भाषा

ENहिગુ
ग्रंथ पाठ

अजडप्रमातृसिद्धि · श्लोक 01-20

01

[पूर्वपक्षः:]
यथा सदसताम् नैव $ विशेषो ऽस्ति निजात्मनि &
जदाजडानाम् अप्य् एवं % नास्त्य् असाव् इति निश्चयः

02

वृ: विज्ञानसन्तानवादिनां मते सर्वेषां भावानां क्षणिकत्वात् स्वलक्षणात्मके प्रातिस्विके स्वरूपे विशेषाभावः संतानिन एकस्यानुसंधातुर् अनभ्युपगतत्वात् । एवं चेतनाचेतनानाम् अपि स्वात्मनि निर्विशेषत्वम् ॥
प्रख्योपाख्या च सत्ता यद् $ यद् असत्ता विपर्ययः &
नैतत् स्वरूपं स्पृशति % वस्तुनो ज्ञातृगाम्य् अदः

03

वृ: प्रकाशविमर्शलक्षणाभ्यां प्रख्योपाख्याभ्यां तदभावेन च भावानां सदसत्तयोर् व्यवस्थापयितुम् इष्टयोर् अपि वस्तुनः स्वरूपस्पर्शाभावः, यतस् तत्प्रख्यादि ज्ञातुर् धर्मस् ततस् तत्स्वरूपव्यवस्थानाभावः ॥
प्रख्योपाख्याविषयताप्य् $ अर्थस्यात्मा न युज्यते &
परापेक्षितया नैक- % रूपत्वे सत्त्वलङ्घनात्

04

वृ: न च प्रख्यादिविषयत्वे ऽपि पदार्थस्वरूपतोपपद्यते परप्रकाशाधीनत्वात् तस्य । किं चानेकाकारत्वे ऽपि वस्तुसत्ताया अप्रतिष्ठानात् । तस्माद् अन्योन्यं वस्तुतदभावयोर् निर्विशेषत्वम् ।
मा भूद् विशेषः प्रख्यादि- $ भावाभावौ ततः पुनः &
सिद्ध्यत्य् एव विशेषो ऽत्र % तावता च प्रयोजनम्

05

वृ: निर्विशेषत्वाभ्युपगमे ऽपि सदसतोर् वस्तुनोः प्रख्यादि भावाभावाव् अविकलाव् एव तद् अवलम्ब्य पुनर् विशेषवत्त्वस्य सिद्धेः, ततः साकल्येन भावेष्व् अर्थक्रियापि सिद्ध्येद् एव ॥
एवम् अप्य् अवभासानु- $ षक्ता सत्तोचिता भवेत् &
तदपेक्षां विना भावा- % भावयोर् अविशिष्टता

06

वृ: इत्थं च वस्तुसत्तायाः प्रकाशलग्नाया एवौचित्यं प्रकाशमानतालक्षणं संभाव्यते ऽन्यथा संविदनुषङ्गं विना सदसतोर् अन्योन्यनिरपेक्षत्वात् स्वस्वरूपनिष्ठयोर् विशेषानुपपत्तेः ॥
कथं स्याद् अविशेषो ऽत्र $ यावतार्थक्रियां हि सन् &
कुर्यान् नान्यस् तथाप्य् अर्थो % निर्विशेषो निजात्मनि

07

वृ: यस्मात् सत एव वस्तुनो ऽर्थक्रियाकारित्वम् असतस् तदभाव इति कथम् अविशिष्टत्वम् अर्थक्रिययैव तद्भावोपपादनात्, इत्य् आक्षेपः । तत्राह तथाप्य् अर्थक्रियायास् तत्तत्प्रमात्रधीनतया नैसर्गिकत्वाभावाद् विना संविदाश्रयताम् अर्थस्य स्वात्मनि विशेषाधायक्त्वासिद्धेः ॥
एवम् अर्थक्रियाभासो- $ पाधिसंभेदम् आगतः &
सन्न् अर्थः स्यात् स्वरूपेण % नासतस् तु विशिष्यते

08

वृ: उक्तप्रकारेण संविद्य् अप्रतिष्ठानाद् अर्थक्रियाकारिभिस् तत्तदाभासोपाधिभिः संभिन्नस्यार्थस्यार्थस्वरूपेण सत्तासंओअत्ताव् अपि पुनर् असतो ऽर्थाद् विशेषो न सिद्ध्येत् ॥
तत्राप्य् अर्थक्रिया सिद्ध- $ सत्ताकार्थे न वर्णिता &
समम् एवानयोस् तेन % प्रतिष्ठा संविदाश्रया

09

वृ: तयोर् उभयोः सदसतोर् मध्ये ऽपि प्रागसिद्धे ऽर्थे ऽर्थक्रियाया अव्यवस्थितत्वात्, अथ च पूर्वसिद्धे ऽर्थे तत्सिद्धेर् नार्थक्रियैव वस्त्वात्मा; तस्माद् भावाभावयोर् अक्रमम् एव संविदधीनैव सिद्धिस् तन्निष्ठत्वाद् एव भावव्यवस्थितीनाम् ॥
संविद् अप्य् अपरामर्श- $ रूपा चेत् तद् असाव् अपि &
अभावेन जडेनाथ % तुल्यैव प्राग्वद् आत्मनि

10

वृ: निर्विमर्शस्य प्रकाशस्यापि स्फटिकादिवद् विश्वावभासने ऽप्य् अस्वतन्त्रत्वात् स्वात्मन्य् असता जडेन च भावेन सादृश्यम् एव स्यात् परस्परवृत्तपरिज्ञाने ऽनेलमूकप्रायत्वात्, एतेन शान्तब्रह्मवादनिरासः कटाक्षितः ॥
सैवं भूतात्मना स्वेनाप्य् $ अलब्धपरिनिष्ठितिः &
कथम् अन्यस्य भावस्य % प्रतिष्ठास्पदताम् इयात्

11

वृ: निर्विमर्शा संवित् स्वतो ऽ लब्धसत्ताका परं व्यवस्थापयितुं नालं गगनकुसुमम् इव सौरभादिजनने ॥
इदम् इत्य् उचितः संवित् $ प्रकाशे ऽन्यस्य वस्तुनः &
प्रतिष्ठात्मकतां गच्छेद् % अहम् इत्य् आत्मना पुनः

12

वृ: भिन्नं वस्तु इदंताविमर्शेन प्रकाशनार्हं सत् पुनर् अहंतात्मना व्यवस्थाम् इयात् । संविद् एव विश्वस्फुरत्तामयी स्वस्वातन्त्र्याद् एव विचित्रार्थात्मनाविभिन्नप्रकाशमयेन प्रस्फुरन्ती विश्वजीवितं, तद् अहंताविश्रान्तिं विना स्वतो ऽसिद्धं कथं व्यवहार्यं स्यात् ॥
व्यतिरेकेतराभ्याम् हि $ निश्चयो ऽन्यजडात्मनोः &
व्यवस्थितिः प्रतिष्ठा च % सिद्धिर् निर्वृत्तिर् उच्यते

13

वृ: ज्ञातरि व्यवस्थितत्वे सन् जडो ऽन्यथासन्, स्वात्मान्यसंरम्भत्वे स्वप्रकाशत्वं तदभावे नास्तीत्य् अन्वयव्यतिरेकाभ्यां हि स्वपरत्वनिश्चयः, स च व्यवस्थाप्रतिष्ठादिशब्दैर् उच्यते ॥
एवम् आत्मन्य् असत्कल्पाः $ प्रकाशस्यैव सन्त्य् अमी &
जडाः प्रकाश एवास्ति % स्वात्मनः स्वपरात्मभिः

14

वृ: इत्थं जडभावानां संविद्विश्रान्तिं विनासत्कल्पत्वात् स्वात्मन्य् असत्स्वभावानां ज्ञातुः प्रकाशस्वभावस्य संबन्धितयैव सत्त्वं, तस्मात् संवित्प्रकाश एव स्वात्मोच्छलत्तया स्वमायाशक्त्युल्लासिते विश्ववैचित्र्ये जडाजडभावराशिद्वयेन वेद्यवेदकात्मकेन स्वरूपानतिरिक्तेनातिरिक्तेनेव प्रस्ह्पुरेत्, -- इति स्वातन्त्र्यवादस्य प्रोन्मीलनं सूचितवान् आचार्यः ॥
न चैवानुभवो ऽप्य् अस्ति $ भिन्नाभिन्नविनिश्चयम् &
मुक्त्वान्वयस्य प्रकाशस्य % विमर्शरहितात्मनः

15

वृ: संयोजनवियोजनात्मकं स्वातन्त्र्यं विहाय सतो जडप्रकाशस्य नैव संरम्भात्मानुभवो निर्विमर्शात्मकत्वात् । एतद् एव हि प्रत्यवमर्शस्य माहात्म्यं यद् विश्वं स्वात्मैक्येनान्तःस्थितं बहिरिदंतयोद्भासयन् उद्भास्यमानम् अपि पुनः पूर्णाहंताविश्रान्त्यभेदम् आपादयेत् ॥
इदम् इत्य् अस्य विच्छिन्न- $ विमर्शस्य कृतार्थता &
या स्वस्वरूपे विश्रान्तिर् % विमर्शः सो ऽहम् इत्य् अयम्

16

वृ: इदम् इति विच्छिन्नतया विमृश्यस्यास्य जडस्य या संवित्स्वरूपविश्रान्तिलक्षणा कृतार्थता सो ऽयम् अहम् एव तत्तद्भाववैचित्र्यात्मना प्रकाशे इति चैतन्यप्रकाशतादात्म्याद् अहंप्रत्यवमर्षात्मा जीवितस्थानीयः, यदाश्रयाज् जडम् अपि वस्तु विम्रष्टृस्वभावप्रमात्रैक्याद् अहंभावविश्रान्तेर् अजडत्वम् आयाति । अजडाश् च वस्तुतः परप्रमात्रेकस्वभावाः, -- इत्य् अद्वैतो ऽजडप्रमातृभाव एव सर्वतः पारिपूर्ण्येन विजृम्भते इति तात्पर्यम् ॥
द्विधा स एष एवात्मा $ मितो ऽपरिमितस् तथा &
प्राणादिना निरुद्धो ऽणुः % परमात्मा त्व् अखण्डितः

17

वृ: स एव संविदात्मा परमेश्वरः स्वेच्छया विश्वक्रीडोल्लिलासयिषायां प्राणाद्यात्मताम् अवभास्य तत्प्रमातृत्वेन संकुचितीभूय जीवताम् एति, प्राणाद्यनिरुद्धस् तु विश्वनिर्भरितात्मतया पूर्णः स्वतन्त्रश् चिदात्मैवेति परिमितापरिमितत्वेन द्विविधत्वम् ॥
उभयो ऽप्य् एष पर्यन्त- $ भूमिः सर्वार्थसंविदाम् &
एक एवानुसन्धानाद् % अतो ऽन्यो नोपपद्यते

18

वृ: द्विविधस्याप्य् अस्य प्रकाशात्मनः समस्तभावाभावात्मिकानाम् अर्थसंविदां विश्रान्त्यास्पदत्वम् । स च पौर्वापर्यानुसंधातृतया संविन्मात्रस्फुरत्तैकरूप एव यस्माद् अतो भेदानुपपत्तिः ॥
न चाप्य् अव्यतिरेकात्म- $ विमर्शात्मन्य् अहंविदि &
भाति पर्यन्तवर्तिन्यां % भासनाद् अधिकं जडम्

19

वृ: न च विश्वाभिन्नप्रत्यवमर्शस्वरूपे ऽहंप्रकाशे सर्वज्ञानविश्रान्तिभूमौ तत्प्रकाशाधिक्येन जडस्य सत्ता, तस्य संवित्प्रकाशाद् भेदाभेदविकल्पैर् उपहतत्वात्, अत एक एवाजडप्रमाता स्वस्वातन्त्र्येण स्वाभिन्नं भावजातं स्वात्मन्य् एवोद्भासयन् विलापयांश् चाप्रच्युतस्वात्मस्थितिः प्रस्फुरतीत्यर्थः ॥
न सिद्धो ऽप्रथनाद् एव $ ज्ञानादिसमवाय्य् अपि &
तत् प्राणादि प्रमेयं स्यान् % न प्रमातान्यतो भ्रमात्

20

वृ: ज्ञानादिगुणैः समवेतो ऽपि परिमितप्रमाता विमर्शवैधुर्याद् एव न सिद्ध्यति निर्विमर्शत्वे जाड्यप्रसङ्गात्, तस्माद् व्यवच्छिन्नां भ्रान्तिम् आश्रित्य प्राणपुर्यष्टकमातुर् वेद्यत्वं स्यान् न परमार्थप्रमातृभावः संभाव्यते ॥
यद्य् अप्य् अर्थस्थितिः प्राण- $ पुर्यष्टकनियन्त्रिते &
जीवे निरुद्धा तत्रापि % परमात्मनि सा स्थिता

मूल पाठ: Ajaḍapramātṛsiddhi · Edition: of the Siddhitrayi by Madhusudan Kaul Shastri Srinagar : Kashmir Pratap Steam Press 1921 (Kashmir Series of Sanskrit Texts and Studies, 34) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc