप्यवगाहः स्यान् मक्षिकामूलतो यदि ॥

1.174

नावगाहः प्रकर्तव्यस् तल्लेपक्षालनं परम् ।
प्रकर्तव्यं प्रयत्नेन धारणं शुद्धवाससाम् ॥

1.175

शाकैर्मूलैः फलैः पत्रैः कटुतिक्तरसादिभिः ।
सद्यश्चेद्वमनं तन्न चिरकाले तु तद्भवेत् ॥

1.176

यदा चेद्रोगवमनं तदा स्नानं विधानतः ।
सद्य एव प्रकर्तव्यम् अघमर्षविधानतः ॥

1.177

रात्रौ तु वमने जाते रोगाद्यैरप्यजीर्णतः ।
अर्धरात्रादधस्तूष्णे पाथसि स्नानमुच्यते ॥

1.178

तत्परं प्रातरेव स्याद् इति शाकलभाषितम् ।
स्वीयगोत्रपरित्यागाद् अन्यगोत्रपरिग्रहात् ॥

1.179

प्रभवेत्पतितः सद्यः शुद्धः संस्कारतः पुनः ।
स्वीयगोत्रपरित्यागो भिन्नगोत्रपरिग्रहः ॥

1.180

द्वयमेतत्प्रकथितं स्त्रिय एव हि नुर्न तु ।
अर्कश्रुतिव्यतीपात युक्ता ऽमा पुष्यमावयोः ॥

1.181

असावर्धोदयो योगः कोट्यर्कग्रहसंनिभः ।
अस्मिन् स्नातो चापकोटौ कुर्यान्स्नानशतं यदि ॥

1.182

त्रिंशद्वर्षं त्यक्तपितृ कर्मा शुद्धो भवेत्ततः ।
महोदये तु तत्स्नान सहस्रं यदि भक्तितः ॥

1.183

कुर्याद्वा कारयेद्वापि शुद्धः पूर्वाघतो भवेत् ।
अन्यथा निष्कृतिर्नास्ति तादृशस्यास्य पापिनः ॥

1.184

तं योगं सुसमीक्ष्येत तस्मात्तादृक्तु किल्बिषी ।
यदि साध्वी प्रमादेन पत्यन्येन चिति व्रजेत् ॥

1.185

कथं तत्कर्मकरणं पश्चात्तज्जातजन्मनाम् ।
इति चिन्तापरा देवा बभूयुः किल वै चिरम् ॥

1.186

पश्चादुदभवद्वाणी दिव्या स्पष्टपदाक्षरा ।
पत्यन्यनरयोगस्य षडब्दं कृच्छ्रमुच्यते ॥

1.187

मोहात् प्राणपरित्यागे महापापस्य कर्मणः ।
तस्याः षडब्दं संप्रोक्तं षड्गुणेनैव संयुतम् ॥

1.188

सदानेनैव कुर्वीत लोभशाठ्यविवर्जितम् ।
तद्दोषशमनायैव प्राणत्यागाख्यकर्मणः ॥

1.189

चापाग्रयानं कृत्वादौ तत्र स्नानशतं चरेत् ।
पक्षमात्रं प्रयत्नेन नित्यं प्रियपुरःसरम् ॥

1.190

तच्छान्तिस्तेन नान्येन सार्धसाहस्रमज्जनैः ।
ब्राह्मणानां प्रसादेन कूष्माण्डगणपाठतः ॥

1.191

नित्यं त्रिवारं तत्रैव पश्चात्तु प्राकृतं चरेत् ।
ततः शुद्धा भवेत्सा तु तैरेतैः कर्मभिः शुभैः ॥

1.192

द्विगुणं राजयोगेन त्रिगुणं वैश्ययोगतः ।
चतुगुर्णं शूद्रयोगाद् एवं निष्कृतिरीरिता ॥

1.193

पुनर्विवाहिता मूढैः पितृभ्रातृमुखैः खलैः ।
यदि सा ते ऽखिलाः सर्वे स्युर्वै निरयगामिनः ॥

1.194

पुनर्विवाहिता सा तु महारौरवभागिनी ।
तत्पतिः पितृभिः सार्धं कालसूत्रगतो भवेत् ॥

1.195

दाता चाङ्गारशयन नामकं प्रतिपद्यते ।
तद्दोषशमनायाथ प्रायश्चित्तमिदं परम् ॥

1.196

दाता सेतुगतः सद्यो धनुष्कोट्यां समाहितः ।
नित्यं त्रिषवणस्नायी यावकाहार एव वै ॥

1.197

संवत्सरं प्रयत्नेन वसेदेवान्वहं तराम् ।
स्वकृतं यच्च तत्पापं वदन्नित्यन्वहन् यतन् ॥

1.198

सर्वेष्वपि च तीर्थेषु तप्तकृच्छ्रशतं चरेत् ।
ततः शुद्धो भवेदेवं वोढा चापि तदा पुनः ॥

1.199

तद्दोषशमनायैव पुण्यं चान्द्रायणत्रयम् ।
यत्नात्कुर्वन् वसेत्तत्र ऋतुत्रयमतन्द्रितः ॥

1.200

प्रतिनित्यं पञ्चगव्यं पिबंस्तद्विधिना रुदन् ।
निर्लज्जया लोकपुरः कूष्माण्डादीन् पठंस्तथा ॥

1.201

द्रुपदां नाम गायत्रीं गायत्रीं वेदमातरम् ।
संध्यात्रये सहस्राणि जपंस्तप्ताख्यकं शिवम् ॥

1.202

कृच्छ्रं विधानतः कृत्वा पुनःसंस्कारतः पुनः ।
पुटगर्भविधानेन शुद्धो भवति तत्र चेत् ॥

1.203

न चेत्तप्तशतं कुर्यात् पुनरुपनयात्परम् ।
सा चेद्भर्तृद्वयं त्यक्त्वा सेतुस्नानसहस्रकम् ॥

1.204

कृत्वा च यावकाहारा वर्षमात्रेण शुध्यति ।
यद्यपुत्रा पुत्रिणी चेत् पतेदेवाशु तैः सह ॥

1.205

सा वै पुत्रैस्तदुद्भूतैश् चण्डालत्वं भजेत वै ।
यदि स्वसारं तनयां चिराद्भ्रान्त्यादिकृच्छ्रतः ॥

1.206

विवहेन्मोहतो ज्ञाते कृत्वा चान्द्रसहस्रकम् ।
चापाग्रयानतः पश्चात् पुटगर्भविधानतः ॥

1.207

करणाज्जातकादीनां स्वमात्रस्य शुचिर्भवेत् ।
परेषां शूद्रतुल्यो ऽयं ततस्तां बिभृयादपि ॥

1.208

पूर्वधर्मं विनिक्षिप्य तस्यां भक्त्या जपन्वसेत् ।
यदि तस्यां प्रजायेरंस् तांश्चण्डालेषु विन्यसेत् ॥

1.209

ततः स्वयं च नित्यं वै यावकाशी चरेद्भुवम् ।
पापप्रख्यापनं कुर्वन् यावज्जीवं हरिं भजन् ॥

1.210

पुण्यक्षेत्रेषु नियतं वसन् भक्त्या रसामटेत् ।
विवाहितां च विधवां महामोहेन वञ्चकैः ॥

1.211

दत्तां विवाह्य तज्ज्ञात्वा सद्यश्चण्डालतां व्रजेत् ।
तद्दोषशमनायैव पूर्ववत्तु समाचरेत् ॥

1.212

द्विगुणं निखिलं कृत्यं समुन्नेयं विचक्षणैः ।
एकद्वित्रिचतुःपञ्च वारं वै या विवाहिता ॥

1.213

अतिक्षुद्रैककालेषु पापैकबहुलेषु च ।
विज्ञाता चेत्तु तां सम्यक् पृष्ट्वा गत्वा विचार्य च ॥

1.214

तत्त्वं तस्यास्तु विज्ञाय प्रायश्चित्तं ततश्चरेत् ।
यत्र यत्र च सा गत्वा यं यं वा स्वजनैः सह ॥

1.215

मायया मोहयामास वञ्चयित्वातिचर्यया ।
तं तं ज्ञात्वा च संभाष्य तत्तद्वाङ्मूलमप्यलम् ॥

1.216

श्रुत्वा पश्चाच्छ्रोत्रियेभ्यः श्रावयित्वाखिलं ततः ।
राज्ञे बन्धुनि वावेद्य प्रायश्चित्तं ततश्चरेत् ॥

1.217

एतादृशेषु कृत्येषु सा क्षेत्रं प्रभवेद्ध्रुवम् ।
प्रथमोद्वाहकस्यैव परं त्वेषा परा न तु ॥

1.218

कदाचिद्धर्मकृत्यानां न तस्यापि परस्य वा ।
सा भोगमात्रयोग्यापि वेश्या तस्या विशिष्यते ॥

1.219

तया चेत्तेषु कृत्येषु सपङ्क्तौ भोजनं तथा ।
सह वा भोजनं दुष्टं यदि पातित्यकारकम् ॥

1.220

तच्छुध्यर्थं रसायां तु श्वभ्रे संछाद्य धर्मतः ।
खनित्वा याममात्रं वा घटिकाद्वयमेव वा ॥

1.221

तस्मादुद्धृत्य पश्चात्तु जातकादि समाचरेत् ।
तप्तकृच्छ्रसहस्राणि धर्मतश्च समाचरेत् ॥

1.222

नियतात्मा यावकाशी चापाग्रं तद्भवेच्छुचिः ।
पञ्च स्नानसहस्राणि स्वयं विप्रमुखेन वा ॥

1.223

समाचरेत्ततः स्वस्य शुद्धो भवति केवलम् ।
न परेषामयं योग्य एवमाह पुरा भृगुः ॥

1.224

प्रविष्टपरकायेन यदि संयोगमाप्नुयात् ।
त्रिमासयावकाहारा साध्वी शुध्यति नान्यथा ॥

1.225

प्रविष्टपरवर्ष्माणं विज्ञातं स्वपतिं सती ।
प्रपालयेद्विशेषेण रतिमात्रं न चाचरेत् ॥

1.226

काययोरेव संबन्धः पुरा संस्कृतयोः पुरा ।
नात्मनोरस्ति संबन्धो भिन्नकाये न चेत्ततः ॥

1.227

आत्मान्यकायं स्पृश्येन्न तेन पातित्यमाप्नुयात् ।
सुराणामपि चैवं हि मनुष्याणां तु किं पुनः ॥

1.228

अग्राह्याभेद्यमूर्तीनां ग्राह्मभैद्यशरीरिणाम् ।
देवानां सुमहाभेदस् तारतम्यं च तत्परम् ॥

1.229

स्पष्टमेव प्रभवति तेनाग्राह्याः सुरास्तु ये ।
ग्राह्यकायसुराणां वै प्रपूज्याः परमाः परम् ॥

1.230

अधिका वन्दनीयाश्च ते न नीचास्तु तेन वै ।
तन्निवेदितमत्यर्थं न तेषां परिकल्पयेत् ॥

1.231

तेनापराधः सुमहान् प्रभवेन्न तथाचरेत् ।
अग्राह्याभेद्यमूर्तीनां ग्राह्यभेद्यनिवेदितम् ॥

1.232

अयोग्यं सततं स्याद्धि शूद्रस्येव श्रुतिर्यथा ।
श्रौतस्मार्तक्रियादक्षः पैतृकोद्देशतो ऽपि वा ॥

1.233

निरुप्तमन्योद्देशेन न देवाय निवेदयेत् ।
निवेदितेन रुच्यर्थं योजयेन्नानिवेदितम् ॥

1.234

तथा निवेदितं भूयो लवणं च नियोजयेत् ।
निवेदनादथ पुनस् तदादाय घृतेन वा ॥

1.235

तैलेन लवणेनापि यत्नेन न नियोजयेत् ।
तदुच्छिष्टं न कुर्वीत तत्करेण न पीडयेत् ॥

1.236

न खण्डयेन्मिथो ऽज्ञानान् न तत्प्रोक्षणमाचरेत् ।
परिषिञ्चेन्नैवमेव तूष्णीमास्ये विनिक्षिपेत् ॥

1.237

गृह्णीयात्तु तदन्तर्वै न दन्तैरपि पीडयेत् ।
तदेतत्परमं शुद्धं निर्माल्यमतिदुर्लभम् ॥

1.238

देवानामपि तद्भोज्यं प्रयत्नेनातिभक्तितः ।
तदोपदंशं स्वीकुर्यान् निवेदितमहाक्षणे ॥

1.239

निवेदितस्य हविषो भक्षणे समुपस्थिते ।
आपोशनं न कुर्वीत प्रोक्षणं परिषेचनम् ॥

1.240

यदि कुर्वीत मोहेन रौरवं नरकं व्रजेत् ।
अन्नं पक्वात् समुद्धृत्य पृथक्पात्रे नियुज्य च ॥

1.241

कृत्वा सुखोष्णं संस्कृत्य पश्चाच्छाखादिभिर्यजेत् ।
असह्योष्णं महोष्णं वा पक्वपात्रगमैव वा ॥

1.242

यो निवेदयते मोहाद् देवाय नरकी भवेत् ।
तस्मादन्नं समुद्धृत्य पृथक्पात्रे निधाय च ॥

1.243

कृत्वा यत्नात्सुखोष्णं च राशि कृत्वाभिघार्य च ।
अतिशुद्धमतिश्रेष्ठं राजयोग्यं सुशोभनम् ॥

1.244

शाकभक्ष्यफलोपेतं देवाय विनिवेदयेत् ।
तदन्नमपि यत्नेन पश्चाद्दद्यात्समाहितः ॥

1.245

अप्रोक्ष्यापरिषिच्यैवम् अप्राणाहुतिपूर्वकम् ।
उच्छिष्टमप्यकृत्वैव यत्नाद्दद्यात्स्वयं शुचिः ॥

1.246

निवेदितानि वस्तूनि न दन्तैः परिघट्टयेत् ।
न खण्डयेच्छब्दयेच्च किं तु तूष्णीं तदम्बुवत् ॥

1.247

रसवत्फलवद्यत्नात् प्राशयेच्च न शब्दयेत् ।
कण्ठतो वापि यत्नेन काष्ठभूतफलान्यपि ॥

1.248

प्रदद्यादर्भकेभ्यो वै न स्वीकुर्यात्स्वयं यदि ।
स्वीकुर्यात्तु तदा नक्तम् उपविष्टः शुचिस्थले ॥

1.249

शब्दानजनयन्नेव तामुदन्तादिभिर्ह्यदन् ।
गृही न रात्रौ स्नायीत यदि स्नायीत वारिणा ॥

1.250

उष्णेन भवने विप्र साक्षितो वह्निसाक्षितः ।
उष्णेन शक्तो न स्नायाद् अशक्तश्चेत्तदाचरेत् ॥

1.251

अभ्यक्तश्च तथा स्नायाच् छरीरारोग्यहेतवे ।
तत्स्नानं कथितं सद्भिर् न नित्यं तेन नाचरेत् ॥

1.252

कर्म नैमित्तिकं तस्माद् देवानामपि नार्चनम् ।
यावन्नित्यादिकर्मौघं निर्वत्यैव विधानतः ॥

1.253

पश्चादभ्यञ्जनस्नानं न चेत्काले तु मध्यमे ।
मध्याह्ने संगवे वापि स्नानं कृत्वा तु तादृशम् ॥

1.254

माध्यंदिनस्य कृत्यस्य पुनःस्नानं यथाविधि ।
कृत्वा तत्प्रारभेत्कर्म तेनैतत्कर्म नाचरेत् ॥

1.255

मलापकर्षणार्थाय तद्धि स्नानं प्रकीर्तितम् ।
एवमेव क्षुरस्नानं कर्मायोग्यं प्रचक्षते ॥

1.256

क्षुरस्नानात्परं यस्तु पुनः स्नानान्तरं विना ।
करोति वैदिकं कर्म न तत्फलमवाप्नुयात् ॥

1.257

भवेदपि प्रत्यवायी तथातो नाचरेद्बुधः ।
नाभ्यञ्जनं प्रकुर्वीत प्रातःसायं न पर्वसु ॥

1.258

ग्रहणे श्राद्धकालेषु व्रतेषु निखिलेष्वपि ।
पुण्यवैदिकदीक्षासु न नक्तं क्षेत्रतीर्थयोः ॥

1.259

सुप्त्वा भुक्त्वा रुदित्वा वा दूरं गत्वा पिपासितः ।
अतिक्षुधातुरो रोगी न कुर्वीत कथंचन ॥

1.260

अकृत्वा नित्यकर्माणि छर्दयित्वातिताडितः ।
शप्तः शपित्वा व्याजेन घातयित्वा नरान् परान् ॥

1.261

हृत्वा धनानि दीनानां न कुर्यात्तत्तु सर्वदा ।
स्वजनान् प्रेषयित्वा च न्यक्कृत्य गुरुबान्धवान् ॥

1.262

तदवश्यककृत्येषु कर्तव्यत्वेन शास्त्रतः ।
महत्सूपस्थितेष्वेव तान्यकृत्वैव मौर्ख्यतः ॥

1.263

न कुर्यादेव सहसा विग्रहोद्वर्तनं द्विजः ।
सोदकुम्भश्राद्धमात्रं कृत्वाभ्यञ्जनतः परम् ॥

1.264

कुर्यादेवेति हारीतो नैवानेनेति वै मनुः ।
स्नातस्नानेन कुर्वीत न श्राद्धानि कदाचन ॥

1.265

नान्दिं ताभ्यां प्रकुर्वीता -नुकल्पेनैव तत्स्मृतम् ।
स्नानमभ्यञ्जनं स्नानम् अशक्तस्य कदाचन ॥

1.266

सोदकुम्भस्य नान्द्याश्च कर्तुः संपद्यते किल ।
क्रोशस्थितनदीस्नानान् न पित्रोः श्राद्धमाचरेत् ॥

1.267

महादवभृथाच्चापि शावाद्वार्षावगाहतः ।
तदङ्गस्नानतः सद्यः श्राद्धाख्यं कर्म तच्चरेत् ॥

1.268

कर्ममात्रस्य सर्वत्र प्राणानायम्य मन्त्रतः ।
करिष्य इति वागुक्ति रूपं संकल्पमाचरेत् ॥

1.269

न संकल्पं विना कर्म नित्यकाम्यादिकं चरेत् ।
स मानसः स्यात्संकल्पः कर्तव्यो वाचिकः परः ॥

1.270

यस्य इत्येतद्वाक्येन तथा प्राह श्रुतिः शिवा ।
देशः कालश्च संकल्पे वक्तव्यौ तत्र चेत्पुनः ॥

1.271

तिथिः काल इति प्रोक्तो व्यत्यासे तस्य कर्म तत् ।
नष्टमेव भवेत्सद्यस् तस्मात्तत्तु पुनश्चरेत् ॥

1.272

एकस्मिन्नेव दिवसे पित्रोः श्राद्धमुपस्थितम् ।
तत्क्रमेणैव कर्तव्यं व्यत्यासे तु पुनश्चरेत् ॥

1.273

मोहादतद्दिनकृत श्राद्धं चापि पुनश्चरेत् ।
तथा शून्यतिथौ यत्नात् कृतं चापि पुनश्चरेत् ॥

1.274

सूतकान्ते शून्यतिथि दोषो ऽयं श्राद्धकर्मणः ।
कदाचिन्न भवत्येव तस्मात्तत्रैव तच्चरेत् ॥

1.275

पितुः श्राद्धात्परं श्राद्धं कारुण्यानां समाचरेत् ।
तदन्यथाकृतं तच्चेत् परेद्युस्तत्पुनश्चरेत् ॥

1.276

निमित्तग्रहणश्राद्धं कृत्वान्नेनापि तद्दिनम् ।
भूयः सम्यक् प्रकुर्वीत भिस्सयैव न चान्यथा ॥

1.277

पित्रोर्मृताहं सततम् अपि कृच्छ्रगतो नरः ।
अन्नेनैव प्रकुर्वीत नामाद्येन कदाचन ॥

1.278

ग्रहणादिषु शक्तश्चेद् भिस्सया तानि चाचरेत् ।
न चेदामादिना शुद्धस् तद्धर्मैरखिलैर्वृतः ॥

1.279

ग्रहे मुहूर्तद्वितये गते ऽन्नश्राद्धमाचरेत् ।
अपि शक्तो ऽपि तन्न्यूने तादृक् छ्राद्धं न चाचरेत् ॥

1.280

चाक्रिकं ग्रहणं मुख्यम् आयनं तदमुख्यकम् ।
पुष्पवन्मण्डलसम मध्यभागप्रपीडितम् ॥

1.281

यन्नीललक्ष्मपृथुलं वर्तुलं तत्त्रियामगम् ।
तच्चाक्रिकमिति प्रोक्तं ग्रहणं पितृतृप्तिदम् ॥

1.282

तच्च पञ्चशताब्दानाम् एकदा वै भविष्यति ।
ग्रहस्य चाक्रिकस्यास्य पूर्वं यामत्रयं नरैः ॥

1.283

भोजनं नैव कर्तव्यं बृद्धबालातुरान्विना ।
अपराह्ने न मध्याह्ने मध्याह्ने न तु संगवे ॥

1.284

संगवे तु न तु प्रातः पृथुकानां तु केवलम् ।
स्तन्यपाने न दोषो ऽस्ति तत्काले केवले ऽपि वा ॥

1.285

यवाग्वाः पयसो वापि पानीयस्याशरत्समम् ।
नियमो ऽयं प्रकथितो न तदूर्ध्वं तु तच्चरेत् ॥

1.286

अयनग्रहणे मुख्ये पौनःपुन्यगते सकृत् ।
कोणैकदेशसंस्पृष्टे तन्न्यूनसमयस्थिते ॥

1.287

यामद्वयं सार्धयाम द्वयं यामत्रयं तथा ।
सार्धयामत्रयं याम चतुष्टयमिति क्रमात् ॥

1.288

अधिकारप्रभेदेन भोजनस्य निरूपणम् ।
यदेतत्तस्य सर्वस्य प्रवदामि विनिर्णयम् ॥

1.289

तत्कालाजीर्णराहित्ये हृदयं तन्निबोधत ।
एवं स्थितं पुनर्वच्मि यामतः सार्धयामतः ॥

1.290

जीर्णशक्तिमतो नुश्चेत् तत्काले क्षुद्भवेद्यदि ।
न दोषः कथितः सद्भिः कदाचिद्दैवयोगतः ॥

1.291

अजीर्णः स्यात्तदा दोषः सुमहान् प्रभवेदपि ।
तस्माद्यामद्वयं सर्वैर् भुक्तिस्त्याज्या विचक्षणैः ॥

1.292

विशेषः को ऽपि भूयश्च प्रोच्यते सुमहान् परः ।
रोगिणो ऽप्यतिमात्रस्य चौषधातिक्षुदश्नतः ॥

1.293

क्रूरग्रहातितप्तस्य पिशाचावेशिनस्तथा ।
वश्याकर्षणविद्वेष स्तम्भनोच्चाटनादिभिः ॥

1.294

पीडितस्य विशेषेण मूर्छितस्यातिताडनैः ।
तत्कालभक्षणमपि न दुष्यति कदाचन ॥

1.295

अत्युत्क्रान्तिप्रवृत्तस्य चिरत्यक्तान्धसस्तथा ।
अप्राशनोत्पन्नमृति संशयस्य विशेषतः ॥

1.296

तत्कालभक्षणावृत्तिर् न दोषाय भवेदयम् ।
सर्वेषामपि वर्णानां सर्वाश्रमनिवासिनाम् ॥

1.297

मुख्यो साधारणो धर्मस् तत्कालाजीर्णशून्यता ।
यामत्रयादिकाः कालास् तत्र तत्र प्रचोदिताः ॥

1.298

तैस्तैस्ते निखिला ज्ञेया नृभेदेन विवक्षिताः ।
सोमं ग्रस्तास्तगं सूर्यम् अपि वा शास्त्रदृष्टितः ॥

1.299

मुक्तं ज्ञात्वा ततः स्नात्वा निष्कामो भोजनं चरेत् ।
शुभ्रांशुचण्डांशुलोक कामी चेन्न तु भोजनम् ॥

1.300

चरेदेव न संदेहस् तल्लोकाकामिनः परम् ।
दोषाय भोजनत्याग एवमाह प्रजापतिः ॥

1.301

विहितस्य परित्यागाद् अग्निहोत्रस्वरूपिणः ।
पीतमातृस्तनरसो जनकाशौचमोचने ॥

1.302

सहिष्णुर्न भवेत्तस्मात् तत्पूर्वं तत्समाचरेत् ।
आरान्न्यक् सोदरसुतस् तर्णकः कर्मवर्जितः ॥

1.303

कृतकर्मत्रयकृतो यो दत्तः प्रवरः स्मृतः ।
दद्यातां दम्पती पुत्रं गृह्णीयातां च दम्पती ॥

1.304

तयोरेवाधिकारो ऽयं तद्दाने तत्प्रतिग्रहे ।
ब्राह्मणानां सपिण्डेषु कर्तव्यः पुत्रसंग्रहः ॥

1.305

सगोत्रेष्वथवा कार्यो ह्य् अन्यत्र तु न कारयेत् ।
असंस्कृतो दत्तसूनुः पितुश्चाप्यकृतक्रियः ॥

1.306

न तद्धनमवाप्नोति तद्वृत्तौ का कथा पुनः ।
जातकर्मादिना तस्य पुत्रत्वं नान्यथा मतम् ॥

1.307

मौञ्ज्यन्तेनातिहर्षेण सर्वमत्या समन्त्रतः ।
पुत्रो ज्ञातिमतो दत्तः कृतसर्वपितृक्रियः ॥

1.308

यदि स्वयं तदा सर्वां तद्वृत्तिं लभते पराम् ।
सर्वस्य प्रतिमन्त्रस्य पितृहेतुप्रपाठनात् ॥

1.309

दत्तस्य तद्भूलाभः स्यात् तत्पूर्वं सा न सिध्यति ।
हिरण्यकक्ष्यामन्त्राणां पठनात्तत्त्रयं पुनः ॥

1.310

प्रदूरीकृत्य तज्ज्ञातीन् अवशादेति चाखिलम् ।
दत्तसूनुः पित्रान्येन संस्कृतो यदि तद्वृतः ॥

1.311

तदा तु तद्धनं सर्वं ज्ञातिसाधारणं भवेत् ।
स्वयमेव पितुर्दत्तः कर्म कुर्यात्प्रयत्नतः ॥

1.312

तद्धनं तु न चेत्सद्यस् तज्ज्ञातिगतमेव वै ।
दत्तो ऽयमसगोत्रश्चेत् सदा दुर्बल एव वै ॥

1.313

भवेदेव न संदेहः शास्त्रे ऽमुत्र परत्र च ।
यदि जामी तत्र भवेत् तन्मुखं नावलोकयेत् ॥

1.314

यथाकथंचित्पुत्रस्य संग्रहः कार्य एव वै ।
दौर्बल्ये स्वस्य संजाते धर्मज्ञेन महात्मना ॥

1.315

जलबुद्बुदसंकाशं वर्ष्मैतत्कथितं बुधैः ।
न हि प्रमाणं जन्तूनाम् उत्तरक्षणजीवने ॥

1.316

तस्मादात्महितं नित्यं चिन्तयन्नेव तच्चरेत् ।
नापुत्रस्य तु लोको ऽस्ति पुत्रिणस्तु त्रिविष्टपम् ॥

1.317

ब्रह्मलोकादयो लोकाः स्वाधीना एव सर्वदा ।
पुत्रवानग्निमान्नित्यं पुत्रवान् श्रोत्रियः स्मृतः ॥

1.318

पुत्री साक्षाद्ब्रह्मविच्च पुत्रवानेव भाग्यवान् ।
ये ये धर्माः स्वेन ते ते पुत्रेणैतेन तत्क्षणात् ॥

1.319

संपादिता भविष्यन्ति नात्र कार्या विचारणा ।
न पुत्रवानपत्नीकः किं तु सो ऽयमपुत्रवान् ॥

1.320

अनग्निको न पुत्री स्याद् अपुत्रो ऽनग्निमान् स्मृतः ।
पुत्रेण स्थावरं दानं फलवद्दानमेव च ॥

1.321

यद्यल्लोके महत्सर्वैर् दुर्लभं पुत्रिणी चरेत् ।
पुत्रयत्रं सदा कुर्याद् वैदिकं लौकिकं शुभम् ॥

1.322

तस्मादृतुमतीं भार्यां सदा स्वस्थो न लङ्घयेत् ।
लङ्घयेद्यदि तां मूढो भ्रूणहत्यामवाप्नुयात् ॥

1.323

ऋतुस्नातदिने सो ऽयं युवा श्रोत्रिय एव वा ।
न कव्याय भवेदेव पुत्रवान् यदि तद्भवेत् ॥

1.324

पुत्रेण जातमात्रेण ऋणान्मुक्तो भवेदयम् ।
तस्मात्पुत्रस्य जातस्य पश्येत्सद्यो मुखं पुमान् ॥

1.325

न पश्यतस्तल्लपनम् ऋणान्मुक्तिर्न जायते ।
येन केन प्रकारेण तस्मात्कुर्वीत मानवः ॥

1.326

पुत्रसंपादनं धीमान् दुर्बलश्चेद्विशेषतः ।
वृत्तिदत्तं कल्पयेद्वा मौञ्जीदत्तमथापि वा ॥

1.327

विवाहदत्तमथवा यज्ञदत्तं न चेत्परम् ।
वृत्तिदत्तः कुलान्यष्टौ मौञ्जीदत्तस्तु षोडश ॥

1.328

विवाहदत्तो द्वात्रिंशद् यज्ञदत्तस्तरिष्यति ।
चतुःषष्टिकुलान्यस्य लीलया सद्य एव वै ॥

1.329

अपुत्रदत्तवृत्या यः प्राणवृत्तिं चरत्यलम् ।
वृत्तिदत्त इति ख्यातस् तनयः पुण्यलोककृत् ॥

1.330

धनतो यस्य यो लोके ह्य् उपनीतो भवेदहो ।
स मौञ्जिदत्त इत्याख्यस् तनयस्तु ततो ऽधिकः ॥

1.331

एवमेव भवेदन्यस् तनयः परलोकदः ।
विवाहदत्तसंज्ञः स्यात् ततो ऽपि द्विगुणः परः ॥

1.332

ततो ऽधिको यज्ञदत्तस् तनयः पितृवल्लभः ।
त एते तनयाः सर्वे तत्तत्कर्मैकपूर्तये ॥

1.333

कृतेन धनदानेन भवन्ति किल नान्यथा ।
तस्मात्सन्तः किलैतेषां कर्मणामेकतो धनम् ॥

1.334

न गृह्णन्ति महात्मानो परलोकदिदृक्षवः ।
कणशः कणशः सद्भ्यः प्रतिगृह्य ततस्ततः ॥

1.335

शनैः शनैश्च कालेन महता तानि चाचरेत् ।
एवं कृतेषु तेष्वेषु महत्सु किल कर्मसु ॥

1.336

नैकस्य तनयास्ते स्युस् तस्मात्तेषु तथाचरेत् ।
दुर्लभे तु सगोत्रेषु सपिण्डेषु सुते यदि ॥

1.337

सुतं बन्धुषु वान्येषु गृह्णीयादन्यजातिषु ।
सवर्णेष्वेव कुर्वीत नासवर्णेषु तद्ग्रहम् ॥

1.338

असवर्णेषु तत्कुर्वन् सद्यः पतति वर्णतः ।
गृहीत असगोत्रश्चेत् तनयः पुरुषत्रयम् ॥

1.339

कृतार्थतां प्रापयति तत्कुलं तदनन्तरम् ।
संकीर्णमवशाद्याति यत्नतश्चेत्तरिष्यति ॥

1.340

असगोत्रस्तु न ग्राह्यो गृहीतुः स्यात्स एव हि ।
दत्तो रिक्थमवाप्नोति सन्ततिर्दातुरेव हि ॥

1.341

तस्माद्दत्तसुतः स्वस्व तनयानुद्भवान् ततः ।
जनकस्यैव गोत्रे तान् मौञ्ज्यां मन्त्रैः प्रवेशयेत् ॥

1.342

यदि दत्तस्वतनयान् स्वगोत्रे न प्रवेशयेत् ।
दत्तजो वाथ तज्जो वा तद्गोत्रद्वयजास्तु ते ॥

1.343

एवं सत्यत्र जनने जातानां पाणिपीडने ।
समागते तदा सम्यग् यत्नाद्गोत्रद्वयं त्यजेत् ॥

1.344

तद्गोत्रद्वययुक्त्यर्थ ज्ञानाय किल तत्परम् ।
तज्जातानां विवाहस्य तदार्षद्वयमाचरेत् ॥

1.345

नित्याभिवन्दने सन्ध्या वन्दने काम्यवन्दने ।
कृत्स्नार्षेयं त्वेकगोत्रे परस्मिन्नपि गोत्रके ॥

1.346

स्वीकृत्यार्षद्वयं तेन योजयित्वा ततः परम् ।
एकमेव वदेद्गोत्रम् एकद्वित्र्यार्षकं तथा ॥

1.347

पञ्चसप्तार्षकं वैतन् नवैकादशकार्षकम् ।
गोत्रमेकं भवेदेवं त्रयोदशकमार्षकम् ॥

1.348

एवं पञ्चदशार्षं च गोत्रं तत्प्रभवेदपि ।
एवं जातानि गोत्राणि दत्तावृत्त्युद्भवानि वै ॥

1.349

वर्तन्ते भूतले तस्माद् गोत्रिणस्तान्विचार्य च ।
पृष्ट्वा तत्संशयस्त्याज्य एतावन्त्येव भूतले ॥

1.350

गोत्राणि शास्त्रसिद्धानि चैकार्षेयाणि कानिचित् ।
द्व्यार्षेयाणि त्र्यार्षेयाणि पञ्चार्षेयाणि सन्ति हि ॥

1.351

एतावन्त्येव सर्वत्र शास्त्रसिद्धानि नेतरत् ।
आद्यदत्तैकतद्दत्त पारम्पर्येण केवलम् ॥

1.352

दृश्यन्ते ब्राह्मणाः सप्त दशार्षेयावधीतरे ।
तस्माद्दत्तजपुत्रास्तान् पूर्वगोत्रे प्रवेशयेत् ॥

1.353

विना प्रवेशं यदि ते परं प्राप्तैकगोत्रिणः ।
यदि स्युर्मोहतः पश्चात् पूर्वं तज्जनकस्य च ॥

1.354

गोत्रं वर्ज्यं विवाहादाव् एवं सत्यत्र कालतः ।
अज्ञात्वा पूर्ववृत्तान्तं गोत्रे तज्जनकस्य च ॥

1.355

विवहेरन् महानर्थः प्रभवेत्किल केवलम् ।
पूर्ववृत्ते ऽथ विज्ञाते तां त्यक्त्वा मातृवत्तु ताम् ॥

1.356

पालयेदेव धर्मेण पश्चात्कृच्छ्रत्रयं चरेत् ।
तद्दोषपरिहाराय तत्र जातास्तु चेत्ततः ॥

1.357

चण्डालेष्वेव निष्कम्पं योजयेदिति निर्णयः ।
असगोत्रसुतं तस्मान् न स्वीकुर्यात्कथंचन ॥

1.358

बुद्धिमान् धर्मवित्किं तु पौर्वापर्यविशेषवित् ।
सगोत्रेष्वेव कुर्वीत शास्त्रतः पुत्रसंग्रहम् ॥

1.359

भ्रातृजेषु विवाहो न न स्वीकारश्च सत्क्रिया ।
न होमादिश्च कार्यो वै वाङ्मात्रेणैव पुत्रता ॥

1.360

भ्रातृपुत्रेषु तिष्ठत्सु नान्यं ज्ञातिजनं तथा ।
न स्वीकुर्याद्दूरगं वा स्वीकृतश्चोर एव सः ॥

1.361

पुत्रग्रहणकाले तु तत्पित्रोर्मानसं तदा ।
तोषयित्वा प्रदानाद्यैर् भविष्यत्कालकृत्यकम् ॥

1.362

कृत्वा च शपथं बाढं बन्धुराजादिभिर्जनैः ।
तत्पुत्रस्य च मर्यादा चैवमित्यपि वै पुनः ॥

1.363

जाते ऽपि चौरसे भूयः करोम्येवं न संशयः ।
दृढयित्वा स्वयं पश्चात् स्वीकुर्यात्तनयं ततः ॥

1.364

न चेद्दोषो महानेव भविष्यति न संशयः ।
स्वीकृत्य परपुत्रं यः संजाते त्वौरसे पुनः ॥

1.365

पुरोक्तान्यन्यथाकृत्वा मोहात्तदहितं चरन् ।
प्रलपंस्तद्दुरुक्तानि मम मास्त्वयमद्य वै ॥

1.366

वदेत्पापी महाक्रूरस् तेन भूर्भारवत्यलम् ।
तं देशाद्धार्मिको राजा ताडयित्वा प्रवासयेत् ॥

1.367

सर्वस्वं तस्य गृह्णीयात् तस्मिन् जनपदे न चेत् ।
न वर्षेत्किल पर्जन्यः राष्ट्रक्षोभो ऽपि जायते ॥

1.368

पुत्रप्रदानसमये तत्पित्रोर्ग्राहकेण या ।
वागुक्ता तां ततः काले तिरस्कर्तुं न शक्यते ॥

1.369

तद्बन्धुभिस्तेन राज्ञा तैर्जनैर्दातृदापकैः ।
तद्भार्याभिस्तत्तनयैर् येन केनापि वा पुनः ॥

1.370

पुत्रप्रदानसमये प्रोक्तवाक्यं तु तत्परम् ।
अल्पं महदशक्यं वा शक्यं वा तन्न लङ्घयेत् ॥

1.371

स्वकार्याय पुरा प्रोक्त्वा जनानां पुरतो दृढम् ।
इच्छंस्तदन्यथयितुं यतते यस्तु या जडा ॥

1.372

ऊर्ध्वं लोकं न यातो वै भ्रूणहत्यामवाप्नुतः ।
स्वपुत्रहितमिच्छन्त्यो भर्तृवाक्यं पुरोदितम् ॥

1.373

तिरस्कुर्वन्ति सहसा ता वै निरयभाजिनः ।
भर्तुः पितुर्वा यद्वाक्यं तदा पूर्वमुदीरितम् ॥

1.374

पत्नी पुत्रो ऽथवा मौर्ख्याद् अनृतं मौर्ख्यचोदितम् ।
दुःश्रुतं परुषं क्रूरम् अस्मत्कार्यविरोधि तत् ॥

1.375

नाप्यकुर्म स्वीकरणम् इति वक्त्ःन् दुरात्मनः ।
न्यक्कृत्य वाचा धिक्कृत्य ताडयित्वा कपोलयोः ॥

1.376

शीघ्रं प्रवासयेद्देशात् साधून् सम्यक् प्रपूजयेत् ।
स्वीकृतभ्रातृसूनोश्च पश्चाज्जातौरसस्य च ॥

1.377

समभागः सदा प्रोक्तस् तदन्यस्य पुनर्यदि ।
तुर्यभागः सगोत्रादेर् एवमाह पितामहः ॥

1.378

औरसो वयसा न्यूनो ज्येष्ठ एव न संशयः ।
नष्टे तु पालके ताते स्वीकृतो वयसाधिकः ॥

1.379

उपनीतः कलत्री वा जातपुत्रो ऽथवा यजन् ।
यत्नाच्च तं नोपनयेद् दत्तो जातं तदौरसम् ॥

1.380

कनिष्ठो धर्मतो दत्तो ह्य् अप्ययं वयसाधिकः ।
न्यूनो ऽपि वयसा ज्येष्ठः औरसो नात्र संशयः ॥

1.381

तस्माद्दत्तः स्वयं पश्चाज् जातं धर्मेण पूर्वजम् ।
धर्मन्यूनो नोपनयेद् यदि मोहेन तादृशम् ॥

1.382

प्रमादेन ह्युपनयेत् स्यातां तौ पतितौ ध्रुवम् ।
न तयोर्द्वन्द्वभावो ऽस्ति कदाचित्तु परस्परम् ॥

1.383

मृतभार्यो यतिर्वर्णी विश्वस्ता दूरभर्तृका ।
पुत्रं न प्रतिगृह्णीयाद् दूरभार्यो ऽपि सूतकी ॥

1.384

अधिकारो मिलितयोर् दम्पत्योरुभयोरपि ।
कदाचिन्न पृथक्त्वेन तद्दाने तत्प्रतिग्रहे ॥

1.385

सूतिप्रजननस्थाना पन्नयुग्मद्वयस्य चेत् ।
वस्तुनो मेलनं पुत्र दानं तद्ग्रहणं भवेत् ॥

1.386

सूतिप्रजननस्थान युग्मद्वन्द्वमनःसुखम् ।
अचञ्चलं स्थिरं तुष्टं चेन्मनस्तच्चरेन्ननु ॥

1.387

दम्पती दम्पतीचित्तं तुष्टं कृत्वाम्बरादिभिः ।
कृत्वा च शपथं गाढं भविष्यत्कार्यहेतवे ॥

1.388

साक्षिणां पुरतो नूनं देवब्राह्मणसन्निधौ ।
राज्ञे बन्धुनि चावेद्य गृह्णीयातां सुतं ततः ॥

1.389

शपथानन्तरं कालान् मर्यादा या कृता पुरा ।
नरास्तानुल्लङ्घयत राजा राष्ट्रात्प्रवासयेत् ॥

1.390

सुतस्वीकरणे या ऽऽरात् स्थिता सा ऽम्बास्य वै भवेत् ।
सापत्नी जननी दूर स्थिता भवति नान्यथा ॥

1.391

द्वे तिस्रो वा स्थिताश्चेत्तु तदारादेव केवलम् ।
पुत्रग्रहणतुष्ट्यैव भर्त्रा साकं हृदा तया ॥

1.392

निखिला मातरो ज्ञेया बहुमातृक एव सः ।
तदानीं स्वीकृतसुतो नात्र कार्या विचारणा ॥

1.393

तासां च पितरः सर्वे ऽप्यस्य मातामहाः स्मृताः ।
सर्वश्राद्धेष्वनेनाथ सर्वान् मातामहान् क्रमात् ॥

1.394

एकस्मिन्नेव तत्पिण्डे योजयेद्वा पृथक्तु वा ।
पिण्डान्वा निक्षिपेत्तेषां स्मर्त्ःणामत्र केवलम् ॥

1.395

वचनानां समत्वेन विकल्पस्तुल्य एव हि ।
यथारुचि प्रकुर्वीत यथा वा पुरतः कृतम् ॥

1.396

तथैव पश्चात्कुर्वीत सर्वत्रैवं हि निर्णयः ।
सपत्नीजननीतातो न तु मातामहो भवेत् ॥

1.397

सपत्नीजननी नित्य तर्पणे द्वञ्जली लभेत् ।
स्वमातृवत्त्य्रञ्जलिं सा कदाचिदपि नो लभेत् ॥

1.398

पुनर्विवाहितेनैव तद्भार्या द्वञ्जलिं लभेत् ।
अपुत्रा वा सपुत्रा वा तत्समा सा प्रकीर्तिता ॥

1.399

तस्या औपासने श्राद्धम् अग्नौ कुर्यान्न लौकिके ।
यदि कुर्यात्प्रमादेन कुलं तस्य विनश्यति ॥

1.400

यतः पत्नीमृतदिनं पितृनाशदिनेन वै ।
तुल्यत्वेनैव कथितं तस्याः को वा विमूढधीः ॥

1.401

लौकिकाग्नौ प्रकुर्वीत स्वसमाया विचक्षणः ।
सा विद्यमाना भार्यैव मृता चेन्मातृवर्गगा ॥

1.402

कृतत्रयविवाहस्य पत्नीं दृष्ट्वा चिरं पृथक् ।
द्वादशाब्दमलभ्यैतं तद्रजोदर्शनात्परम् ॥

1.403

पुत्रग्रहः प्रकथितो मुख्यो ऽयं तद्ग्रहे विधिः ।
तत्र साक्षात्कनिष्ठस्य सुतश्चेज्जातमात्रकः ॥

1.404

प्रवरः कथितः सद्भिस् तस्य व्यवहितश्च चेत् ।
तस्मान्न्यूनो भवेत्पुत्र एवं द्वित्रिविभेदतः ॥

1.405

भ्रातुः पुत्रो भवेन्न्यूनः सद्यः स्तन्यरसग्रहात् ।
परं तद्ग्रहणात्पुत्रस् तस्मान्न्यूनः प्रजायते ॥

1.406

एवमन्येषु नवसु जातहोमात्परं पृथक् ।
दिनभेदेन तन्न्यूनो दत्तो भवति पुत्रकः ॥

1.407

ततो ज्येष्ठस्य चेत्पुत्रस् तन्न्यूनो नात्र संशयः ।
न चाप्येकद्वित्रिभेदाद् भ्राता व्यवहितो यदि ॥

1.408

तस्य सूनुस्तथा न्यून एवमेव पुनस्त्वथ ।
सापत्नीमातृतनया उन्नेया ज्येष्ठतः परम् ॥

1.409

तनयाः शास्त्रमार्गेण न्यूना एव भवन्ति ते ।
एवं पितृव्यतनय तनयाश्च पृथग्विधाः ॥

1.410

तन्न्यूना एव कथिताः सगोत्रा एवमेव वै ।
विज्ञेयाः किल किं भिन्न गोत्राश्चेत्तु ततः पुनः ॥

1.411

किं वाच्यमस्ति तज्ज्ञात्वा बुद्धिमान् कालदेशकौ ।
समालोच्य विधानेन कुर्यात्पुत्रस्य संग्रहम् ॥

1.412

विभागे भ्रातरस्तुल्यास् तत्पुत्रास्तत्समा हि यत् ।
ते गृहीत्वा न तुर्याशं तल्लभन्ते सुतोद्भवे ॥

1.413

सममेव लभन्ते ऽंशम् औरसेन समा हि ते ।
धर्मपत्न्यां समुद्भूत औरसः कथितो बुधैः ॥

1.414

द्वितीयादिसमुद्भूतो न तत्साम्यमवाप्नुयात् ।
धर्मपत्नीसुतं प्राहुर् औरसं ब्रह्मवादिनः ॥

1.415

द्वितीयादिसुतान् सर्वान् कामजानिति चोचिरे ।
धर्मपत्नीसुतो ज्यैष्ठ्यं दत्ताद्गौरवमाप्नुयात् ॥

1.416

पश्चाज्जातः कनिष्ठो ऽपि द्वितीयादिसुतास्तु चेत् ।
पित्र्यादिक्रियया कालाद् धर्मपत्नीसुतैः समाः ॥

1.417

भवन्त्यपि न संदेहस् तथापि पुनरेककम् ।
प्रवदामि समुद्भूतस् तस्मात्तत्कार्यकृद्भवेत् ॥

1.418

वयो ऽधिको दत्तसुतो न तत्कार्ये प्रभुर्भवेत् ।
दत्तसूनुर्धर्मपत्न्याः सति ताते ऽथवा न चेत् ॥

1.419

द्विभार्यके क्रियाकृच्चेत् तद्भार्याया अथापि वा ।
दत्तसूनुस्तयोरन्य तरस्य यदि कर्मकृत् ॥

1.420

सत्यौरसे तत्समो ऽयं प्रभवेदिति वै मनुः ।
दौहित्रो यदि दत्तः स्याद् भ्रातृजो वा तथाविधः ॥

1.421

औरसेनैव तुलितौ सततं धर्मतत्परौ ।
दत्तस्य पितरौ प्रोक्तौ ग्राहकावेव संततम् ॥

1.422

पितृत्वमपि दत्तेन तिष्ठेज्जनकयोर्न तु ।
दानहोमात्परं तस्मात् पितरावस्य तौ मतौ ॥

1.423

पितृत्वमपि मातृत्वम् एकत्रैव हि तिष्ठति ।
न तिष्ठति तदन्यत्र क्रियाशतसहस्रकात् ॥

1.424

पितृत्वं मातरि गतम् एकशेषजमल्पकम् ।
यथा न तत्कार्यकरं मातृत्वमपि तत्तथा ॥

1.425

पितृव्यपत्न्यादीनां स्यात् तादृक्पत्नीत्वमेव हि ।
तासां भवति तस्मात्तु न तन्मातृत्वमुच्चरेत् ॥

1.426

प्रजापतिभ्यो ह्यभिमानसूनुः पितृव्यसूनुस्त्वथवा सगोत्रः ।
ज्येष्ठः कनीयान्न भवेत्तथैको न भिन्नगोत्रो न सगोत्रविद्विट् ॥

1.427

सगोत्र्यसंमतः सूनुर् यः कश्चन समागतः ।
पुत्रत्वेनोदरपरो नाभिमानसुतो भवेत् ॥

1.428

धर्मपत्नीसुतो वर्णी द्वितीयादिसुतो गृही ।
जातपुत्रो ऽप्याहिताग्निर् न समस्तेन वर्णिना ॥

1.429

धर्मपत्नीसुतो बालो द्वितीयादिसुतो युवा ।
आहिताग्निर्दशसुतो न समस्तेन चोदितः ॥

1.430

स एव पितृकृत्येषु मुख्यकर्ता न संशयः ।
अनुपेतो ऽप्यसौ यद्यप्य् अथ तत्कर्तृतो ऽखिलम् ॥

1.431

कारयेज्ज्येष्ठमुखतस् तथा चेत्कर्म तत्परम् ।
जातमात्रे धर्मपत्नी सुते गौणसुताः परे ॥

1.432

द्वितीयादिपुरोद्भूता भवेयुस्तत्क्षणान्ननु ।
धर्मपत्नीसुतोत्पत्या दत्ततत्कार्यतो ऽपि च ॥

1.433

द्वितीयादिसुतानां स्यात् सद्यो हैन्यं श्रुतीरितम् ।
तत्पत्नीकर्मकर्ता चेद् द्वितीयातनयस्य सः ॥

1.434

दत्तो ऽधिकश्चेद्भवति पितुर्यदि पुनस्तराम् ।
असन्निधौ सन्निधौ वा ताते जीवति दत्तकः ॥

1.435

तद्भार्याकर्मकर्ता चेत् तत्सुतापतिरिष्यते ।
द्वितीयातनयश्चेत्तु कर्मकृद्दत्तकस्तदा ॥

1.436

सद्यो हैन्यमवाप्नोति न ज्येष्ठातनयो यदि ।
तातस्तद्धर्मपत्नी च समौ दत्तस्य संततम् ॥

1.437

पराणि तत्कलत्राणि संस्कार्याणि सुतो न चेत् ।
सुते सति स एव स्यात् तत्कर्मणि न चेतरः ॥

1.438

सर्वदैवं समाख्यातो न तेनायं हि दुर्बलः ।
दत्तेन तत्कलत्रस्य प्रथमस्य कृता क्रिया ॥

1.439

सत्यन्यातनये तावन् मात्रेणायमथाधिकः ।
तुर्यांशो ऽपि समांशः स्यात् तादृशं कर्म तत्कृतम् ॥

1.440

सति दत्तसुते तस्मात् पितृपत्न्या विचक्षणः ।
ज्येष्ठायास्तत्कनिष्ठाजः स्वयं कर्म समाचरेत् ॥

1.441

ज्येष्ठेन दत्तपुत्रेण तत्क्षेत्रस्य पितुस्तु वा ।
कृते कर्मणि तस्य स्याद् आधिक्यं तत्सुतात्परम् ॥

1.442

ताते सति कलत्रस्य तत्पुरो ज्यायसो ऽस्य चेत् ।
कृतं कर्म हि दत्तेन सद्यः पुत्राधिको भवेत् ॥

1.443

पुत्रेषु सत्सु दत्तेन पितुः कर्म कृतं तु चेत् ।
न तदा तस्य वाधिक्यं स्वाम्यं किमपि लभ्यते ॥

1.444

यदि तज्ज्येष्ठभार्याया अपुत्रायाः कृतं तु तत् ।
कर्म तत्पुरतो नूनं दत्तः स्यादधिकः सुतात् ॥

1.445

पितुः कर्म कृतं तेन दत्तेन यदि तत्परम् ।
अप्ययं मुख्यकर्ता न मुख्यः स्यात्सुत एव वै ॥

1.446

निखिलेभ्यो सुतेभ्यो ऽसाव् औरसो ह्यतिरिच्यते ।
औरसो धर्मपत्नीजो धर्मपत्नी च केवलम् ॥

1.447

या ऽनेन पूर्वं बाला वा दुर्गुणा वा विवाहिता ।
सैवास्य धर्मपत्नी स्याद् धर्मविद्भिरुदाहृता ॥

1.448

तत्पश्चाद्या कुलीना वा सुरूपा वा वयो ऽधिका ।
न सास्य धर्मपत्नी स्याद् वितीया भोगिनी स्मृता ॥

1.449

सति चेत्तनये तल्पे पुनः कामाद्विवाहिता ।
द्वितीया भोगिनी नारी धर्मपत्नी न सोच्यते ॥

1.450

धर्मपत्नीसमुद्भूतो ज्येष्ठपुत्र इति स्मृतः ।
पत्नी तनयराहित्य कृतवैवाहिकस्य सा ॥

1.451

येयमूढा धर्महेतोर् धर्मपत्न्यभिचोदिता ।
कलत्रे सति पुत्रे वा पौत्रे नप्तरि सन्ततौ ॥

1.452

स्थितायां येयमूढा स्याद् भोगिनी काञ्चनाह्वया ।
भर्मणो यानि नामानि तानि सर्वाणि कृत्स्त्रशः ॥

1.453

लभते ऽतस्तु सा प्रोक्ता द्वितीया काञ्चनाह्वया ।
न धर्मपत्नी भवति भोगिन्येव परा स्मृता ॥

1.454

भर्मणेयं यतः साध्या वनिता तेन सा स्मृता ।
सर्वस्वर्णपदैर्वाच्या वावातेति च फण्यते ॥

1.455

परा दुर्वर्णनामानि यानि ख्यातानि भूतले ।
तानि सर्वाण्यवाप्नोति तृतीयेति च तां विदुः ॥

1.456

परिवृत्तीति तामेके विज्ञेया विमलामिति ।
हरिद्रां हरिणीं कल्यां जगदुर्ब्रह्मवादिनः ॥

1.457

एतासां तनयाः सर्वे ऽप्युत्तरोत्तरदुर्बलाः ।
धर्मपत्नीसुतान्न्यूना वयसाप्यधिकास्तराम् ॥

1.458

प्रथमा धर्मपत्नी च सुभगा महिषीति च ।
सत्कर्णीति च कल्याणी धर्मज्ञैः कथिता हि सा ॥

1.459

धर्मपत्नीसुतो बालो मौञ्जीविरहितो ऽपि वा ।
तिष्ठत्सु चान्यापुत्रेषु कर्मभिः सत्कृतेष्वपि ॥

1.460

उत्तमः पितृकृत्येषु तस्मादग्निप्रदः स तु ।
तेन प्राधानिकं कर्म यद्यत्तत्तत्तु तन्मुखात् ॥

1.461

सम्यक्कारयितुं न्याय्यं मन्त्रान् सर्वान्परे सुताः ।
पठेयुर्वै विधानेन चैव धर्मो ऽखिलो महान् ॥

1.462

विहितस्तु समासेन तेन यावत्कृतं न तु ।
तावत्स तु मृतो तातः परलोकं न विन्दति ॥

1.463

प्रेतत्वाच्च न निर्मुक्तः क्षुत्तृष्णापीडितस्तराम् ।
शरणं यत्र कुत्रापि ह्य् अटन् धावन् खलन् भ्रमन् ॥

1.464

नित्यं च सलिलाकाङ्क्षी प्रेतलोके ह्यधोमुखः ।
रुग्णो मुण्डश्च विकलो जडो भ्रान्तश्च दुर्मनाः ॥

1.465

निवसेदेव सततं तस्मादौरस एव सः ।
धर्मपत्नीसमुद्भूतो ह्य् अपरिज्ञातवर्णकः ॥

1.466

प्रेतकार्यस्पर्शमात्रं स्नात्वा कुर्यादमन्त्रकम् ।
तावन्मात्रेण तत्तातः कृतकृत्यः सुखीतराम् ॥

1.467

सम्यक् पितृत्वमाप्नोति नित्यानन्दः प्रजायते ।
तत्तन्मातुस्तत्तनया मुख्यकर्तार ईरिताः ॥

1.468

सत्स्वौरसेषु मुख्यत्वात् त एव कथिताः पराः ।
तत्तत्कर्मसु कर्तारो नान्यमातृसमुद्भवाः ॥

1.469

धर्मपत्नीसुते बाले केवलं रहिताक्षरे ।
अस्पष्टस्पष्टवर्णे वा विद्यमाने मृते तु वा ॥

1.470

कक्ष्यानन्तरनिष्ठेन येन केन सुतेन वा ।
तत्समेना ऽथवा भ्रात्रा शिष्येणान्येन बन्धुना ॥

1.471

सर्वं कारयितव्यं स्यात् समन्त्रेणात्र तत्र चेत् ।
यद्यत्प्राधानिकं कर्म तत्र तत्रास्य वै शिशोः ॥

1.472

स्पर्शमात्रः प्रकर्तव्यस् तत्सान्निध्यं च केवलम् ।
अपेक्षितं मृतस्यात्र महातृप्त्यैकहेतवे ॥

1.473

तत्सान्निध्यस्पर्शमात्रात् स मृतः सुखभागलम् ।
भवेदेव न संदेहस् तथा तस्मात्तु तच्चरेत् ॥

1.474

मृतस्यैतानि प्रोक्तानि तारकाणि महात्मभिः ।
कारकाणि महातृप्तेस् तानीमानि स्मृतानि हि ॥

1.475

जकारपञ्चकं त्वेकं धर्मपत्नीजसन्निधिः ।
तत्कार्यकरणं तद्वद् ग्रहणश्राद्धमेव च ॥

1.476

गयाश्राद्धं च फल्गुन्याः शाकश्राद्धमथापि च ।
तथैव वरणं गौर्या वृषोत्सर्जनमेव च ॥

1.477

महालयश्च पनसस् त एते निखिलाः पराः ।
अत्यन्ततृप्तिमुक्त्यैक निदानानीति तान् जगुः ॥

1.478

जन्मभूम्यादिकं तत्र तज्जकारस्य पञ्चकम् ।
मृतस्य तारकं पूर्वं तत्परं त्वौरसस्य वै ॥

1.479

सान्निध्यं मृतिकाले तु द्वितीयादिसुतस्य वा ।
परलोकानुकूला या मृतस्य प्रभवेत्तथा ॥

1.480

तत्क्रिया मन्त्रपूर्वैवं मृतस्य प्रभवेत्तथा ।
एवं स्याद्ग्रहणश्राद्धं गयाश्राद्धमथापरम् ॥

1.481

तृप्तिदं फाल्गुनीश्राद्धम् अष्टोत्तरशतैरुत ।
शाके श्राद्धं यत्क्रियते तदेकमथ तारकम् ॥

1.482

गौरीदानं वृषोत्सर्गः पाक्षिको ऽयं महालयः ।
स्थापनं पनसाख्यस्य तानीमानि स्मृतानि हि ॥

1.483

पित्ःणामपि सर्वेषां वल्लभानीति वै जगुः ।
जकारपञ्चकं वत्सः परलोकगतस्य तत् ॥

1.484

तृप्त्यै सतरणायापि प्रोवाचैवं न चेतरत् ।
जलार्धं जाह्नवीतीरं जनार्दनमहास्मृतिः ॥

1.485

ज्वलनो जननोत्पन्न सुतसान्निध्यमेव च ।
जकारपञ्चकं प्रोक्तं कथितं जन्ममोचकम् ॥

1.486

ग्रहस्पर्शादथ यतन् सद्यः पत्न्यादिभिर्वृतः ।
तदान्नेनैवं यच्छ्राद्धं करोति पितृतृप्तये ॥

1.487

स्नात्वा तेनैव विधिना तद्ग्रहश्राद्धमुच्यते ।
तदेतत्किल देवेशो भगवान् भूतभावनः ॥

1.488

षोडशश्राद्धतुलितं महादानशताधिकम् ।
प्रोवाच किल सर्वेशो गयस्य सुमहात्मनः ॥

1.489

गयाफल्गुनिकाशाक श्राद्धान्येतत्समानि वै ।
गौरीदानं तथैवेति वृषोत्सर्जनमेव च ॥

1.490

महान्ति निष्क्रियाणीति मनुः कात्यायनो ऽङ्गिराः ।
कुत्सवत्साग्निभरत विश्वामित्रशुकादयः ॥

1.491

नैतेषां तुल्यमपरं पैतृकं कर्म विद्यते ।
लोकत्रये ऽपि परमं तस्मादेतेषु चैककम् ॥

1.492

अपि कर्ता कृतार्थः स्यात् सुकृती पितृतारकः ।
इत्येवमेनं जहृषुः पनसस्थापकं तु तम् ॥

1.493

वयं न विद्मः को वा स दूर्वासाजनको ऽथवा ।
कुम्भोद्भवो दधीचिर्वा शिबिर्वा नहुषो नलः ॥

1.494

मान्धाता वा ऽप्यलर्को वा हरिश्चन्द्रो ऽथवा महान् ।
गयो रामो ऽथवा श्रीमान् एषु चैको ऽथवा न चेत् ॥

1.495

एतत्समष्टिर्लोकानां हिताया ऽत्र भुवः स्थले ।
अवतीर्णो न सन्देह इति ब्रह्मा शिवो हरिः ॥

1.496

पनसस्थापकं प्रोचुः शलाटोस्तस्य पृष्ठतः ।
सर्वे कण्टकरूपेण समाश्रित्यैव सन्ततम् ॥

1.497

अष्टोत्तरशतश्राद्ध दिव्यशाकविशेषकाः ।
प्रवर्तन्ते यतस्तस्मात् तदा शाकसहस्रकम् ॥

1.498

तस्यास्य दिव्यरूपस्य पितृप्राणैकरूपिणः ।
सर्वदेवस्वरूपस्य सर्वमन्त्रमयस्य च ॥

1.499

सर्वयज्ञमहातीर्थ सरिदग्निसुवर्ष्मणः ।
निखिलागमशास्त्रौघ व्रतकृच्छ्रामृतान्धसाम् ॥

1.500

निधानस्य पवित्रस्य पित्र्याकर्षणवर्ष्मणः ।
स्थापनं क्रियते येन तच्छायापत्रमूलकैः ॥

1.501

फलैः शलाटुभिर्वापि काष्ठैश्छायाभिरेव च ।
क्रियते पितृतृप्तिः स्याद् बुद्धिपूर्वमबुद्धितः ॥

1.502

तस्य पुण्यफलं वक्तुं गुरुणा ब्रह्मणापि वा ।
शक्यं वर्षसहस्रेण फणिराजेन वा न तु ॥

1.503

पुरा किल पितृतृप्ति हेतवो ऽखिलशाककाः ।
तपस्तप्त्वा वरेणाथ ब्रह्मणः पनसं श्रिताः ॥

1.504

अलकालर्ककारूषा च्युतचूतानरामराः ।
सप्तस्वेतेष्वच्युतश्चेद् अलर्कश्चाजरास्त्रयः ॥

1.505

प्रतिमासजभेदेन स्मृता द्वादशजातयः ।
अतः षट्त्रिंशत्कसंख्या तस्मादेतत्त्रयस्य च ॥

1.506

एतेषां मासजानां स्याद् एकजातिशलाटुतः ।
तद्भिन्नैकादशानां च शलाटुफलभेदतः ॥

1.507

द्वैविध्यं किल संप्राप्तं शलाटोरपि वै मुहुः ।
आर्द्रशुष्कप्रभेदेन द्वैविध्यं समुपागतम् ॥

1.508

तद्वत्फलानां च पुन द्वैविध्यं समुपागतम् ।
तच्चैत्रामलको ग्राह्य आशरत्सपवित्रकः ॥

1.509

वारुकः कर्मजः शारिः श्रीपर्णं श्रीकरः शमी ।
युगदो युग्मदो रम्यं वज्रपर्णी करीषकी ॥

1.510

कारवल्ली त्रयी कारुः कामकृत् कामवारकः ।
कामवाही कामदूरः शाकुटद्वयमग्रिमा ॥

1.511

कामप्रं कामदं कम्रः कलिङ्गः कलिवारुकः ।
अजश्रीरजचर्माख्यो दारुको धर्मदो दमः ॥

1.512

कुलं कारी मनुर्मानी राजश्रीः शेखरी नलः ।
नालकं कारकः खाद्यो गायत्रो हरिलोचनः ॥

1.513

हरिदश्वो हयग्रीवः कारुण्यः कनकप्रियः ।
कार्मुकः कर्मकृत्कार्यो धैर्यदो मानकृत् कुणिः ॥

1.514

शरच्छ्रीको मङ्गलको कुण्डो ऽकुण्डो गुडप्रियः ।
फलश्रीर्मधुरग्रीवो दानदः कटुकः क्षमी ॥

1.515

मान्मथो मधुरस्रावा वज्रघ्नो वज्रपञ्जरः ।
वल्मीकजो बालराजो बालपुत्रो बृहद्रथः ॥

1.516

कर्णकारो ऽक्षिरोगघ्नः प्रतीहारी वलीमुखः ।
शर्मकृन्नेत्ररोगघ्नो धान्यद्वेषी दरिद्रहृत् ॥

1.517

कुशलः कर्मसुखकृत् कण्ठहृत् कनकप्रभः ।
विश्वाकरः पिप्पलघ्नः क्षुन्मूलो क्षुन्निवारणः ॥

1.518

अग्निधामा धरानाथो धरावासो धराश्रयः ।
अद्रिराजो धर्मदेशी धर्माश्रयकरः प्रराट् ॥

1.519

अनिकेतो निमिग्रीवो नीलनेत्रो मरुत्पतिः ।
मणिमालो बृहन्नालो नारदो लिकुचो नटः ॥

1.520

कुम्भाडः कुण्डली चक्रः शैत्यकर्मा शताकरः ।
कल्याणाधार ईशान ईशानो दक्षिणास्पदः ॥

1.521

शतवल्ली महावल्ली चक्रवल्ली निपानकृत् ।
द्रोणप्रियो द्रोणराजो गुल्महृत् कटुमूलकः ॥

1.522

नित्यश्रीको नित्यपुष्पो निर्मूलो बहुपुष्पकः ।
प्लक्षराजन्यसंभूतो हेतिमूलो निशाप्रियः ॥

1.523

महादाहकरो ऽश्वत्थः सुन्दरः पर्वताश्रयः ।
कर्दमाढ्यः कर्दमाधः सूपस्थानः सुरास्पदः ॥

1.524

पूर्णपात्रं शर्मपात्रं शातकुम्भः स्थिराकरः ।
काव्यश्रीः श्रीकरः श्रीगः परागश्रुतिदीपनः ॥

1.525

महामाली जीवमाली पाशाढ्यः पाशदुःसहः ।
प्रथितो प्राणतरणो देवराजप्रियः पणः ॥

1.526

सद्योमूलः पण्यमतिः गरदूषो गणत्रिगः ।
गुहावासो गुहाश्चयं भरण्यं मुनिवन्दितः ॥

1.527

मुनिप्रियो दन्तरिपुः शर्मकृच्छर्ममत्सरी ।
त एते दिव्यशाकाः स्युः श्राद्धकर्मणि चोदिताः ॥

1.528

एतेषामम्लयोगेन तदयोगेन च द्विधा ।
भवेयुः किल ते भूय एतेषां पुनरेव वै ॥

1.529

मध्ये शाकुटकादीनि मूलतः स्तम्भतस्तथा ।
पत्रतस्त्रिविधो ज्ञेयः कानिचिच्छुष्कभेदतः ॥

1.530

पक्वेन जलतैलाभ्यां पृथक्त्वेन समष्टितः ।
चूर्णकल्कप्रभेदेन यत्नतः स्यात्सहस्रकम् ॥

1.531

एतत्सर्वं चैकपात्रे निधाय किल पद्मजः ।
अन्यपात्रे च पनसं तुलयामास पाणिना ॥

1.532

तदा तु पनसः किंचिद् बभूवाधिक एव वै ।
बृहती त्रिशतसमा तदा जाता हि पश्यताम् ॥

1.533

आर्द्रकं षट्छतसमं तिलाः शतसमं तराम् ।
एवं तुलायां त्रितयं संबभूव तदादि वै ॥

1.534

भूतले ब्राह्मणाः सन्तः पवित्रे श्राद्धकर्मणि ।
तुल्यं शाकसहस्रस्य तिलार्द्रकबृहत्ककम् ॥

1.535

संपादयन्ति यत्नेन पित्ःणामतितृप्तये ।
तिलमाषव्रीहियवा मुद्गगोधूमशाककाः ॥

1.536

काशा दशविधा दर्भा मुख्यामुख्याश्च ये मताः ।
खड्गं दशविधं मांसं प्रेतपर्पटभूतपाः ॥

1.537

वामदेवादयो विप्राः पितृसूक्तविशेषकाः ।
गयादिपुण्यक्षेत्राणि वटभूरुह एव च ॥

1.538

बिन्दुमाधवविश्वेश चतुर्दशपदानि च ।
ईशानादिमुखान्येवं गदाधरमहेश्वरौ ॥

1.539

भागीरथी फल्गुनी च यमुना च सरस्वती ।
पितृसूक्तानि सर्वाणि वैष्णवानि विशेषतः ॥

1.540

रक्षोघ्नानि पवित्राणि पुनरन्ये तथाविधाः ।
श्राद्धद्रव्यविशेषाः स्युः पित्ःणामतिवल्लभाः ॥

1.541

ते सर्वे पनसस्त्वेकः सुमहाक्षयकारकः ।
एतस्मिन् पनसे लब्धे सर्वश्राद्धनिदानके ॥

1.542

मृताहदिवसे पुण्ये नित्यतृप्ताः सुतोषिताः ।
पितरस्तुन्दिलाः सद्यो भवन्त्येवेति सा श्रुतिः ॥

1.543

एवं सत्यत्र यो मर्त्यः पनसस्थापको हृदा ।
मत्या ऽमत्याथवा ऽतीवं भक्त्या ऽभक्त्याथवा पुनः ॥

1.544

ज्ञानेना ऽज्ञानतो वा ऽपि भूतले यत्र कुत्रचित् ।
स एव कथितः सद्भिर् गयाश्राद्धसहस्रकृत् ॥

1.545

पनसं सहकारैश्च कदल्यादिद्रुमैः सह ।
स्थापयित्वा विधानेन यत्नात्संवर्धितैः शिवैः ॥

1.546

चम्पकैः पाटलीभिश्च मधूकैः सुमनोरमैः ।
चन्दनैः स्पन्दनैर्नीपैस् तच्छायाभिश्च तत्फलैः ॥

1.547

पत्रैः पुष्पैश्च तत्काष्ठैर् नानाशाकविशेषकैः ।
कुर्वन् स्ववृत्या प्रयतन् कुलकोटिसहस्रकैः ॥

1.548

ब्रह्मलोकमवाप्येह तत्सायुज्यमवाप्नुयात् ।
पनसं यत्र कुत्रापि दृष्ट्वा सद्यो महामनाः ॥

1.549

तत्काष्ठपत्रकुसुम शलाटुफलमुख्यकैः ।
येन केनापि वा तृप्तिं पित्ःणां तां समाचरेत् ॥

1.550

सद्य एव ब्राह्मणेभ्यो लब्धमात्रे च तत्फले ।
दृष्टमात्रे ऽथवा भक्त्या दद्याद्वै पितृतृप्तये ॥

1.551

शलाटुं पानसं पत्रं फलं दृष्ट्वा तु यो नरः ।
पितृतृप्तिमकृत्वैव तूष्णीं तिष्ठेन्महाजडः ॥

1.552

तं तस्य पितरः सर्वे शपन्ति किल कोपतः ।
दृष्टमात्रे तु तस्मात्तु पानसद्रव्यमुत्तमम् ॥

1.553

येन केनाप्युपायेन पत्रेण च फलेन वा ।
शलाटुना छायया वा पितृतृप्तिनिमत्तकम् ॥

1.554

यत्किंचिदपि वा तेषु ब्राह्मणेभ्यः प्रदापयेत् ।
तावन्मात्रेण पितरो नित्यतृप्ता भवन्ति वै ॥

1.555

एवं सत्यत्र यः कश्चिद् भाग्यवान् पनसी नरः ।
तद्द्रव्यैरनिशं भक्त्या तृप्त्यकृत् पातकी भवेत् ॥

1.556

गालवस्तु पुरा विप्रो दृष्ट्वा बीजानि भक्तितः ।
क्रयेण पञ्चषान् गृह्य पितृप्रीत्यै बुभुक्षितः ॥

1.557

स्वयं पत्न्या भक्षयित्वा पितृतृप्तिं चकार ह ।
तावन्मात्रेण ते चापि परं तृप्ताः शताब्दकात् ॥

1.558

आनन्दसागरे मग्ना बभूबुरिति नः श्रुतम् ।
पुरा कुशवने पुण्ये माण्डव्यो वेदवित्तमः ॥

1.559

महाविन्ध्याटवीमार्गे पनसं कार्तिके ऽवशात् ।
दृष्ट्वार्कं च नतस्तूष्णीं समालोच्य क्षणात्परम् ॥

1.560

तत्पत्राणि पवित्राणि पतितानि भुवः स्थले ।
दृष्ट्वा समादायैतानि निपुणः सर्वकर्मसु ॥

1.561

तानि स्वकरतः शीघ्रं कृत्वा पत्रपुटं त्वरन् ।
कस्मैचिद्विप्रपुत्राय पात्राय जलकांक्षिणे ॥

1.562

समुद्युक्ताय पातुं तज् जलं भूमिगतं कथम् ।
पास्यामि सलिलं वेति समालोकयतेतराम् ॥

1.563

पिबत्यनेकतरसा पितृप्रीत्यै पित्ःन् महान् ।
स्मृत्वा ददौ तदा ते ऽपि समागत्यातिसत्वरम् ॥

1.564

तावन्मात्रेण संतुष्टा गयाश्राद्धशताधिकात् ।
अतिहर्षं गताः सद्यस् तमेनं भूरितेजसम् ॥

1.565

आशीर्भिश्च प्रशस्ताभिः प्रत्यक्षेणैनमीक्ष्य ते ।
परं तृप्ताः स्मेति चोक्त्वा त्वं कृतार्थो महानसि ॥

1.566

शास्त्रार्थधर्मतत्त्वज्ञस् त्वमस्मत्परितृप्तिकृत् ।
इत्युक्त्वाभाष्य ते तेन तत्पदं चक्रपाणिनः ॥

1.567

पश्यतस्तस्य पुरतो जग्मुः किल सुरोत्तमैः ।
प्रार्थनीयं विशेषेण सो ऽयमेतादृशो महान् ॥

1.568

पित्ःणां पनसः श्रीमान् वल्लभः परमो महान् ।
कारश्च कारवल्लीकः कारुकः कालिको करुत् ॥

1.569

पञ्चैते ब्रह्मपुरतो देवानां शृण्वतां तदा ।
इदमूचुर्वचो दुःखाद् अस्माकमपि सन्ति हि ॥

1.570

कण्टकानि ततो भूयः खराणि सुमहान्त्यपि ।
त्वमस्माकं तु तत्साम्यं किमर्थं नाकरोर्विभो ॥

1.571

इत्येवमतिदैन्येन पौनःपुन्येन केवलम् ।
रुरुदुः किल दुःखार्तास् तानेतांस्तादृशान्विभुः ॥

1.572

नाकिनां पुरतो भूयः प्रहसन् वाक्यमब्रवीत् ।
यन्माहात्म्यसुमहतो जन्मसिद्धातिसुश्रियः ॥

1.573

दृष्ट्वा विभूतिं परमाम् असहन्नेव केवलम् ।
तत्साम्यमिच्छुरारान्मे रोदनं कृतवानसि ॥

1.574

तस्मादेतत्प्रभृति ते भुवने ये दरिद्रतः ।
श्राद्धैककरणाशक्ता अष्टोत्तरशतेष्वपि ॥

1.575

श्राद्धेषु केषुचित्काल विशेषेषु कथंचन ।
रोदनाच्छ्राद्धकरण फलं ते प्राप्नुयुः परम् ॥

1.576

यस्मादत्यम्लवचनं मत्पुरः प्रोक्तवानसि ।
देवानां शृण्वतां चापि तस्मात्त्वं श्राद्धकर्मसु ॥

1.577

नित्याम्लयुक्तो वर्तस्व कार रे रे कृती भव ।
कारवल्ल्यादयो यूयं स्वेषां कण्टकसाम्यतः ॥

1.578

तत्साम्यचेतसो यस्माद् अङ्गीकुर्मश्च सांप्रतम् ।
युष्मान् श्राद्धेषु सर्वेषु तद्योग्या भवतैव वै ॥

1.579

तत्साम्यं तत्त्रयस्यैव मिलित्वैव पृथङ् न तु ।
नित्यं शाकसहस्रस्य बृहत्यादेस्तु वो न तु ॥

1.580

युष्माकं श्राद्धयोग्यत्व मात्रं मद्वचसा मतम् ।
सकण्डकबृहत्यस्ता मनसा पूर्वमेव वै ॥

1.581

साम्यं कण्टकतस्तस्य पनसस्य त्वकामयन् ।
युष्मदीयमिमं वृत्तं ज्ञात्वा तूष्णीं व्यवस्थिताः ॥

1.582

अतिचातुर्यतो ऽतीव निपुणाश्च विचक्षणाः ।
ज्ञात्वा तद्धृदयं सर्वम् अवलेपं तथाविधम् ॥

1.583

सर्वं ज्ञात्वा विधास्यामि लोकेष्वद्य च श्रूयताम् ।
मन्वादिषु मदीयेषु युगादिषु चतुर्ष्वपि ॥

1.584

अष्टकासु च पुण्यासु संक्रान्तिषु च वृद्धिके ।
नैमित्तिके च तासां स्याद् अयोग्यत्वं तथाविधम् ॥

1.585

तत्र चैतासु याः क्रूराः प्रेतकर्मणि ताः पराः ।
संभवन्तु न चान्येषु मर्यादैव मया कृता ॥

1.586

एतस्मिन्नन्तरे तत्र देवसृष्टो ऽतिसुन्दरः ।
पत्रपुष्पमहावल्ली शलाटुफलसंवृतः ॥

1.587

समागत्यातिचपलात् कैलासाद्धरणीधरात् ।
नत्वा बद्धाञ्जलिपुटश् चोर्वारुर्मम का गतिः ॥

1.588

इति चोवाच लोकेशं भगवन्तं पितामहम् ।
तादृशं तं समुद्वीक्ष्य गौरीवाक्येन केवलम् ॥

1.589

शम्भुना लोकनाथेन सृष्टं शुद्धैकविग्रहम् ।
समागतं महाप्रह्वं महागुरुषु वत्सलम् ॥

1.590

शुद्धसत्वं दूरगर्वं ज्ञात्वा तं सर्वसुन्दरम् ।
अतिप्रशस्यं चोवाच देवानां पुरतो विभुः ॥

1.591

त्वमुर्वारो स्थाणुसृष्टो भवानीवचसा यतः ।
स्वयं प्रकृत्या च महान् शान्तो दान्तो महामनाः ॥

1.592

गुरुप्रियो विनीतश्च सततं गुरुवत्सलः ।
अवलेपैकरहितश् चाद्यप्रभृति भूतले ॥

1.593

दैविकेषु च पित्र्येषु कल्याणेषु नवेषु च ।
नैमित्तिकेषु नित्येषु काम्येषु सकलेष्वपि ॥

1.594

कृत्स्नक्रियाविशेषेषु बालवृद्धातुरादिषु ।
नित्ययुक्तः सदा योग्यः शलाटूनां दशासु च ॥

1.595

दशास्वेव फलानां च शाश्वतो भव शाश्वतः ।
पित्ःणां सर्वदात्यन्तं वल्लभः परमो भव ॥

1.596

वसन्तमाधवस्य त्वं ग्रीष्ममृत्युंजयस्य च ।
महावर्षा सप्ततन्तुः शरत्काल्यस्तथा पुनः ॥

1.597

हेमन्तवनराजन्यः शिशिरः शीतलः शिवः ।
सुखाकरः शुभकरो नित्यकल्याणकारकः ॥

1.598

प्रथितो भव सर्वेषां पानसैराम्रकैः शिवैः ।
रम्भाभिस्तुलितो भूयः कदाचिदधिकस्तथा ॥

1.599

विद्वत्स्तुत्यो राजमान्यो त्वज्जातीयकषोडशैः ।
संग्राह्यो भव सर्वत्र सर्वनेत्रप्रियो ऽनिशम् ॥

1.600

सर्वदा सर्वसंवृद्धो भवोर्वारो ऽतिवर्धितः ।
मरुत्कृतौ तु त्वद्बीज विक्षेपणमुखादितः ॥

1.601

फलबीजसमुत्पत्ति पर्यन्तं किल सर्वदा ।
तदिष्टित्रयतः शुद्धो महान्मन्त्रपरिष्कृतः ॥

1.602

त्रयस्त्रिंशत्कोटिसंख्य देवानां वल्लभो भव ।
इति स्तुतः पूजितश्च शासितो विहितो ऽनघः ॥

1.603

अत्यन्तपितृतृप्त्यैक कारकः किल कारितः ।
उर्वारुस्तादृशः प्रोक्तः संग्राह्यः श्राद्धकर्मसु ॥

1.604

तादृशं तमिमं यो वै मौढ्याच्छ्राद्धेषु संत्यजेत् ।
सद्य एव पितुर्द्रोही भवेदेव न संशयः ॥

1.605

देवद्रोही श्रुतिद्रोही सर्वद्रोही स एव हि ।
विधिघ्नः श्राद्धहन्ता स्यात् तानीमानि प्रवच्म्यतः ॥

1.606

अमामनुयुगक्रान्ति धृतिपातमहालयाः ।
तिस्रो ऽष्टका गजच्छाया षण्णवत्यः प्रकीर्तिताः ॥

1.607

मासिश्राद्धानि तान्येवं मासि मासि कृतानि वै ।
अष्टोत्तरशतानि स्युस् तानीमानि ततः पुनः ॥

1.608

पित्रोर्मृताहः कथितो ऽलङ्घनीयः कथंचन ।
रविं च प्रथमे पादे कविं चैव द्वितीयके ॥

1.609

त्रयोदश तृतीये स्याद् अमाव्याख्यानमुच्यते ।
पुनर्निरूप्यते स्पष्टम् अमावाक्यस्य सांप्रतम् ॥

1.610

अमावास्या द्वादश स्युर् मनवस्तु चतुर्दश ।
युगादयश्च चत्वारः क्रान्तयो द्वादश स्मृताः ॥

1.611

धृतयश्चापि पाताश्च त्रयोदश त्रयोदश ।
महालयाः पञ्चदश अष्टका द्वादश स्मृताः ॥

1.612

गजच्छाया तथा चैका षण्णवत्य इतीरिताः ।
प्रतिमासं प्रकर्तव्य त्वेन तानि च सांप्रतम् ॥

1.613

कीर्तितानि द्वादश हि मिलित्वैते ऽखिलान्यपि ।
अष्टोत्तरशतानि स्युः श्राद्धानि विहितानि वै ॥

1.614

प्रतिवर्षं प्रयत्नेन ब्राह्मणस्य महात्मनः ।
अमावास्यास्तत्र कॢप्ता मासान्ता नित्यमेव वै ॥

1.615

अत्रैव पितृयज्ञश्च कर्तव्यत्वेन चोदितः ।
श्रुत्युक्तो ऽयं पित्ःणां स्याद् अतितृप्त्यैककारकः ॥

1.616

श्राद्धानां प्रकृतित्वेन चोदितः स्मृतिकर्तृभिः ।
नैतस्मात्तु परं श्राद्धं विद्यते यत्र कुत्रचित् ॥

1.617

श्रुत्युक्तमेतदेव स्याद् एतन्मात्रे कृते तु चेत् ।
सर्वाण्यपि कृतानि स्युर् अथवैतद्दिने तु यैः ॥

1.618

श्राद्धं वै क्रियते तद्वा प्रकृतिश्चेति वै जगुः ।
इतरैः सर्वपित्र्याणां श्रुतितो ब्रह्मवादिनः ॥

1.619

यदनुष्ठानतः सर्वा -नुष्ठानं जायतेतराम् ।
तदेव प्रकृतिः प्रोक्ता हि कैश्चिद्ब्रह्मवादिभिः ॥

1.620

दर्शानुष्ठानतः सर्व श्राद्धानि स्युः कृतानि वै ।
इति सर्वे त्रयो लोकास् तूष्णीं तिष्ठन्ति केवलम् ॥

1.621

न केनापि च तस्मात्तु दर्शः संत्यज्यते परः ।
दर्शमात्रे ऽनुष्ठिते ऽस्मिन् येन केन प्रकारतः ॥

1.622

सर्वाण्यनुष्ठितानि स्युर् इति वै लोकसंस्थितिः ।
न तत्र साक्षाच्छ्राद्धं च क्रियते येन केन वा ॥

1.623

क्रियते कृतिना तत्तु भूतले येन केनचित् ।
तेनाप्युदकमात्रेण श्राद्धेनापि कृतेन वै ॥

1.624

सर्वाण्यपि कृतान्येवेत्य् एवं सर्वैकनिश्चयः ।
स दर्शस्तादृशस्यानु -ष्ठाता यो ब्राह्मणोत्तमः ॥

1.625

अग्निहोत्री स एव स्याद् दर्शयाज्यक्षयान्यपि ।
सोमयाजी सर्वयाजी तत्त्यागी ब्रह्मघातकः ॥

1.626

स एव कर्मचण्डालस् तमेनं ब्रह्मघातकम् ।
दृष्ट्वा समागतं पापं वाङ्मात्रेणापि नार्चयेत् ॥

1.627

प्रकृतिश्राद्धमात्रश्च दर्श एव न चापरः ।
पितृयज्ञमुखादेव प्रकृतित्वं तदीरितम् ॥

1.628

तत्तैव विहितो ऽयं हि पितृयज्ञः श्रुतीरितः ।
दर्शो मृताहश्च समौ न कदाचित्तु शक्यते ॥

1.629

येन केनापि वा त्यक्तुं तत्त्यागी चेत्पतत्यधः ।
पित्रोर्मृताहस्त्वन्नेन कार्यः स्यात्तु न चान्यतः ॥

1.630

न हेम्नान्नेन होमेन पिण्डदानेन मन्त्रतः ।
अक्षेण शष्पैर्मन्त्रैर्वा न दुःखेन तदाचरेत् ॥

1.631

किं त्वग्नौकरणाद्ब्रह्म भोजनात्पिण्डदानतः ।
कृतं भवति तत्कर्म न चेच्चण्डालतां व्रजेत् ॥

1.632

मृताहो ऽलङ्घनीयः स्याद् दर्शश्चापि तथाविधः ।
येन केन प्रकारेण शक्यते किल दुर्बलैः ॥

1.633

अकिंचनैर्दुर्बलैर्वा व्याधितैर्वा विशेषतः ।
बाधितैर्धावमानैर्वा ऽज्ञातवासिभिरेव वै ॥

1.634

नष्टक्रियैर्नष्टधनैर् मृतप्रायैरथापि वा ।
त्युक्तुं न शक्यते श्राद्धं मृताहाख्यं कथंचन ॥

1.635

मृताहस्तादृशः कॢप्तः प्रतिवर्षं च चान्द्रतः ।
मानेनैव भवेन्नूनम् अकॢप्तो ऽन्येन चेद्भवेत् ॥

1.636

अत्यन्तावश्यको न स्याद् अकॢप्तश्चेत्तु यो भवेत् ।
कॢप्तस्यावृत्तिरित्येव मर्यादा शास्त्रसंमता ॥

1.637

तिथ्यग्नी न तिथिस्तिथ्याशे कृष्णेभो ऽनलो ग्रहाः ।
तिथ्यर्कौ न शिवो ऽश्वो ऽमा तिथी मन्वादयः स्मृताः ॥

1.638

तस्मात्तु कॢप्ता इत्युक्तास् ततश्च क्रान्तयः स्मृताः ।
सूर्यराशिक्रमणतश् चा ऽकॢप्ता इत्युदीरिताः ॥

1.639

अयने द्वे च विषुवौ चतस्रः षडशीतयः ।
चतस्रो विष्णुपद्यश्च संक्रमा द्वादश स्मृताः ॥

1.640

स्थिरभेष्वर्कसंक्रान्तिर् ज्ञेया विष्णुपदाह्वया ।
षडशीतिमुखं ज्ञेयं द्विस्वभावेषु राशिषु ॥

1.641

सौम्ययाम्यायने नूनं भवतो मृगकर्कटौ ।
तुलामेषोभयं ज्ञेयं विषुवं सूर्यसंक्रमे ॥

1.642

अहःसंक्रमणे पुण्यम् अहः कृत्स्नं प्रकीर्तितम् ।
रात्रौ संक्रमणे भानोर् व्यवस्था सर्वकर्मसु ॥

1.643

सौम्ययाम्यायनद्वन्द्वे विशेष इति वै जगुः ।
अतीत्याप्राप्य तत्कालं पुण्यकाल उदाहृतः ॥

1.644

संक्रान्तिष्वखिलास्वेवं तत्कालः पुण्यदः स्मृतः ।
या याः सन्निहिताः नाड्यस् तास्ताः पुण्यतमाः स्मृताः ॥

1.645

अयने द्वे च विषुवे चतस्रः षडशीतयः ।
चतस्रो विष्णुपद्यश्च संक्रमा द्वादश स्मृताः ॥

1.646

त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः स्मृताः ।
वर्तमाने तुलामेषे नाड्यस्तूभयतो दश ॥

1.647

षडशीत्यां व्यतीतायां षष्टिरुक्ताः प्रणाडिकाः ।
पुण्यायां विष्णुपद्यां च प्राक् पश्चादपि षोडश ॥

1.648

अर्धरात्रात्तदूर्ध्वं वा संक्रान्तौ दक्षिणायने ।
पूर्वमेव दिने कुर्याद् उत्तरायण एव वै ॥

1.649

यद्यत्तु पैतृकं कर्म श्राद्धमन्नेन चेत्पुनः ।
कुतपे तद्धि कुर्वीत तद्भिन्नस्य तु चेदयम् ॥

1.650

विधिः ख्यातो न सन्देहो धर्मविद्भिः सनातनैः ।
ओदनश्राद्धमात्रस्य संक्रान्तीनां च कृत्स्नशः ॥

1.651

द्वादशानां तथान्येषां कुतपो मुख्य उच्यते ।
तद्भिन्नस्नानदानादि तर्पणादिषु ते स्मृताः ॥

1.652

तदा तदा तु विहिता एते कालविशेषकाः ।
श्राद्धकर्तुस्तु सर्वत्र कृतिनः काल एककः ॥

1.653

कुतपो वेदवचसा मुख्यः प्रोक्तो न चेतरः ।
सो ऽपि यस्मिन् दिने सम्यग् दक्षिणायनकालकः ॥

1.654

तमुत्तरायणे कुर्याद् उत्तरायणमेव हि ।
कुतपस्य तु यत्र स्याल् लोभपूर्वं तथाचरेत् ॥

1.655

तत्क्रान्तियुग्मश्राद्धादि कृत्यं सर्वं यथा लभेत् ।
औत्तरे ह्ययने सम्यक् कुतपे ऽस्मिन् तथाचरेत् ॥

1.656

संक्रत्तिमात्राः कथिता अकॢप्ता इति सूरिभिः ।
एवं धृतिश्च पातश्च षड्विंशतिकसंख्यया ॥

1.657

कथिताः किल सर्वाण्यप्य् अकॢप्तान्येव केवलम् ।
महालया बहुविधाः पूर्वं पञ्चदशेति वै ॥

1.658

षोडशैवेति केचित्तु दशेति च तथापरे ।
पञ्चैवेति त्रयं चेति एकमेवेति केचन ॥

1.659

षोढा ताः कथिताः सद्भिर् अष्टका द्वादश स्मृताः ।
यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः ॥

1.660

याम्या तिथिर्भवेत्सा तु गजच्छाया प्रकीर्तिता ।
कर्माणि कानि ख्यातानि त्रिदैवत्यानि केवलम् ॥

1.661

षड्दैवत्यानि कानि स्युर् नवदैवत्यकानि च ।
तत्रादौ तु त्रिदैवत्यं मृताहस्त्वेक उच्यते ॥

1.662

षड्दैवत्यस्तु दर्शः स्याद् अष्टका नवदेवताः ।
अष्टकासु च वृद्धौ च गयायां च मृते ऽहनि ॥

1.663

मातुः श्राद्धं पृथक् कुर्याद् अन्यत्र पतिना सह ।
पतिना सह कर्तव्यं पृथक्त्वेन कृते यदि ॥

1.664

तत्पैतृकमहासङ्ग सौख्यविघ्नकरं भवेत् ।
पितृवर्गस्तु पूर्वं स्यान् मातृवर्गस्ततः परम् ॥

1.665

ततो मातामहानां च वर्गो ऽयं तत्कलत्रतः ।
पितृवर्गो यत्र पूर्वं तत्र स्यादप्रदक्षिणम् ॥

1.666

अपसव्यं तथा शून्य ललाटं प्रभवेदपि ।
यत्र यत्रा ऽपसव्यं स्यात् तत्र तत्रा ऽप्रदक्षिणम् ॥

1.667

तथा शून्यललाटं च प्रधानाङ्गे च तत्स्मृतम् ।
यत्रैतत्त्रितयं तत्र गृहालंकरण न तु ॥

1.668

मातृवर्गो यत्र पूर्वं तत्र स्यात्तु प्रदक्षिणम् ।
सव्यं पुण्ड्रललाटं च मङ्गलस्नानमेव च ॥

1.669

गृहालंकरणं चापि मङ्गलानि तथा पुनः ।
पित्ःणां च क्रमो मुख्यो भवत्यपि च सन्ततम् ॥

1.670

प्रपितामहपूर्वं स्यात् तत्पितामहमध्यकम् ।
पित्रन्त एव कथितं तदुच्चारणलक्षणम् ॥

1.671

तेषां च विश्वेदेवास्ते सत्यसंज्ञिकनामकाः ।
सर्वत्र वृद्धशब्दश्च प्रयोक्तव्यश्चतुर्ष्वपि ॥

1.672

तथैव मातृवर्गे ऽपि तार्तीयीके च वर्गके ।
जननक्रमतश्चेदं तेषामुच्चारणं भवेत् ॥

1.673

एतद्विरुद्धं तत्सर्वं तद्विरुद्धमिदं परम् ।
निःशेषमिति बोद्धव्यं ते सर्वे देवताः किल ॥

1.674

वसवः पितरो ऽत्र स्यू रुद्राश्चापि पितामहाः ।
प्रपितामहाश्च कथिता आदित्या इति तद्गणाः ॥

1.675

एतत्त्रयात्पूर्वकस्य चतुर्थस्य सकृत्किल ।
श्राद्धस्य करणं प्रोक्तं पाथेयाख्यस्य सूरिभिः ॥

1.676

तदेवं सप्तपूर्षाख्यं सापिण्ड्यस्य निरूपणम् ।
तावत्तु सूतकं सर्वं तज्जानां संप्रकीर्तितम् ॥

1.677

समानोदकसंज्ञाश्च ततो भूयः सगोत्रिणः ।
तदूर्ध्वमिति विज्ञेयं तेषां तत्सूतकं ततः ॥

1.678

त्रिदिनं चैकदिवसं पश्चात्स्नानं च बोधितम् ।
क्रमेणैव परं यावत् तावत्पर्यन्तमेव वै ॥

1.679

स्नानमात्रं च कथितं प्रसंगादिदमीरितम् ।
जीवच्छ्राद्धं तु तत्प्रोक्तं सर्वश्राद्धविलक्षणम् ॥

1.680

चत्वारिंशद्देवताकम् अथवा पञ्चसंख्यया ।
पुनः समेतं तत्प्रोचुर् अतस्तद्द्विविधं स्मृतम् ॥

1.681

श्राद्धानि कानिचिद्भूयो देवतासहितान्यपि ।
अदैविकानि च पुनस् तानीमानि च भण्यते ॥

1.682

वृद्धिश्राद्धं गयाश्राद्धं हतश्राद्धं तथैव च ।
दधिश्राद्धं तृणश्राद्धम् अमादीन्यखिलान्यपि ॥

1.683

सदैविकानि ख्यातानि प्रेतश्राद्धानि कृत्स्नशः ।
अदैविकानि प्रोक्तानि सोदकुम्भानि कृत्स्नशः ॥

1.684

प्रेतश्राद्धेषु सर्वत्र संकल्पो मुख्यतः स्मृतः ।
अभ्यनुज्ञापि परमा सा चात्रावाहनं मतम् ॥

1.685

सपाद्यार्घ्यगन्धधूप दीपपुष्पाणि केवलाः ।
तिलाः सर्वत्र तूष्णीका कृत्स्नं वेदमनु विना ॥

1.686

तत्र पूजा प्रकर्तव्या पिण्डदानं च दक्षिणा ।
आवश्यक्यत्र परमा दध्याज्ये वस्त्रमेव च ॥

1.687

पूर्वाह्ण एव कुर्वीत कुतपं नावलोकयेत् ।
पिण्डानि वायसेभ्यो वा गृध्रेभ्यो वा निवेदयेत् ॥

1.688

न चेज्जलचरेभ्यो वा नान्यत्र तु विनिक्षिपेत् ।
भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥

1.689

मित्राय गुरवे श्राद्धं पितुर्मातुः स्वसुस्तथा ।
श्वशुराय श्यालकाय चैकोद्दिष्टं न पार्वणम् ॥

1.690

युगक्रान्तिमनुश्राद्धं प्रेतश्राद्धादिकं तथा ।
अपिण्डकानि ख्यातानि सपिण्डानीतराणि च ॥

1.691

महालयषोडशत्वे गजच्छाया ऽत्र नो भवेत् ।
षण्णवत्यत्वसंख्यायै सा हि पञ्चदशत्वतः ॥

1.692

यया कया संख्यया वा तया षड्विधया भवेत् ।
महालयत्वस्य सिद्धिर् विशेषे तु फलं तथा ॥

1.693

सर्वत्रैवं समाख्याता प्रयासाधिक्यतः फलम् ।
प्रभवत्येव सुमहन् नात्र कार्या विचारणा ॥

1.694

महालयः पाक्षिको ऽयं द्विविधः परिकीर्तितः ।
एकविप्रानेकविप्र भेदेन किल तत्र वै ॥

1.695

एकविप्राख्यपक्षस्य स्वरूपं वच्मि पूर्वतः ।
महालयानां सर्वेषाम् आपक्षान्तस्य केवलम् ॥

1.696

ये वृताः प्रथमदिवसे वान्येषां च केवलम् ।
त एव नान्ये कर्तव्याः पक्षान्ते श्राद्धदक्षिणा ॥

1.697

एकदैव हि देया स्यान् न देया स्यात्तदा तदा ।
अनेकविप्रपक्षे तु प्रतिनित्यं च बाडवाः ॥

1.698

भिन्नभिन्नाः प्रकर्तव्याः प्रतिनित्यं पृथक् पृथक् ।
दक्षिणा च प्रदातव्या प्रतिपूर्षं पृथक् पृथक् ॥

1.699

प्रतिवर्गं न चेद्विप्रा वरणीया विधानतः ।
षड्दैवत्यं तु सर्वत्र नवदैवत्यमेव वा ॥

1.700

ख्यातो महालयः सद्भिः षड्विधो ऽपि महालयः ।
एवमेव प्रकर्तव्यो नान्यथा तं समाचरेत् ॥

1.701

चरेद्यदि विशेषेण नानादैवतकेन वै ।
सकृन्महालयः सो ऽयं स भवेत्किं तु स स्मृतः ॥

1.702

गयाश्राद्धसमः को ऽपि कथितः परमो महान् ।
अनिर्वाच्यो ऽखिलैः शास्त्रैर् महाश्राद्धविशेषकः ॥

1.703

तादृशश्राद्धकर्ता ऽपि षड्दैवत्येन संयुतम् ।
नवदैवतकेनापि विष्णुना वा समन्वितम् ॥

1.704

धुरिलोचनसंयुक्तं कुर्याच्छ्राद्धं महालयम् ।
सकृत्पक्षेण वा पूर्व प्रोक्तपक्षेषु येन वा ॥

1.705

पक्षेण केनचित्कुर्यात् स महालयकृद्भवेत् ।
न चेदयं गयाश्राद्ध तुलितं यं च कंचन ॥

1.706

पुण्यं श्राद्धविशेषं वै कुर्यादेवेति सा श्रुतिः ।
दिने दिने गयातुल्य भरण्यां गयपञ्चकम् ॥

1.707

दशतुल्यं व्यतीपाते पक्षमध्ये तु विंशतिः ।
द्वादश्यां शतमित्याहुर् अमायां तु सहस्रकम् ॥

1.708

आषाढीमवधिं कृत्वा यस्याः पक्षस्तु पञ्चमः ।
महालय इति प्रोक्तः पित्ःणां श्राद्धसंपदे ॥

1.709

तत्र पक्षे यतीनां तु द्वादश्यां श्राद्धमाचरेत् ।
चतुर्दश्यां विशेषेण दुर्मृतानां चरेत्क्रियाम् ॥

1.710

सुमङ्गलीनां कथितं नवम्यां श्राद्धमेककम् ।
अश्रोत्रियकलत्राणां यावत्तद्भर्तृवर्तनम् ॥

1.711

प्राणिलोके ततस्तत्तु कुर्याद्वा न तु वा द्वयम् ।
एतदस्ति ह्यनुष्ठानं सकृन्महालये तु चेत् ॥

1.712

यावत्पैतृकधर्माः स्युस् तुलितस्तेन स स्मृतः ।
अतीतो यदि पक्षः स तद्भिन्ने ऽपरपक्षके ॥

1.713

तदन्यस्मिन् तादृशे वै तदन्यस्मिन् तथाविधे ।
यावत्तु वृश्चिकस्तिष्ठेत् तावत्तत्तु समाचरेत् ॥

1.714

अदर्शने वृश्चिकस्य जाते तत्पितरः परम् ।
धनुर्मासे तु संप्राप्ते श्राद्धाकरणमीक्ष्य वै ॥

1.715

सद्यः शापप्रदानायोद् युक्ता एव भवन्ति वै ।
तावदेव ततो भक्त्या श्राद्धं महालयाख्यकम् ॥

1.716

विधिनैव प्रकुर्वीत न चेद्दोषो महान् भवेत् ।
येन केन प्रकारेण ततश्च श्राद्धमेककम् ॥

1.717

कुर्यादेव पितुः श्राद्ध तुल्यं प्रत्यब्दमेव वै ।
प्रत्यब्दधर्मा निखिलाः सकृन्महालयस्य ते ॥

1.718

भवेयुरेव तस्मात्तु परे ऽहन्येव तर्पणम् ।
श्राद्धे यावन्त उद्दिष्टास् तत्परे ऽहनि तान् यजेत् ॥

1.719

तच्छेषतिलदर्भैस्तु पूर्वं सूर्योदयस्य वै ।
प्रनष्टपितृकश्चेत्तु तर्पणस्याधिकार्ययम् ॥

1.720

स प्रनष्टप्रसूर्नित्यं तर्पणे ऽधिकृतो भवेत् ।
मासिश्राद्धे पितृयज्ञे नान्दीश्राद्धे च सन्ततम् ॥

1.721

जीवत्तातो ऽपि कर्ता स्याद् आ होमात्करणं स्मृतम् ।
पूर्वद्वये तु सततं नान्दीश्राद्धं तु सर्वदा ॥

1.722

येषामेव पिता दद्यात् तेभ्यो दद्यात्तु तत्सुतः ।
ताते भ्रष्टे च संन्यस्ते रुग्णे रोगैकपीडिते ॥

1.723

यत्कर्तव्यं तेन कर्म पैतृकं तत्सुतश्चरेत् ।
पित्रोः श्राद्धं स्वपत्न्याश्च सपत्नीमातुरेव च ॥

1.724

मातामहस्य तत्पत्न्याः श्राद्धमौपासने भवेत् ।
तद्भिन्नानां तु सर्वेषां श्राद्धं स्याल्लौकिकानले ॥

1.725

अपुत्राणां पितृव्यानां भ्रात्ःणामग्रजन्मनाम् ।
तत्पत्नीनां च सर्वासां लौकिकाग्नौ यथाविधि ॥

1.726

अवश्यत्वेन कर्तव्यं न त्याज्यं धर्मतो ऽखिलैः ।
प्रत्यब्दं श्राद्धमात्रं स्यात् पितृश्राद्धसमानतः ॥

1.727

माघकृष्णाष्टमी यस्यां रात्रौ कुर्यात्समन्त्रकम् ।
होमं दध्यञ्जलिस्तस्या पूपस्य स्थानके ततः ॥

1.728

नवम्यां तु ततो भक्त्या श्राद्धं कुर्याद्विधानतः ।
मासिश्राद्धविधानेन तावन्मात्रेण केवलम् ॥

1.729

तानि शिष्टानि सर्वाणि ह्य् एकादश किला ऽष्टकाः ।
कृता एव भवेन्नूनं लघूपायो ऽयमुच्यते ॥

1.730

अष्टकासु यथा दर्श श्राद्धतो ऽखिलपैतृकाः ।
कृतप्राया इति तथा लघूपायः प्रकीर्तितः ॥

1.731

सर्वाणि पृथगेव स्युः कार्याणि नियमेन वै ।
अष्टोत्तराणि ख्यातानि कदाचित्तु विशेषतः ॥

1.732

असमर्थस्य तु प्रोक्तो लघूपायस्तु कश्चन ।
समर्थस्तु यथाकल्पं प्रतिसंवत्सरं द्विजः ॥

1.733

सर्वाणि कुर्याच्छ्राद्धानि न चेद्दोषश्च कीर्तितः ।
श्राद्धप्रयोगश्च मया कृत्स्न एवोच्यते ऽधुना ॥

1.734

निमन्त्रणं च पूर्वेद्युः प्रकर्तव्यं विधानतः ।
विप्राणां वेदिनां नित्यं कार्यं ना ऽवेदिनां तराम् ॥

1.735

कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यते ।
कुलं तारयते तेषां दश पूर्वान् दशा ऽपरान् ॥

1.736

वेदाध्यायी तु यो विप्रः सततं ब्रह्मणि स्थितः ।
साचारः साग्निहोत्री च सो ऽग्निर्वै कव्यवाहनः ॥

1.737

मन्त्रपूतं तु यच्छ्राद्धम् अमन्त्राय प्रयच्छति ।
तदन्नं तस्य कुक्षिस्थं रुदत्येव न संशयः ॥

1.738

शपत्येनं प्रदातारं स्वस्य तं तादृशं किल ।
यजनं च प्रदातारं तदन्नं तद्धृदि स्थितम् ॥

1.739

यावतः पिण्डान् खलु स प्राश्नाति हविषो ऽल्पकः ।
तावतः शूलान् ग्रसति प्राप्य वैवस्वतं यमम् ॥

1.740

दातृहस्तं च छिन्दन्ति जिह्वायमितरस्य च ।
पश्यतश्चक्षुषी चैव शृण्वतः श्रोत्रयुग्मकम् ॥

1.741

दुर्लभायां स्वशाखायां भोक्त्ःनन्यान्निवेदयेत् ।
पित्रोः श्राद्धे विशेषेण स्वशाखीयान्निवेदयेत् ॥

1.742

कन्यादानं पितृश्राद्धं शुद्धकच्छेभ्य एव च ।
प्रदेयं स्यात्प्रयत्नेन नासत्कच्छेभ्य एव वै ॥

1.743

रोगयुक्तं दुष्टबुद्धिं दुष्टचारित्रतत्परम् ।
सदोषकं च सद्वेषं कुनखं श्यावदन्तकम् ॥

1.744

नित्या ऽप्रयतवर्ष्माणं दुर्वर्णं च कुरूपिणम् ।
नक्षत्रजीवनं दास कृत्यं शूद्रैकजीविनम् ॥

1.745

शूद्रैकयाजकं शूद्र पुष्टं शूद्रनिकेतनम् ।
शूद्रप्रतिग्रहपरं नित्ययाचकमेव च ॥

1.746

तथा पल्लविकं क्रूरम् आत्मसंभाविनं शपम् ।
अतिमानिनमग्राह्यं निष्क्रियं वेदनिन्दकम् ॥

1.747

वेदविक्रयिणं नित्यं ग्रामयाजकमेव च ।
ब्रह्मविद्वेषिणं चैव ब्रह्मस्वहरणोन्मुखम् ॥

1.748

परदारपरं दुष्टं परदारैकचिन्तकम् ।
त्यक्तभार्यं दत्तपुत्रं पुत्रविक्रयिणं तथा ॥

1.749

मातापित्रोरुपोष्टारं गुरुद्रोहिणमेव च ।
धनसंग्रहणोद्युक्त मानसं धनिनं कटुम् ॥

1.750

निर्दयं दानविमुखं नास्तिकं परदूषकम् ।
मणिकारस्वर्णकार रजकादिपुरोहितम् ॥

1.751

अधिकाशमतृप्तं च दुर्वादं दाम्भिकं जडम् ।
वेदकर्मत्यागपूर्व शास्त्रमात्रकृतश्रमम् ॥

1.752

नास्तिकं किंभविष्यन्त मृणिनं त्यक्तवेदकम् ।
त्यक्तस्नानं त्यक्तसंध्यं निवृत्तक्षुरकर्मकम् ॥

1.753

कृतार्धक्षुरकर्माणं तुच्छं विकसितमेहनम् ।
फल्गुं कुब्जं तथा चान्धं बधिरं भ्रान्तमुल्बणम् ॥

1.754

उन्मत्तं दुर्बलं सन्नं कोपिनं कुनखं रतम् ।
कुण्डकं गोलकं व्रात्यम् अशुचिं परसूतकम् ॥

1.755

परान्निनं पराधीनं कर्षकं वार्धुषिं वृषम् ।
नृपवृत्तिं वैश्यवृत्तिं शूद्रवृत्तिं दुराशयम् ॥

1.756

अत्यन्तचपलं श्रान्तम् अवीरापतिमेव च ।
तथैव गर्भिणीनाथम् अभोज्यान्नं दुरागसम् ॥

1.757

अश्रोत्रियसुतं कारु धृतवस्त्रं च दुःशठम् ।
गायकं व्रणिनं क्षुद्र भाषिणं तुच्छभाषकम् ॥

1.758

हास्यकारं नटं नाट्य विद्यं बुरुडकृत्यकम् ।
क्षुद्रजीवं कार्यजीवं नित्यवेतनजीविनम् ॥

1.759

न भोजयेत्प्रयत्नेन निमन्त्रणदिनात्परम् ।
दिनत्रयं वर्जयित्या वृणुयादतिचर्यया ॥

1.760

अनुमासिकभोक्तारं पक्षमात्रं परित्यजेत् ।
ऊनमासिकभोक्तारं मासमात्रं परित्यजेत् ॥

1.761

नग्नश्राद्धे वर्षमात्रं नवश्राद्धे तदर्धकम् ।
षोडशे सार्धवर्षं तु सपिण्डे च द्विवत्सरम् ॥

1.762

वर्जयित्वा द्विजं पश्चाद् ग्राहयेच्छ्राद्धकर्मणि ।
शूद्रामश्राद्धगं सम्यक् त्यजेद्वर्षत्रयं तथा ॥

1.763

नृपवैश्यश्राद्धभिस्सा भक्षकं सन्ततं तराम् ।
वर्जयेदब्दमात्रं तु ग्रामचण्डालकर्मसु ॥

1.764

आमश्राद्धगृहीतारं तद्दिने नावलोकयेत् ।
दिवारात्रमसंभाष्यो दिवाकीर्त्यपुरोहितः ॥

1.765

पुण्यकाले त्वसंभाष्यः कुलालानां पुरोहितः ।
भानुवारे भौमवारे शुक्रवारे च सन्ततम् ॥

1.766

असंभाष्यः प्रयत्नेन परसौनपुरोहितः ।
पर्वणोर्योगकालेषु द्विजवेश्यापुरोहितः ॥

1.767

नावेक्ष्या एव चैते वै यदि दृष्टास्तदा तदा ।
अग्नेर्मन्वे ऽनुवाकस्य पठनात्कृतकृत्यता ॥

1.768

तीर्थप्रतिग्रही दृष्टो यदि श्राद्धदिने तराम् ।
तीर्थजीवी तदावासी तत्पुरोहित एव च ॥

1.769

यदा दृष्टस्तदा सूर्यं पश्येमेति विलोकयेत् ।
त्रिपूर्षचर्यावृत्तान्तः स्पष्टो यस्य भवेत्तराम् ॥

1.770

तादृशं प्रयतं द्वान्तम् अलोलुपमदाम्भिकम् ।
यदृच्छालाभसन्तुष्टं श्रोत्रियं वेदिनं शुचिम् ॥

1.771

नित्याग्निं पूर्ववयसं सुधियं सत्कुलोद्भवम् ।
तस्मात्प्रत्युपकारैक रहितं सुमुखं द्विजम् ॥

1.772

समीक्ष्य वरयेत्सम्यग् ब्राह्मणं श्राद्धकर्मणि ।
आदौ संकल्प्य प्रयतः सपवित्रकरस्तथा ॥

1.773

दर्भपाणिः कृतप्राणाय् आमो ऽत्वरतरस्तराम् ।
अक्रोधनश्च सुमुखो वाचा संकल्पमाचरेत् ॥

1.774

देशं कालं च संकीर्त्य तथा च प्रकृते ततः ।
पित्ःन् देवान् प्राकृतान्वै समुद्दिश्य च प्राकृतम् ॥

1.775

करिष्ये कर्म चैवेति संकल्पं प्रथमं चरेत् ।
विश्वेषामत्र देवानां स्थानमाहवनीयके ॥

1.776

क्षणं कृत्वा प्रसादो ऽद्य करणीय उदीर्यते ।
इत्येवं दक्षिणे हस्ते दद्याद्दर्भान् द्विजस्य वै ॥

1.777

एतद्धै वरणं प्रोक्तं पित्ःणामेवमेव वै ।
कृत्वा तु वरणं पश्चाद् ओं तथेति च चोदिते ॥

1.778

कृत्वा तु मण्डलं शुद्धं गोमयेन विधानतः ।
मण्डलं पूजयित्वादौ दैवं पैतृकमेव च ॥

1.779

मण्डलात्पश्चिमे भागे ब्राह्मणे स्वागतीकृते ।
तत्रैव विसृजेत्पाद्यं क्षालयेन्मण्डलोपरि ॥

1.780

पादप्रक्षालनं श्राद्धे वरं स्याद्गुल्फयोरधः ।
पित्ःणां नरकं घोरं रोमसंसक्तवारिणा ॥

1.781

यदि स्याद्रोमसंसक्तं पादप्रक्षालने भवेत् ।
तद्दोषपरिहाराय आजानु क्षालयेत्परम् ॥

1.782

आदावन्त्ये च पाद्ये च विष्टरे विकिरे तथा ।
उच्छिष्टपिण्डदाने च षट्सु चाचमनं स्मृतम् ॥

1.783

कर्ता ऽनाचम्य यद्भोक्ता कुर्यादाचमनक्रियाम् ।
शुनो मूत्रसमं तोयं तस्मात्तत्परिवर्जयेत् ॥

1.784

उदङ्मुखस्तु देवानां पित्ःणां दक्षिणामुखः ।
प्रदद्यात्पार्वणे सर्वं देवपूजाविधानतः ॥

1.785

केचिद्रात्रौ तु पूर्वेद्युस् तद्दिने प्रातरेव च ।
कुतपे तद्दिने भूयस् त्रिवारं श्राद्धमूचिरे ॥

1.786

सकृदेवेति तज्जामि तया श्राद्धं प्रकुर्वते ।
तत्स्थाने वरणं कृत्वा श्राद्धं सर्वं प्रकुर्वते ॥

1.787

ओं भूर्भुवः सुवरिति स्वाहान्तमन्त्रो वै ततः ।
अयं वो विष्टरश्चेति प्रदद्याद्विष्टरं तथा ॥

1.788

स्वधाशब्दं पितृस्थाने सर्वत्रैवं विधीयते ।
अनेनैव तु मन्त्रेण तत्पूजा विहिता परा ॥

1.789

अयं हि परमो मन्त्रः पित्ःणामर्चने महान् ।
प्रयोक्तव्यः श्राद्धदिने मन्त्राः प्राकृतमातृकाः ॥

1.790

विश्वान् देवान् पित्ःन्वापि संबुध्योच्चार्य तत्परम् ।
पूर्वोक्तेनैव मन्त्रेण विष्टरं प्रतिपादयेत् ॥

1.791

षष्ठ्यन्तेनासनं दद्यात् क्षणश्च क्रियतामिति ।
क्षणं दद्यात्तु दर्भेण हस्तसंस्पर्शनेन वा ॥

1.792

प्राप्नुवन्तु भवन्तश्च तारपूर्वेण वै वदेत् ।
अर्घ्यं कृत्वा कृतः प्रोक्तः कर्तव्य इति चेत्ततः ॥

1.793

दर्भानास्तीर्य भूपृष्ठे तत्र पात्रमधोबिलम् ।
निक्षिप्य तदुपर्येवं दर्भैराच्छिद्य वै ततः ॥

1.794

उद्धृत्य प्रोक्ष्य तत्पात्रे यवान्निक्षिप्य शम्बरम् ।
भूर्भुवःसुवरापूर्व गन्धाक्षतसुमादिकम् ॥

1.795

तत्र निक्षिप्य तच्चाम्भस् तद्धस्ते ऽर्घ्यं प्रदापयेत् ।
आवाहनं च तत्पूर्वं परं वा तत्कृताकृतम् ॥

1.796

यदि कर्तव्यधीः स्याच्चेत् तदा व्याहृतिभिश्चरेत् ।
या दिव्या इति वा नो चेद् देवा वो ऽर्ध्यमिति ब्रुवन् ॥

1.797

दद्यात्तमर्घ्यं देवेभ्यः पितृभ्यश्च क्रमेण वै ।
आवाहने विश्वेदेवा उशन्तस्त्विति युग्मकम् ॥

1.798

उभयत्र प्रकथितं केचनात्रापरामृचम् ।
विश्वेदेवास इत्येकां विश्वेदेवेति वै पराम् ॥

1.799

आगच्छन्त्विति तां चापि देवार्थे प्रजपन्ति वै ।
पितृस्थान उशन्तस्त्वा आयन्तु न इतीव वै ॥

1.800

प्रजपेयुः केचनात्र तदेतत् कथितं परम् ।
कृताकृतं प्रकथितम् अनुक्ताबाधकं न तु ॥

1.801

वेदमात्रानुक्तितस्तु गन्धाक्षतयवादिकम् ।
धूपदीपदुकूलादि कृत्स्नं यज्ञोपवीतकम् ॥

1.802

सर्वं व्याहातेभिर्दद्यात् तूष्णीं वा तद्यथारुचि ।
ततो ऽग्नौ करणं कुर्याद् यदि पूर्वं स्वसूत्रतः ॥

1.803

अनुक्तमन्त्रैः काश्चित्तु कृताः स्युस्ताः क्रियास्ततः ।
तत्पूर्वकृतसंकल्प कर्ममध्याधिकत्वतः ॥

1.804

तत्किंचिद्विगुणीभूयात् तद्वैगुण्यत एव वै ।
पुनः संकल्पयित्वैव तत्पूर्वकक्रियां चरेत् ॥

1.805

सर्वत्रैवं विजानीयात् तत्तत्संकल्पकर्मसु ।
न चेदेकस्य संकल्प एकधैव भवेद्धि वै ॥

1.806

आसमाप्तेर्विधानेन प्रकृते पैतृके किल ।
अनुक्तमन्त्रपठनात् पुनः संकल्पमाचरेत् ॥

1.807

यद्युक्तमन्त्रमात्रेण यत्कर्म चलति स्थले ।
तत्कर्ममध्ये न पुनः संकल्पः प्रभवेद्धि वै ॥

1.808

तस्मात्संकल्पयित्वा ऽथ चाशैकरणमारभेत् ।
संपरिस्तीर्य विधिना दर्भैस्तैर्दक्षिणाग्रकैः ॥

1.809

अन्नमादाय पक्वात्तु चोपस्तीर्य ततः पुनः ।
मेक्षणेनान्नमादाय मन्त्रमेतं श्रुतीरितम् ॥

1.810

प्रतिकल्पैकपठितं सोमायेति हुनेद्धविः ।
तच्छेषेण यमायेति अग्नयेति च तत्परम् ॥

1.811

उद्देशत्यागमात्रं च प्राचीनावीतिनैव वै ।
समुच्चार्य पुनश्चैव परिषिच्याप्रदक्षिणम् ॥

1.812

अमन्त्रकं विधानेन तदन्नं शिष्टमुद्धृतम् ।
अर्धं क्षिपेद्विप्रपात्रे दत्वा हस्तोदकं ततः ॥

1.813

दैवपात्रे ऽभिघार्याथ पूर्ववच्च विधानतः ।
अन्नं च पायसं भक्ष्यं व्यञ्जनानि फलानि च ॥

1.814

पयो मधु घृतं चान्ते सूपं तु परिवेषयेत् ।
यदि सूपादथ पुनर् वस्तु स्यात्परिवेषितम् ॥

1.815

तद्राक्षसं भवेच्छ्राद्धं तथा तस्मान्न चाचरेत् ।
अन्नमाज्येनाभिघार्य गायत्र्या प्रोक्ष्य तत्परम् ॥

1.816

दधिनान्नं च प्रच्छाद्य चाहमस्मीति सूक्तकम् ।
प्रपठेदत्र विधिना राक्षोघ्नश्रुतिमध्यगम् ॥

1.817

स्वयं यद्यसमर्थश्चेन् मन्त्रोच्चारणकर्मणि ।
येन केन च विप्रेण वाचनीयं प्रयत्नतः ॥

1.818

नैते मन्त्रा याजमाना अत्रोक्ताः किल कर्मणि ।
राक्षसानां विनाशाय वेदघोषः प्रशस्यते ॥

1.819

स घोषो ब्राह्मणैः कर्तुं शक्यते प्रकृते किल ।
अन्नं वस्तूनि यानीह पात्रेण सह केवलम् ॥

1.820

चुल्लिस्थानि भवेयुर्हि तेभ्यः पात्रेभ्य एव वै ।
दर्विम्यश्च समुद्धृत्य स्वल्पं स्वल्पं यथोष्मकम् ॥

1.821

यदा भवेत्तदा तत्र विप्रेभ्यः परिवेषयेत् ।
ऊष्मभागा हि पितरश् चोष्मशून्यं न पैतृकम् ॥

1.822

भवेदेव न सन्देहः पश्चादन्नं यथा पुरा ।
विप्रहस्ते जलं दत्वा गायत्र्या प्रोक्ष्य वै ततः ॥

1.823

यदैवाहवनीयं वै दक्षिणाग्निं विधानतः ।
नित्यं वै गार्हपत्यं च परिषिञ्चति मन्त्रतः ॥

1.824

सत्यं त्वर्तेन विधिना ब्राह्मणं परिषिच्य वै ।
पृथिवी तेति तत्सर्वम् अभिमृश्य ततः पुनः ॥

1.825

समुपस्पर्शयित्वाथ पित्रादिभ्यो निवेदयेत् ।
प्रधानमेतद्धोमश्च समुपस्पर्शनं पुनः ॥

1.826

एतन्मन्त्रत्रयं वाचा यजमानः समुच्चरेत् ।
एतन्मन्त्रत्रयं श्राद्धे प्रधानकमिहोच्यते ॥

1.827

तथा पिण्डप्रदानस्य मन्त्राः केचन चोदिताः ।
एतदुच्चारणाशक्तौ व्यर्थं श्राद्धं भवेत्किल ॥

1.828

तस्माद्यत्नेन महता होमाग्नेय इति त्रयम् ।
द्वयं वाथ पुनश्चैकं पृथिवी तेति किंचन ॥

1.829

अन्नाभिमर्शने प्रोक्तम् अमृतोपस्तराणकम् ।
पञ्च प्राणाहुतौ मन्त्राः प्राणायेत्यादिका पराः ॥

1.830

यथावदेव वाचा ते प्रवाच्या श्राद्धकर्मणि ।
न चेच्छ्राद्धं भवेन्नैतद् एतैर्मन्त्रैर्भवेद्धि तत् ॥

1.831

पश्चात्पिण्डप्रदाने ऽपि मन्त्रा वाच्याश्च भक्तितः ।
भोजने समुपक्रान्ते वेदघोषं प्रयत्नतः ॥

1.832

कारयेद्विप्रमुखतः ऋग्यजुःसामभिस्तराम् ।
तेन वैकल्यदोषा ये रक्षोभिः परिकल्पिताः ॥

1.833

सद्यो नष्टा भवेयुर्हि तस्मादेव तथाचरेत् ।
यथान्यघोषो विप्राणां शृणुयान्नात्र केवलम् ॥

1.834

तथा घोषः प्रकर्तव्यः स्वयं परमुखात्तथा ।
यत्नात्कारयितव्यश्च न चेद्दोषो महान् भवेत् ॥

1.835

वेदोच्चारणसामर्थ्य विकलो यदि तत्करः ।
नमो वः पितरो मन्त्र मात्रं भक्त्या जपेत्तु वै ॥

1.836

इदं विष्णुर्व्याहृतीर्वा गायत्रीं वा विधानतः ।
विष्णोरराटमन्त्रे वा गायत्रीं वैष्णवीमपि ॥

1.837

न चेत्तु पौरुषं सूक्तम् अथवा तं त्रियम्बकम् ।
आ वो राजानमन्त्रं वा मधुत्रयमथापि वा ॥

1.838

नमो ब्रह्मण्यमन्त्रं वा दश शान्तिषु कामपि ।
स्वाधीना तामृचं नो चेद् गायत्रीं सर्वशून्यदाम् ॥

1.839

प्रतद्विष्णुमन्त्रमिरा वती धेनुमतीति च ।
यजमानः स्वयं प्रीत्यै पितृभ्यो प्रवदेत्तराम् ॥

1.840

भोजनान्ते च संपन्नं प्रददेत्पुरतः स्थितः ।
तृप्ताः स्थेति द्विवारं तद् उक्त्वा दद्यात्तदन्नकम् ॥

1.841

तत्रैव विकिरेत्पात्र समीपे तत्पुरः स्थितः ।
उच्छिष्टपिण्डं च दद्याद् उत्तरापोशनं ततः ॥

1.842

सर्वाण्येतानि शिष्टानाम् आचारेण न चोक्तितः ।
सूत्रकारस्य वेदस्य कृते ऽभ्युदयमुच्यते ॥

1.843

अकृते प्रत्यवायो न पुनरन्यानि केवलम् ।
तत्तत्क्रियाविशेषेषु तूष्णीकं वेदमन्त्रकैः ॥

1.844

अत्रानुक्तैर्महाकाल विलम्बो बाधकाय वै ।
भवेदेव न सन्देहः श्राद्धमन्त्रो य ईरितः ॥

1.845

तन्मात्रस्य समीचीन प्रोक्त्यै तत्कर्म साधु वै ।
भवेत्किलान्यथा तद्धि किं भवेदिति साधुभिः ॥

1.846

सम्यगालोचनीयो ऽतो श्राद्धमन्त्रोक्तिमात्रतः ।
यावान् कालविलम्बः स्यात् तावानेवात्र केवलम् ॥

1.847

प्रामाणिको हि तद्भिन्नो ऽविहितश्च विधानतः ।
कर्मणो बाधकायैव साधकाय भवेन्न तु ॥

1.848

तस्माद्विद्वान् सूत्रवेद विहितं यावदेव वै ।
तावदेव प्रकुर्वीत सर्वसौख्याय केवलम् ॥

1.849

आत्मनो ब्राह्मणानां च भोक्त्ःणां शास्त्रवर्त्मनः ।
यथावदेव कुर्वीता -धिकं शास्त्रविरोधि यत् ॥

1.850

सर्वं सम्यक्परित्याज्यं विहितं यत्तदाचरेत् ।
विप्राणां भोजनात्पश्चात् तच्छास्त्राधिककृत्यतः ॥

1.851

समागतात्पुनः प्रोक्तः संकल्पो नान्यथाचरेत् ।
अपां मध्येन चाच्छिन्द्य दर्भान् मूलैः सकृद्धतैः ॥

1.852

शुन्धन्तां पितरः प्रोक्ष्य आयन्त्वित्यभिमन्त्र्य च ।
सकृदाच्छिन्नमन्त्रेण संस्तीर्यैव ततः पुनः ॥

1.853

मार्जयन्तेति मन्त्रेण ततो दद्यात्तिलोदकम् ।
सकृदाच्छिन्नदर्भेषु त्रिषु स्थानेषु तत्परम् ॥

1.854

एतत्तेति च मन्त्रेण दद्यात्पिण्डत्रयं पुनः ।
यन्मे मातेति मन्त्रं तत् पितृभ्य इति वै पुनः ॥

1.855

अत्र पितरो ऽमुत्र च अमी मदमतः परम् ।
ये समानास्ततो भूयो येन जातास्ततः परम् ॥

1.856

वीरं धत्तेति तत्प्राश्या -घ्राय वा तत्परं पुनः ।
मार्जयन्तेति मन्त्रेण पूर्ववच्च तिलोदकम् ॥

1.857

दत्वाञ्जनाभ्यञ्जने च वासश्छित्वा विधानतः ।
नमो व इति मन्त्रेण नमस्कारान् समाचरेत् ॥

1.858

गृहान्न इति मन्त्रं च ऊर्ज वहन्तीमनुं ततः ।
उत्तिष्ठत पितरो मनो न्वाहुवेति मन्त्रकम् ॥

1.859

पुनर्न इति भूयश्च यदन्तरिक्षमिति वै ।
मन्त्रान् जप्त्वा क्रमेणैवं पिण्डांस्तान्पूजयेत्ततः ॥

1.860

पितृपिण्डार्चनं यैस्तु क्रियते दर्भपत्रकैः ।
तण्डुलैरक्षतैः पुष्पैस् तिलैरपि यवैस्तथा ॥

1.861

प्रीणिताः पितरस्तेन यावच्चन्द्रार्कमेदिनी ।
वासोभिः पूजयेत्पिण्डान् यथाशक्त्या विचक्षणः ॥

1.862

दक्षिणाभिश्च ताम्बूलैर् धूपदीपादिभिस्तथा ।
प्रदक्षिणनमस्कारैः पुत्रपौत्रादिभिः सह ॥

1.863

कलत्रैः परिवारैश्च न चेत्तस्य कुलं तराम् ।
न वर्धते क्षीयते च काले काले शनैः शनैः ॥

1.864

त एव पिण्डाः पितरस् तद्रूपेण स्थिताः परम् ।
भवेयुः पूजनार्थाय नात्र कार्या विचारणा ॥

1.865

अप्रत्यक्षा हि पितरो वायुरूपं समाश्रिताः ।
आकाशरूपमापन्नाः कालभेदेषु सन्ततम् ॥

1.866

नित्यमाकाशरूपास्ते श्राद्धकालेषु भक्तितः ।
समाहूतास्तदा सद्यो वायुरूपं समाश्रिताः ॥

1.867

समायान्ति मनोवेगात् पिण्डकाले तु ते पुनः ।
तत्प्रविश्यैव पुत्राणां हिताय क्षणमञ्जसा ॥

1.868

तिष्ठन्ति किल तत्पूजा स्वीकाराय ततो यतन् ।
तत्पूजां विधिना कुर्यात् ततश्चेत्पुत्रकामुकः ॥

1.869

प्रयच्छेन्मध्यमं पिण्डं धर्मपत्न्यै समन्त्रकम् ।
आधत्त पितरश्चेति ततः सा नियता शुचिः ॥

1.870

प्रगृह्याञ्जलिना भक्त्या प्राङ्मुखी मौनमाश्रिता ।
तं प्राश्य विधिनाचम्य तत्पश्चात्तु त्रिरात्रकम् ॥

1.871

कुर्वन्ती भोजनं भर्तुर् मुक्तेः पश्चात्सकृच्छुचिः ।
मुदिता हर्षितातीव दुःखिता मलिना तथा ॥

1.872

भावयन्ती महारुद्रं तं कालं निनयेदपि ।
तावन्मात्रेण च ततः सा पुत्रं पुष्करस्रजम् ॥

1.873

लभते नात्र सन्देहो यदि सा स्याद्रजस्वला ।
न शूद्रं भोजयेच्छ्राद्धे गृहे यत्नेन तद्दिने ॥

1.874

श्राद्धशेषं न शूद्रेभ्यो न दद्यात्तु खलेष्वपि ।
पितुरुच्छिष्टपात्राणि श्राद्धे गोप्यानि कारयेत् ॥

1.875

खनित्वैव विनिक्षिप्य यथा श्राद्धे न गोचरम् ।
कृते ऽकृते वा सापिण्ड्ये मातापित्रोः परस्य वा ॥

1.876

तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः ।
अदैवं पार्वणश्राद्धं सोदकुम्भमधर्मकम् ॥

1.877

कुर्यादाब्दिकपर्यन्तं संकल्पविधिनान्वहम् ।
कुर्यादहरहः श्राद्धम् अमावास्यां विना सदा ॥

1.878

यत्सोदकलशश्राद्धं न कुर्यादनुमासिके ।
प्रथमाब्दे न कर्तव्यं तिलतर्पणमित्यपि ॥

1.879

यदेतत्तत्तु कथितं वत्सराब्दे सपिण्डने ।
एकादशे द्वादशे वा सपिण्डीकरणं यदि ॥

1.880

कृतं चेत्तत्पुरं सम्यक् सद्यः श्राद्धाङ्गतर्पणम् ।
कुर्वीतैव तथा दर्शं प्रतिमासं पृथक् पृथक् ॥

1.881

अकृते तर्पणे भूयः पितरस्तस्य केवलम् ।
भवेयुर्दुःखिता घोरं पुनः प्रेतत्वशङ्कया ॥

1.882

तेषां शङ्कानिरासाय मासिकेष्वङ्गतर्पणम् ।
श्राद्धान्ते विधिना कार्यं सद्य एव न संशयः ॥

1.883

प्रतिमासं तदा दर्शं यच्छ्राद्धं तर्पणादिकम् ।
असंशयं प्रकुर्वीत न चेद्दोषो महान् भवेत् ॥

1.884

श्राद्धमुक्तेः परं तेषां द्विजानां करशुद्धये ।
तिलैर्हस्तोदकं कार्यं षड्वारं दर्भपुञ्जतः ॥

1.885

न चेत्तत्करशुद्धिश्च न भवेदेव केवलम् ।
मद्गोत्रं वर्धतां देव पित्ःणां च प्रसादतः ॥

1.886

इति ब्राह्मणपादेषु सपर्यां तां तदाचरेत् ।
विश्वेदेवप्रसादं च पित्ःणां च प्रसादकम् ॥

1.887

स्वीकृत्य शिरसा गृह्य देवाश्च पितरस्ततः ।
स्वस्ति ब्रूतेति वाचोक्त्वा ह्य् अक्षयोदकमित्यपि ॥

1.888

अस्त्वित्यपि च तद्धस्ते शम्बरं सतिलाक्षतम् ।
यथाक्रमेण दद्याच्च वाचयिष्ये स्वधां तथा ॥

1.889

स्वाहामपि च संप्रार्थ्य वाच्यतामिति तैस्ततः ।
संप्रोक्तस्तु ऋचे त्वेति धारां तां प्रवदेत्पराम् ॥

1.890

पितृभ्यश्च प्रथमतः पितामहेभ्य एव च ।
प्रपितामहेभ्यश्च तद्वत् स्वधास्ता वाच्यतामिति ॥

1.891

ब्रुवन्तु च भवन्तो वै ओं स्वधामिति वै वदेत् ।
संपद्यन्तां स्वधाश्चेति देवाश्चापि तथा पुनः ॥

1.892

प्रीयन्तां पितरः पश्चात् पितामहास्ततः किल ।
प्रपितामहाश्च पितरस् तद्धस्ते सलिलं क्षिपेत् ॥

1.893

ततः श्राद्धैकसाद्गुण्य हेतवे दक्षिणां मुदा ।
यथाशक्त्या प्रदद्याच्च पित्ःणां रजतं परम् ॥

1.894

हिरण्यं चापि देवानां वाजेवाजेति वै वदेत् ।
उत्तिष्ठतेति पितरः अनुगच्छन्तु देवताः ॥

1.895

इत्युद्वास्य तु तान् पश्चाद् अन्नशेषो ऽखिलः पुनः ।
क्रियतां किमिति प्रोक्ते चेष्टैः स उपभुज्यताम् ॥

1.896

इत्युक्तस्तु ततो भूयः स्वादुषं सद इत्यतः ।
उपस्थानं पित्ःणां तु कुर्यात्प्राञ्जलिना द्विजः ॥

1.897

तेषां तामाशिषं गृह्य प्रणिपत्य विधानतः ।
अनुव्रज्य विधानेन स्वगृहस्यान्तिमे त्यजेत् ॥

1.898

न चेत्सर्वत्र ताः प्रोक्ताः परा व्याहृतयः शिवाः ।
न चेत्तु वामदेवाय मन्त्रं परममुत्तमम् ॥

1.899

प्रवदेत्तेन मनुना यद्यद्वैगुण्यमागतम् ।
कर्ममध्ये पैतृके ऽस्मिन् ज्ञानाज्ञानत एव वै ॥

1.900

कर्तृभोक्तृमहादोष द्रव्यकालादिसंभवाः ।
लोभमोहाज्ञानचित्त कायकृत्यविशेषजाः ॥

1.901

महापराधाः सुक्रूराः परीहारैकवर्जिताः ।
ते सर्वे स्मरणात्तस्य महामन्त्रस्य वैभवात् ॥

1.902

सद्यो विलयमायान्ति कर्मसाद्गुण्यमप्यति ।
प्रभवेत्सद्य एवैवं तस्मात्तु मनुमुत्तमम् ॥

1.903

नमोद्वादशसंयुक्तं पठनीयं सकृत्किल ।
तावन्मात्रेण तत्कर्म परमं तृप्तिकारकम् ॥

1.904

अच्छिद्रं सद्गुणं साङ्गं विकलैकविवर्जितम् ।
प्रत्यवायैकरहितं गयाश्राद्धशताधिकम् ॥

1.905

भवत्येव न सन्देहस् तस्मात्तन्मन्त्रमुच्चरेत् ।
उच्छिष्टं शिवनिर्माल्यं वमनं प्रेतपर्पटम् ॥

1.906

श्राद्धे सप्त पवित्राणि दौहित्रः कुतपस्तिलाः ।
पयसो वत्सपीतत्वाद् उच्छिष्टमिति नाम तत् ॥

1.907

भगीरथप्रार्थनया तद्गङ्गात्यवलेपहा ।
तिरोधानं जटारण्ये कृत्वा तामधरद्यतः ॥

1.908

तन्निर्माल्यं ततो गङ्गा सा प्रीत्यै परमा स्मृता ।
सा नित्यशुद्धा तद्योगाद् गङ्गा पतितपावनी ॥

1.909

निर्दोषा सैव कथिता तद्भिन्ना सप्त याश्च ताः ।
अशुद्धाश्च कदाचित्स्युः शिवाङ्गपतिता तु सा ॥

1.910

अत्यन्तैकपवित्रा हि नान्या वै तत्समा सरित् ।
तदीयोदकसंबन्धाद् यत्पित्र्यं कर्म तत्तु वै ॥

1.911

अपवित्रसहस्रेभ्यो मुक्तं सद्यो भविष्यति ।
पितरो नित्यतृप्तास्ते नष्टक्षुत्काः पितामहाः ॥

1.912

पारमेश्वरसायुज्यं लभन्ते प्रपितामहाः ।
अप्यन्ये कुलजा एव स्युस्ते कुलसहस्रकम् ॥

1.913

तच्चापि वैष्णवं धाम तत्क्षणात्प्रापितं भवेत् ।
त्रिरात्रफलदा नद्यः पुण्ये तदयनद्वये ॥

1.914

अर्धोदये महोदये चक्रिके ग्रहणे तथा ।
पद्मकापिलषष्ठ्यां वा पुनरन्येषु ताः पुनः ॥

1.915

विधिप्रयत्नरचिता ऽवगाहनजपादिकैः ।
फलप्रदा हि सरितो न तथा जाह्नवी शिवा ॥

1.916

दर्शनस्पर्शनध्यानैर् जन्तूनां जन्ममोचनी ।
तदुत्तरक्षणाद्गङ्गा तद्भार्गतनुसंभवा ॥

1.917

सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः ।
दिनत्रयमसंस्पृश्यास् तत्रादौ याः सरिद्वराः ॥

1.918

गोदावरी भीमरथी तुङ्गभद्रा च वेणिका ।
तापी पयोष्णी दिव्या स्युर् दक्षिणे तु सरिद्वराः ॥

1.919

पावनी नर्मदा चैव यमुना च महानदी ।
सरस्वती विशोका च वितस्ता च तथा पुनः ॥

1.920

दक्षिणायनकाले तु संप्राप्ते चावगाहनात् ।
परं त्रिदिनपर्यन्तं भवेयुस्ता रजस्वलाः ॥

1.921

न तु सा शम्भुसंबन्धान् नित्यशुद्धा प्रकीर्तिता ।
जाह्नवी सरितां मुख्या सर्वलोकैकपावनी ॥

1.922

ह्लादनी पावनी कामा कामनीया कलावती ।
करका कलुषघ्नी या नागाश्चैतास्तुरीयकात् ॥

1.923

दिवसात् प्रभृति प्रोक्तास् तिस्रो रात्री रजस्वलाः ।
सप्तमीप्रभृति ह्येवं सरितः काश्चनापराः ॥

1.924

नलिनी निर्मला नारा गुर्वी गर्भा गरा धरा ।
क्षुरिका काशिका श्यामा दश प्रोक्ता रजस्वलाः ॥

1.925

दारिद्र्यनाशिनी देया बाहुदा बहुला बला ।
शर्मिष्ठा शयना स्वापा नव नद्यो रजस्वलाः ॥

1.926

दशमीप्रभृति प्रोक्तास् तिस्रो रात्रीर्मनीषिभिः ।
तप्ता तापा तापसा च विश्वामित्रा बृहद्वरा ॥

1.927

धेना सेना सना सोमा नव नद्यो रजस्वलाः ।
त्रयोदशीप्रभृत्येता कथितास्ता रजस्वलाः ॥

1.928

कलिका वरुणा वामा सोमदा महिला कला ।
त्वरिता लुलिता तारा षोडशप्रभृति स्मृताः ॥

1.929

तिस्रो रात्रीरापगास्ता महाशुद्धा रजस्वलाः ।
गारुत्मता गतिमती गतिदा गणवारिता ॥

1.930

गुणाढ्या गुणदा शेषा सप्त नद्यः प्रकीर्तिताः ।
एकोनविंशतिदिन प्रभृत्येता रजस्वलाः ॥

1.931

शातद्रुश्च शतद्रुश्च वरणी वारुणी रसा ।
हिरण्यदा हैमवती गजवासी मनस्विनी ॥

1.932

रजस्वला नवैताः स्युर् द्वाविंशतिदिनादितः ।
करतोया कालतोया वर्षतोया सरद्रसा ॥

1.933

अन्तर्जला खेयतोया बृहत्तोया स्रवज्जला ।
पञ्चविंशत्यादितो वै विज्ञेयास्ता रजस्वलाः ॥

1.934

अष्टाविंशत्प्रभृति वै याः काश्चन जनैः किल ।
नदीति नित्यं कथ्यन्ते खन्यन्ते च तदा तदा ॥

1.935

नदीगाः सिन्धुगा वापि पर्वतादिसमुद्भवाः ।
यत्र कुत्रापि वा जाताः क्षुद्रा दीर्घा जलैर्युताः ॥

1.936

वर्षाजलाश्च खनन जला लवणशम्बराः ।
सर्वास्ताः कथिताः सद्भिर् मासान्ते स्यू रजस्वलाः ॥

1.937

विशेषेणाधुना प्रोक्ताः सर्वासां सरितामपि ।
प्रसंगात्तत्स्वरूपस्य माहात्म्यं च तथाविधम् ॥

1.938

उक्तप्रायं विजानीयाद् या वा नित्यजलाः पुनः ।
उत्तमा इति ताः प्रोक्ता नदीनां सिन्धुसंगतः ॥

1.939

आधिक्यं तत्प्रकथितं पुण्यक्षेत्रादिना तथा ।
क्षेत्रं चापि तथा ज्ञेयं नदीयुग्मैकमेलनात् ॥

1.940

खननोत्पन्नसलिला तन्न्यूना कथिता तथा ।
खननाच्चाधिकजला तच्छ्रेष्ठा वै स्मृताखिलैः ॥

1.941

पञ्चयोजनपर्यन्त प्रवहत्सलिलोत्तमा ।
उत्पत्तिप्रभृतिस्थैर्य वहत्सलिलसंयुता ॥

1.942

परमा चोत्तमा चेति सा गङ्गेति च फण्यते ।
नदीनां प्रवरा गङ्गा तज्जलं श्राद्धकर्मणि ॥

1.943

पावनं परमं प्रोक्तं वमनं मधु चोच्यते ।
तत्प्रेतपर्पटं साक्षात् पित्ःणां दुःखवारकम् ॥

1.944

खड्गपात्रं हि कुतपो दौहित्रो वा पुनः स्मृतः ।
शिवनिर्माल्यतः श्राद्ध वैगुण्यं तत्प्रशाम्यति ॥

1.945

पुनःकरणसंप्राप्तौ शिवनिर्माल्ययोगतः ।
प्रनष्टः प्रभवेद्दोषस् ते चात्रापि वदाम्युत ॥

1.946

विप्रवान्तावग्निनाशे पिण्डे च विदलीकृते ।
पिण्डगोलकसंयोगे दीपनाशे तथैव च ॥

1.947

रजस्वलानाथभुक्तौ बुद्धिपूर्वं तथैव च ।
अशौचभुक्तावाशौचि संस्पर्शे होमविस्मृतौ ॥

1.948

अतिथौ तद्दिनभ्रान्त्या संकल्पकरणे ऽपि वा ।
एकस्मिन्नेव दिवसे पित्रोर्व्यत्यासतः कृतः ॥

1.949

तद्दिने चोपवासः स्यात् पुनः श्राद्धं परे ऽहनि ।
आद्यश्राद्धे तु भुञ्जान विप्रस्य वमनं यदि ॥

1.950

यत्ते कृष्णेति मन्त्रेण होमं कुर्याद्यथाविधि ।
षोडशश्राद्धभुञ्जान ब्राह्मणस्तु वमेद्यदि ॥

1.951

प्रेताहुतिस्तु कर्तव्या लौकिकाग्नौ यथाविधि ।
अनुमासिके ऽत्र कर्तव्य उच्छिष्टे वमनं यदि ॥

1.952

कबले तु सुभुञ्जाने तृप्तिं चैव विनिर्दिशेत् ।
अमावास्यामासिके च ब्राह्मणो मुखनिःस्रुतम् ॥

1.953

तथा महालयश्राद्धे पित्रादेर्वमनं यदि ।
पितामहादिवत्कृत्वा श्राद्धशेषं समापयेत् ॥

1.954

उच्छिष्टेन तु संस्पृष्टो भुञ्जानः श्राद्धकर्मणि ।
शेषमन्नं तु नाश्नीयात् कर्तुः श्राद्धस्य का गतिः ॥

1.955

तत्स्थाननामगोत्रेण ह्मासनादि तथार्चयेत् ।
अन्नत्यागं ततः कृत्वा पावके जुहुयाच्चरुम् ॥

1.956

पुरुषसूक्तेन जुहुयाद् यावद्द्वात्रिंशदाहुतिः ।
होमशेषं समाप्याथ श्राद्धशेषं समापयेत् ॥

1.957

अकृत्वा तु समीपे तु ब्राह्मणे वमनं यदि ।
पुनः पाकं प्रकुर्वीत पिण्डदानं यथाविधि ॥

1.958

उच्छिष्टस्पर्शनं ज्ञात्वा तत्पात्रं च विहाय च ।
तत्पात्रं परिहत्याथ भूमिं समनुलिप्य च ॥

1.959

तस्य शीघ्रं विधायैव सर्वमन्नं प्रवेष्टयेत् ।
परिषिच्य ततः पश्चाद् भोजयेच्च न दोषकृत् ॥

1.960

श्राद्धपङ्क्तौ तु भुञ्जानाव् अन्योन्यं स्पृशतो यदि ।
द्वौ विप्रौ विसृजेदन्नं भुक्त्वा चान्द्रायणं चरेत् ॥

1.961

उच्छिष्टोच्छिष्टसंस्पर्शे शुना शूद्रेण वा तथा ।
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥

1.962

इन्द्राय सोमसूक्तेन श्राद्धविघ्नो यदा भवेत् ।
अग्न्यादिभिर्भोजनेन श्राद्धं संपूर्णमेव हि ॥

1.963

इन्द्राय सोमसूक्तेन भोजनेनेति च त्रयम् ।
विधानं कथितं सम्यग् व्यवस्था ह्यत्र चोच्यते ॥

1.964

पिण्डदानात्परं यस्य कस्यचिद्ब्राह्मणस्य वै ।
वमनाच्छ्राद्धविघ्ने तु तदा सूक्तजपाद्धि सा ॥

1.965

श्राद्धसंपूर्णता ज्ञेया तत्पूर्वं चेत्तु दैवके ।
पितामहे तत्परस्मिन् विष्ण्वा वा वमने यदि ॥

1.966

होमेनैव तदा ज्ञेया द्वयोर्यदि तदा पुनः ।
तत्सूक्तजपहोमाभ्यां श्राद्धसंपूर्णता स्मृता ॥

1.967

पितृस्थानस्य विप्रस्य वमने यदि दर्शके ।
पुनः पाकेन तच्छ्राद्ध भोजनं विहितं तदा ॥

1.968

आब्दिके वानुमासे वा तद्दिनोपोषणं भवेत् ।
परे ऽहनि पुनःश्राद्धं भोजनेनैव नान्यथा ॥

1.969

एक एव यदा विप्रो भोनने छर्दितो यदि ।
आब्दिके तु परे ऽह्न्येव दर्शे वा यदि मासिके ॥

1.970

तथैवाग्निं समाधाय होमं कुर्याद्यथाविधि ।
तत्स्थाननामगोत्रेण चासनादि समर्चयेत् ॥

1.971

अन्नत्यागं प्रकुर्वीत ततो ऽग्नौ जुहुयाच्चरुम् ।
प्राणादिपञ्चभिर्मन्त्रैर् यावद्द्वात्रिंशदाहुतिः ॥

1.972

होमशेषं समाप्याथ श्राद्धशेषं समापयेत् ।
पुनः पाकेन सद्यो वै श्राद्धस्य करणं स्मृतम् ॥

1.973

दर्शादिष्वेव कथितं न प्रत्यब्दे कथंचन ।
प्रत्यब्दस्य परे ऽह्न्येव स्थानं विप्रस्य तत्स्मृतम् ॥

1.974

उपावृत्तिस्तु पाकेभ्यो यस्तु वासो गुणैः सह ॥

1.975

उपवासः स विज्ञेयः सर्वभोगविवर्जितः ।
पत्न्याः कुर्यादपुत्रायाः पत्युर्मात्रादिभिः सह ॥

1.976

सापिण्ड्यमनुयाने तु जनकेन सहात्मजः. ।
मृतं यानुगता नाथं सा तेन सह पिण्डनम् ॥

1.977

अर्हति स्वर्गवासे ऽपि यावदाभूतसंप्लवम् ।
स्त्रीपिण्डं भर्तृपिण्डेन संयुज्य विधिवत्पुनः ॥

1.978

त्रेधा विभज्य तत्पिण्डं क्षिपेन्मात्रादिषु त्रिषु ।
भर्तुः पित्रादिभिः कुर्याद् भर्त्रा पत्न्यास्तथैव च ॥

1.979

सपत्न्या वा ऽसपत्न्या वा न भेद इति गोभिलः ।
केचिदत्र पृथक्प्रोचुस् तं पक्षं प्रवदाम्यहम् ॥

1.980

एकचित्यां समारूढौ दम्पती निधनं गतौ ।
एकोद्दिष्टं षोडशं च पृथगेकादशे ऽहनि ॥

1.981

द्वादशे ऽहनि संप्राप्ते पिण्डमेकं द्वयोः क्षिपेत् ।
पितामहादिपिण्डेषु तं पितुर्विनियोजयेत् ॥

1.982

केचित्तमेव पिण्डं तु द्वेधा कृत्वा ततः परम् ।
उदग्भागगतं पिण्डं पितृवर्गे नियोजयेत् ॥

1.983

यं दक्षिणस्थितं पिण्डं मातृवर्गे नियोजयेत् ।
अत्र केचित्पुनः प्रोचुः प्रकारान्तरतः किल ॥

1.984

तद्दिने वा परेद्युर्वा भर्तारमनुगच्छति ।
भर्त्रा सहैव शुद्धिः स्यात् श्राद्धं चैकदिने भवेत् ॥

1.985

पैतृकं मरणं यत्र तदेवाहुः प्रधानकम् ।
केचित्तु मातृकं प्राहुर् एवं पक्षद्वयं स्मृतम् ॥

1.986

प्रचेता अत्र चोवाच स्वमतं तत्प्रवच्म्यहम् ।
भर्त्रा सह प्रमीतायाः मृते ऽहन्यपरे ऽह्नि वा ॥

1.987

आशौचं मरणोद्दिश्य दहनादि तयोर्न तु ।
पुनः पक्षान्तरं प्रोक्तं कैश्चित्तत्र महर्षिभिः ॥

1.988

पतिव्रता त्वन्यदिने ऽनुगच्छेद् या स्त्री पतिचित्त्यधिरोहणेन ।
दशाहतो भर्तुरघस्य शुद्धिः श्राद्धद्वयं स्यात्पृथगेककाले ॥

1.989

भर्तारमनुगच्छन्ती पत्नी चेदार्तवा यदि ।
तैलद्रोण्यां विनिक्षिप्य लवणे वा स्वकं पतिम् ॥

1.990

परं त्रिरात्राद्दहनं कुर्युस्ते बान्धवास्तया ।
श्राद्धं चैकदिने कुर्युर् द्वयोरपि हि निर्णयः ॥

1.991

एकोद्दिष्टं षोडशं च भर्तुरेकादशे ऽहनि ।
द्वादशे ऽहनि संप्राप्ते पिण्डमेकं द्वयोः क्षिपेत् ॥

1.992

पितामहादिपिण्डेषु तं पितुर्विनियोजयेत् ।
ब्रह्मवादिमतं भूयस् त्व् अन्यद्वक्ष्यामि शोभनम् ॥

1.993

दह्यमानं तु भर्तारं दृष्ट्वा नारी पतिव्रता ।
अनुगच्छेत्तयोः श्राद्धं पृथगेकादशे ऽहनि ॥

1.994

शिलाप्रतिष्ठापनादि कृत्यं सर्वं पृथक् पृथक् ।
एकत्रैव प्रकुर्वीत पितुर्मातुः समन्त्रकम् ॥

1.995

षोडशान्तं पृथक्कृत्वा सापिण्ड्यं द्वादशे ऽहनि ।
प्रेतत्वात्तु विमुक्तेन सह मातुः सपिण्डकम् ॥

1.996

स्त्रीपिण्डं भर्तृपिण्डेन संयुज्य विधिवत्पुनः ।
त्रेधा विभज्य तं पिण्डं क्षिपेन्मात्रादिषु त्रिषु ॥

1.997

अत्र विष्णुर्मतं स्वस्य सुलभायावदत्किल ।
कृते पितुः सपिण्डत्वे मातुस्तु न सपिण्डनम् ॥

1.998

पितुरेव सपिण्डत्वे तस्या अपि कृतं भवेत् ।
स्त्रीणां पृथङ् न कर्तव्या सपिण्डीकरणक्रिया ॥

1.999

अन्यगोत्रप्रदत्तश्चेत् तनयः स्वपितुस्ततः ।
पालकस्य प्रकुर्वीत तत्पित्रादिसपिण्डनम् ॥

1.1000

विवादो नात्र को ऽप्यस्ति तादृग्दत्तसुतः पितुः ।
स्वयं तद्भिन्नगोत्रो ऽपि तद्गोत्रे योजयेच्च तम् ॥

1.1001

पितामहादिभिः सम्यक् यत्प्राचीनैकगोत्रकैः ।
दत्तपौत्रस्य पितरं प्रपितामहमुख्यकैः ॥

1.1002

त्यक्त्वा पितामहं त्वन्य गोत्रं सम्यक् ततः परम् ।
योजयेन्नात्र सन्देहस् तज्जं तत्प्रपितामहम् ॥

1.1003

त्यक्त्वा सम्यग्विचायैव स्वगोत्रैरेव योजनम् ।
कुर्यात्तद्विधिना नो चेत् पित्ःणां संकरो भवेत् ॥

1.1004

तेन दोषश्च सुमहान् प्रभवेदेव दुर्घटः ।
दत्तपुत्रोद्भवो यत्नात् सपिण्डीकरणे पितुः ॥

1.1005

त्यजेत्पितामहं यत्नात् तत्पुत्रः प्रपितामहम् ।
तत्पुत्रश्चेत्ततो वृद्ध प्रपितामहमेव वै ॥

1.1006

एवं मातुः सपिण्डे तु दत्तपुत्रोद्भवश्चरेत् ।
यद्यन्यगोत्रजो दत्तः सन्ततौ तत्परंपराम् ॥

1.1007

चतुष्कुलैकपर्यन्तं जातानां सङ्कटं महत् ।
तस्मिन् सपिण्डीकरणे तदानीं समुपस्थिते ॥

1.1008

भवत्येव हि तत्पश्चात् पञ्चमादि यथाक्रमम् ।
स्वयमेव भवेत्तावत् तद्वर्गे जन्मिनां महत् ॥

1.1009

अवेक्षणं जागरूक -ता च नित्ये स्मृते तराम् ।
तस्मात्सगोत्रे तनयं संगृह्णीयादपुत्रकः ॥

1.1010

शिष्टं सर्वं पूर्वमेव मया सम्यङ् निरूपितम् ।
पुत्रे जाते ततो भूयः पुत्रस्वीकरणादथ ॥

1.1011

जातो ऽधिकः प्रदत्तात्तु धर्मतः सर्वकर्मसु ।
पित्रोः श्राद्धस्य षण्मासात् पूर्वमेव तदा तदा ॥

1.1012

श्राद्धस्मृतिं प्रकुर्वन्वै कथाः काश्चन सन्ततम् ।
प्रकुर्वन् स्वजनैस्तिष्ठेद् इष्टान् कांश्चिद्विशेषकान् ॥

1.1013

तिलमाषव्रीहियवान् गुडमुद्गादिकान् मधु ।
कन्दमूलादिकान् कांश्चिद् वस्त्रकार्पासकादिकान् ॥

1.1014

संगृह्य स्थापयेद्यत्नाद् दिव्यचन्दनखण्डकम् ।
दिव्योशीरं गुग्गुलुं च निक्षिपेच्चावनीतले ॥

1.1015

शुष्कान् शलाटुकान् कांश्चिद् गोपयेच्छ्राद्धहेतवे ।
वृक्षेषु कांश्चिद्यत्नेन भूम्यन्तर्भूतले तथा ॥

1.1016

कुसूलेषु दुकूलेषु पुनः कुम्भघटेषु च ।
स्थापयेन्निक्षिपेदेवं निखनेत्कांश्चिदप्युत ॥

1.1017

समीचीनानि वस्तूनि दृष्टमात्राणि चेत्तदा ।
श्राद्धार्थमिति निश्चित्य प्रोक्त्वा स्वीयैश्च केवलम् ॥

1.1018

गोपयित्वैव यत्नेन स्थापयेत्पालयेदपि ।
तदुक्तितत्कथातृप्ताः पितरो नित्यमेव वै ॥

1.1019

आशीर्भिरेनं सततं वर्धयन्त्यपि तारिताः ।
भवन्ति कथया स्वर्गे पितृलोके च ते ऽनिशम् ॥

1.1020

कथया तृप्तिरेतेषां स्मृत्योक्त्या वचनादपि ।
तदीयकृत्यसंभाषा प्रियवस्तुप्रचारणैः ॥

1.1021

यत्नाद्दिनत्रयात्पूर्वं विद्यमानाग्निरप्यलम् ।
पुनःसंधानविधिना श्राद्धायाग्निं सुसंस्क्रियात् ॥

1.1022

औपासनं विना होमम् अन्यं होमं तु तद्दिने ।
न कुर्यादेव विधिना यदि कुर्यात्तु तत्पतेत् ॥

1.1023

दानाध्ययनदेवार्चा जपहोमव्रतादिकान् ।
न कुर्याच्छ्राद्धदिवसे प्राग्विप्राणां विसर्जनात् ॥

1.1024

न दद्याद्याचमानेभ्यः फलपुष्पजलाक्षतान् ।
तण्डुलान् दधितक्राज्य शाकपात्रतृणस्थलम् ॥

1.1025

काष्ठमूलकन्दभाण्ड विद्यापुस्तकभूषणम् ।
ऋणमेवं धनं धान्यं चेलं वा ऽनुग्रहादिकम् ॥

1.1026

कल्याणवार्ताकोपादि चाटुपारुष्यभाषणम् ।
बालनिग्रहतद्ग्राह तत्सल्लापादि वर्जयेत् ॥

1.1027

उच्चैः संभाषणं हस्त ताडनं हसनं वृथा ।
दुरालापं दुष्टलोक भाषणं दुष्टशिक्षणम् ॥

1.1028

नैतानि कुर्याद्यत्नेन प्रत्यब्दे तु विशेषतः ।
दर्शादिषु मृताहश्चेन् मृताहं पूर्वमाचरेत् ॥

1.1029

पश्चाद्दर्शं प्रकुर्वीत पित्रोरेवायमुच्यते ।
मातामहस्य तत्पत्न्या सापत्नीमातुरेव च ॥

1.1030

पितुः श्राद्धसमत्वेन प्रोचुः किल महर्षयः ।
दर्शे समागतं मन्वा -दिकं श्राद्धं समाचरेत् ॥

1.1031

दर्शसिद्धिस्तावता स्याद् दैवतैक्येन केवलम् ।
सपिण्डकमपिण्डं वा दैवतैक्ये पृथङ् न तु ॥

1.1032

कार्यं भवति तच्छ्राद्धं भिन्नदैवतके पुनः ।
पूर्वं नैमित्तिकं कार्यं प्रत्यब्दे यदि तत्तदा ॥

1.1033

प्रत्यब्दमागतं प्रत्या सत्तियोगवशाच्चरेत् ।
पितुः श्राद्धं प्रथमतो मातुः श्राद्धं ततः परम् ॥

1.1034

पश्चान्मातामहस्यापि तत्पत्न्याश्च ततः परम् ।
पश्चात्सपत्नीमातुः स्यात् पश्चात्पत्न्या प्रकीर्तितम् ॥

1.1035

सुतभ्रातृपितृव्याणां मातुलादिक्रमात्स्मृतम् ।
पित्रादिभिन्नश्राद्धानां कारुण्यानां यदा पुनः ॥

1.1036

दर्शादिष्वागतानां चेन् मृताहानां तदा परम् ।
दर्शादिकं समाप्यैव कारुण्यश्राद्धमाचरेत् ॥

1.1037

केचित्पत्न्याः पितृव्यस्य तत्पत्न्याश्च समागमम् ।
दर्शादिषु मृताहं वै पूर्वं कृत्वा ततः परम् ॥

1.1038

दर्शादिकमनुष्ठेयम् इति प्रोचुश्च तत्कृतौ ।
तस्माद्यथारुचिपरम् आत्मतृप्तिः प्रशस्यते ॥

1.1039

वस्तुतो ऽत्र पुनर्वच्मि पितृव्यो यदि केवलम् ।
एतस्य परमो मुख्यस् तत्पत्नी वापि पत्न्यपि ॥

1.1040

मातृत्वकार्यकारणे महती सुमहत्यपि ।
तदा चेत्तन्मृताहं तु पूर्वं कृत्वा ततः पुनः ॥

1.1041

दर्शादिकं प्रकुर्वीत न चेत्ते केवला यदि ।
नाममात्रेण कथितास् तदा दर्शादिकं पुरा ॥

1.1042

कृत्वैव पश्चात्तच्छ्राद्धं कारुण्यानामिति स्थितिः ।
सर्वत्रैवं प्रकथितं स्वामिनः सख्युरेव वा ॥

1.1043

पुरोहिताचार्ययोश्च प्रत्यासत्तिप्रभेदतः ।
श्राद्धस्य करणं प्रोक्तं पुनरप्युपकारिणः ॥

1.1044

तेषां तेषां क्रियाभेदाच् छ्राद्धानुष्ठानमुच्यते ।
सर्वत्रैवात्मतुष्टिः स्याद् विदुषः परमोत्तमा ॥

1.1045

पुनर्विशेषः को ऽप्यस्ति प्रवक्ष्याम्यत्र तं पुनः ।
यतस्तातो यतो वृत्तिर् यतो जीवो यतः प्रसूः ॥

1.1046

स स्वीकृतः श्राद्धतिथिर् भ्रष्टत्यक्तपितापि वा ।
दर्शादिश्राद्धपरतो मृताहश्राद्धमाचरेत् ॥

1.1047

पित्रात्यन्तैककलहे धावनावसरे सुते ।
जाते नष्टे च पितरि तथा मातरि तत्परम् ॥

1.1048

अल्पकालमृतायां तु तत्तद्ग्रामस्थितैरपि ।
तदा तदा पालितो यो दैवाज्जीवन्प्रवर्धितः ॥

1.1049

दृष्टमात्रैर्बाल्य एव विप्रबुध्यैव तैस्तराम् ।
संस्कृतश्चाध्यापितश्च ज्ञाताज्ञातैकगोत्रकः ॥

1.1050

अज्ञातग्रामतातादिर् ज्ञातजातिर्जनोक्तितः ।
ततो विद्वान् महात्मा यो यतस्तात इति स्मृतः ॥

1.1051

एवमेव तथान्यो ऽपि तथावस्थाप्रभेदतः ।
यतोत्पत्तिस्तु कथिता अज्ञातग्रामसंभवः ॥

1.1052

स्वजीवनप्रकारं यो बाल्ये द्वादशवार्षिकात् ।
न वेत्ति नष्टजनको यतोत्पत्तिस्तु कथ्यते ॥

1.1053

मातरं यो न जानाति स्वकीयजनशून्यतः ।
तथा पित्रादिकान् सर्वान् प्रोच्यते ऽसौ यतः प्रसूः ॥

1.1054

त एते किल सर्वेपि विपत्कालसमुद्भवाः ।
नष्टपित्रादिकजना दैवात्संप्राप्तजीवनाः ॥

1.1055

यैश्च कैश्चिद्दृष्टमात्रैर् विप्रबुध्यैकपालितैः ।
अवस्थाभेदतः सर्वे तत्तन्नामाङ्किताः स्मृताः ॥

1.1056

चत्वारः कथिताः सद्भिर् अतिदुःखैकजीवितम् ।
अतिबाल्ये ततो भूयो यौवने प्राप्तसंपदः ॥

1.1057

दैवयोगेन विद्वांसः कर्मठाश्चापि वा भवन् ।
पितुर्मृततिथिं यो वा ज्ञात्वा बाल्येन केवलम् ॥

1.1058

स्वयमेव श्राद्धहेतोर् मार्गशीर्षे ह्यमादिकम् ।
शास्त्रदृष्ट्या समालोच्य सद्भिरुक्तो ऽथवा गृणन् ॥

1.1059

स्वस्वीकृतश्राद्धतिथिर् उच्यते ब्रह्मवादिभिः ।
मद्यपानादिना भ्रष्टः पिता यस्य बभूव वै ॥

1.1060

मृतेस्तस्य परं प्रोष्य चतुर्विंशतिवार्षिकम् ।
भ्रष्टक्रिया प्रकर्तव्या पुत्रेण विदिनात्मना ॥

1.1061

तस्य श्राद्धं ततः कार्यं तादृशस्य दुरात्मनः ।
तादृक्पितृक्रियाकर्ता स उ भ्रष्टपिता स्मृतः ॥

1.1062

पितुस्तु भ्रंशमात्रेण नायं भ्रष्टपिता भवेत् ।
तादृक्कर्मैककरण समयादथ तादृशः ॥

1.1063

भवत्यपि तथा त्यक्त पिता चापि प्रकथ्यते ।
स्वयं चण्डालतां बुध्या प्राप्तो यो स्वजनैरपि ॥

1.1064

बहिष्कृतश्च संत्यक्तस् तादृशं पितरं मृतम् ।
पञ्चविंशतिवर्षेभ्यः परं पुत्रः स शास्त्रतः ॥

1.1065

षडब्दं षड्गुणत्वेन वर्षयित्वातिकृच्छ्रकैः ।
महाकृच्छ्रैस्तप्तकृच्छ्रैः पराकातिशतैरपि ॥

1.1066

चापाग्रस्नानशनकैर् मन्त्रकुम्भसहस्रकैः ।
गोसहस्रैर्विधानेन संस्कुर्यात्तस्य केवलम् ॥

1.1067

प्रतिसंवत्सरं पश्चात् तादृक्च्छ्राद्धकरस्तु यः ।
स उ त्यक्तपिता ज्ञेयस् त एते तनयाः सदा ॥

1.1068

एवंजातीयका ये स्युस् ते सर्वे धर्मतत्पराः ।
दर्शादिश्राद्धपरतो मृताहश्राद्वमाचरेत् ॥

1.1069

तेषां श्राद्धैककरणम् एतेषां स्वस्य केवलम् ।
प्रत्यवायैकशून्याय न चेद्दोषो महान् भवेत् ॥

1.1070

तत्संभूतमहादोष परिहाराय वा न चेत् ।
प्राप्तये कर्मठत्वस्य न चेदस्य तु केवलम् ॥

1.1071

श्राद्धत्यागात् प्रत्यवायो भवेत्तस्मात्तथाचरेत् ।
नित्यं तेषां मृताहेषु दानधर्मादिकं चरेत् ॥

1.1072

विप्राणां भोजनात्पूर्वं नियमो ऽयमुदाहृतः ।
दुरात्मनां विशेषेण पूर्ववद्दोषशान्तये ॥

1.1073

श्राद्धमुक्तेः परं तेषां न कुर्याद्भूरिभोजनम् ।
परेद्युर्वा प्रयत्नेन श्राद्धाङ्गतिलतर्पणम् ॥

1.1074

सद्य एव प्रकर्तव्यं पूर्वं पश्चात्तु वा तथा ।
अभिश्रवणमेवं स्याद् एकेनैव हि कारितम् ॥

1.1075

नान्नसूक्तं त्यागकाले प्राचीनावीतिकं न तु ।
अग्नौकरणहोमे ऽपिं तच्चावश्यकमुच्यते ॥

1.1076

उद्देशत्यागकाले च सव्यमेव भवेद्धि वै ।
मधुवातादिकं मुक्तेर् अन्ते नैव वदेदपि ॥

1.1077

विकिरं नैव कुर्वीत नित्यकर्माणि यानि वा ।
तानि सर्वाणि सर्वत्र धृत्वा पुण्ड्रं विधानतः ॥

1.1078

निवेदितान्नतः पञ्च यज्ञान्ते ऽतिथिपूजनात् ।
पूर्वं तेषां प्रकर्तव्यं प्रत्यब्दादिककर्म वै ॥

1.1079

तेषां श्राद्धे त्यागमात्रात् कृते सर्वं कृतं भवेत् ।
अपि प्राप्ते ऽपि वमने पितृस्थानस्य वा किमु ॥

1.1080

न पुनः करणं कुर्याच् छ्राद्धशेषं समापयेत् ।
पादप्रक्षालने तेषां मण्डलानर्चनं भवेत् ॥

1.1081

पादप्रक्षालनार्थाय प्रदेयमुदकं परम् ।
त एते निखिला धर्मा मृताहे केवलं स्मृताः ॥

1.1082

न दर्शादिषु विज्ञेयास् तत्र धर्मा यथोक्तितः ।
प्रकर्तव्या विशेषेण विकारो ऽत्यन्तकुत्सितः ॥

1.1083

मृताह एव कथितो नान्यतो यत्र कुत्रचित् ।
श्राद्धान्ते वा परेद्युर्वा शक्तो यः पितृकर्मणि ॥

1.1084

न कुर्यान्मोहतस्तूष्णीं विप्राणां भूरिभोजनम् ।
अर्धतृप्ता हि पितरो भवेयुर्नात्र संशयः ॥

1.1085

श्राद्धं कृत्वा तु यो मूढो न भुङ्क्ते पितृसेवितम् ।
इष्टैः पुत्रैर्बन्धुभिश्च ब्राह्मणैर्बह्मवादिभिः ॥

1.1086

पितरो नैव तृप्ताः स्युर् भुञ्जीयात्तेन तृप्तितः ॥

1.1087

तद्वंश्यानामर्भकाणां विप्रभुक्तेरनन्तरम् ।
तत्कांक्षितानि वस्तूनि भक्ष्यादीनि फलान्यपि ॥

1.1088

स्वच्छन्दनः प्रदेयानि तावन्मात्रेण ते परम् ।
अतितुष्टा महातुष्टाः परितुष्टाः प्रहर्षिताः ॥

1.1089

पूजिताश्च भविष्यन्ति तस्माद्बालमनोरथम् ।
पूरयेत्पितृतृप्त्यर्थं तद्दिनेषु विशेषतः ॥

1.1090

तृप्ताः स्थेति तथा प्रोक्ते त्रिवारं पितृसूनुना ।
भावयन्ति तदा तं वै चेतसा तु वयं तथा ॥

1.1091

तृप्ता जातास्तथा त्वं च तृप्तो यदि तदा वयम् ।
तृप्ता भूम न चेन्नो ऽद्य का तृप्तिरिति वै तराम् ॥

1.1092

दूयमानन मनसा तिष्ठन्ति किल तेन वै ।
सम्यग्भुञ्जीत वै पूर्वं यथा कुर्वन् भुजिक्रियाम् ॥

1.1093

अतृप्ता एव नो ते स्युर् इष्टैः पुत्रैश्च बन्धुभिः ।
विप्रालंकरणे जाते गृहालंकरणं भवेत् ॥

1.1094

पत्न्यादीनामलंकारः शिष्टब्राह्मणभोजनम् ।
अन्वेव भोजनं तषां तद्दिने क्रियते तु यत् ॥

1.1095

तत्सर्वं प्रीतये तेषां भवेदेवं न चान्यथा ।
यद्वा तद्वा प्रकर्तव्यं तत्तत्सर्वं प्रयत्नतः ॥

1.1096

अनन्तरं विप्रभुक्तेः पित्रुद्वामनतः परम् ।
तत्पूर्वं लवमात्रं वा वस्तु किञ्चिदपि स्वयम् ॥

1.1097

न दद्याच्छ्राद्धकृद्वाचा दास्यामीति वदेन्न वा ।
तिलद्रोणव्रयं कुर्यात् तद्दिने समुपस्थिते ॥

1.1098

भक्ष्यास्तिलमयाः कार्यास् तिलकल्कं विशेषतः ।
तिलचूर्णं तैलपिष्टं तिलभर्जनमप्युत ॥

1.1099

तिलार्चनं तिलमुखं रक्षोहननमाचरेत् ।
तिलैर्विकिरणं कुर्याद् द्रव्यलोपेषु कृत्स्नशः ॥

1.1100

समीचीनं तिलैः कुर्यात् तिलाः स्युः सोमदेवताः ।
सोमः पित्ःणामाधारः सोमायैव तु हूयते ॥

1.1101

सो ऽयं हि पितृभिः प्रीतस् तद्दत्तं कव्यमुत्तमम् ।
सोमतृप्त्यैकजनकं तस्मात्सोमहुतं हविः ॥

1.1102

तत्कलावृद्धिजनकं सा कला पीयते हि तैः ।
वस्वादिभिः पितृभिस्तु तदेव तत्तिलैः सदा ॥

1.1103

सर्वश्राद्धेषु पितरः पूजनीया विशेषतः ।
सर्वाभावे विशेषेण तिलैर्जलविमिश्रितैः ॥

1.1104

दर्शादिकानि श्राद्धानि कार्याण्येव समन्त्रतः ।
स्वधा नमस्तर्पयामि पितरं च पितामहम् ॥

1.1105

प्रपितामहमेवं च वस्वादिकमयांस्तथा ।
नामगोत्रैकसंयुक्तान् श्राद्धं कृत्वापि तत्परम् ॥

1.1106

तदङ्गतर्पणं कार्यं मृतस्यादौ तिलोदकम् ।
समारभ्य क्रियाः कार्यास् तस्मात्सन्तस्तिलोदकम् ॥

1.1107

प्रयमश्राद्धमेवोचुः श्राद्धप्रतिविधित्वतः ।
तदेवोचुश्च निखिला दुर्बलानां हितेच्छवः ॥

1.1108

समालोक्यैव शास्त्राणि श्रुतिमूलानि ते पुरा ।
मन्वादयो महात्मानस् तिला स्युस्तादृशाः किल ॥

1.1109

सतिलैर्विद्यते श्राद्धं विना सर्वत्र केवलम् ।
मुख्यद्रव्यैस्तिलैरद्भिः पैतृकं निखिलं भवेत् ॥

1.1110

सर्वेषां कर्मणामाद्या आप एव विशेषतः ।
परमाः कारणानीह तस्माद्ब्राह्मणपुंगवाः ॥

1.1111

अप एव समाश्रित्य वर्षन्ते तोयदा महत् ।
जलं तत्रैव वर्तन्ते तदेव परमं स्थलम् ॥

1.1112

प्रभूतैधोदकग्रामः सर्वदेशोत्तमोत्तमः ।
नदीतीरं विशेषेण तच्छताधिकमुच्यते ॥

1.1113

तत्रैव सकला धर्मा अनुष्ठेया हि सन्ततम् ।
नदी च सजला ज्ञेया न तच्छून्या कदाचन ॥

मूल पाठ: Āṅgirasasmṛti · Edition: A. N. Krishna Aiyangar Āṅgirasasmṛti Madras Adyar Library The Adyar Library Series 84 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc