भाषा

ENहिગુ
ग्रंथ पाठ

अजडप्रमातृसिद्धि · श्लोक 21-27

21

वृ: मायाव्यवहारात्मनि लोकयात्रायां यद्य् अपि प्राणादि संकोचवति जीवे सर्वेषां बाह्याभ्यन्तराणां विषयाणां व्यवस्थितिर् नियन्त्रिता तथापि संकुचितात्मनि तत्र मितप्रमातरि संकोचापहस्तनेन परप्रमात्रेकात्मतया शिवात्मन्य् एव सा तिष्ठति प्राणादेश् चित्प्रकाशाद् अव्यतिरेकित्वात्, शिवस्यैव स्वेच्छया समुल्लासितायाः पशुभूमिकाया ग्रहणेनाणुभावाभ्युपगमात् ॥
तदात्मनैव तस्य स्यात् $ कथं प्राणेन यन्त्रणा &
साधिता प्रत्यभिज्ञायाम् % अख्यातेर् जीवता परम्

22

वृ: तस्माद् वस्तुतः शिवस्वभावाभिन्नेन प्राणादिप्रमात्रा संकुचितशुक्तिकेन कथम् अनवच्छिन्नप्रकाशानन्दमयपूर्णाहंतास्फुरत्तात्मनः शिवस्यावभासननिरोधः स्यात् तथात्वे तस्य स्वयं स्थातुम् अशक्यत्वात् केवलम् अपरिच्छिन्नस्वशक्तिविकासस्याप्रथनम् एव बन्धकत्वपर्यायं जीवत्वं, तस्य चेश्वरप्रत्यभिज्ञायां शास्त्रे सविस्तरं निर्णीतत्वाद् इति तत एव विवेच्यम् ॥
नार्थव्यवस्था प्राणादाव् $ अहंभावनिरोधतः &
प्रकाशस्यात्मविश्रान्तिर् % अहंभावो हि कीर्तितः

23

उक्ता सैव च विश्रान्तिः $ सर्वापेक्षानिरोधतः &
स्वातन्त्र्यम् अथ कर्तृत्वं % मुख्यम् ईश्वरतापि च

24

वृ: प्राणादौ परिमितप्रमात्रास्पदे जडे स्वात्ममात्रस्फुरत्तात्मनः परामर्शस्य निरोधान् नैव वस्तुव्यवस्था तस्याः संविन्निष्ठत्वात्, यतो या संविदः स्वात्ममात्रविश्रान्तिः स एव पूर्णाहंताविमर्शस्वभावो ऽहंभावो ऽर्थव्यवस्थापको गीयते । सैव विश्वभावानां पर्यन्तप्रतिष्ठाभूमिकत्वाद् विश्रान्तिः, विश्वप्रसरणे स्वव्यतिरिक्तसामग्रीनिरपेक्षत्वात् स्वातन्त्र्यं, तद् एव कर्तृत्वं मुख्यम् ऐश्वर्यम् अप्य् आगमेषूद्घोष्यते ॥
मायाभिदास् तच्छक्तेर् एव $ चान्याप्रसिद्धितः &
तदख्यातिमयं ह्य् एतज् % जगन्निर्मातृतेशिता

25

वृ: माया नाम शक्तिः शिवस्य शक्तिमतो ऽव्यतिरेकिणी स्वरूपगोपनात्मिका क्रीडा, तन्निमित्ताद् एव यस्माद् अख्यातिमयम् एतद् विश्वं भासते व्यतिरिक्तकारणस्य भेदाभेदविकल्पोपहतत्वेनाप्रसिद्धत्वात्, तस्माद् विश्वाभासानां निर्मातृत्वम् ईश्वरत्वम् ॥
एकैव चानुसंधानात् $ सा प्रोक्ता सर्वसंविदाम् &
स्वसंवेदनपर्याय- % मातृतत्त्वम् अनादि तत्

26

वृ: सैश्वरी पराशक्तिः समस्तानां विच्छिन्ननीलासिसंविदां संयोजनवियोजनादौ कार्ये पूरापरादिकोटाव् ऐक्यानुसंधानम् आश्रित्य तदाधारभूतान् अवच्छेदिनी एकैव, तद् एव स्वसंवेदनपर्यायं मातुर् अनादि तत्त्वम् उच्यते ॥
भावव्यवस्था यन् निष्ठा $ तस्याहंभावभागिनः &
व्यापित्वम् अनुसंधानं % तज् जडस्य न युज्यते

27

वृ: यत्र सर्वार्थानां व्यवस्थितिः प्रतिष्ठिता तस्य संविदात्मनः पूर्णाहंतापरामर्शसारस्याजडप्रमातुः स्वातन्त्र्याविनाभाववत्त्वात् सर्वत्रानुसंधानात्मकं व्यापित्वम् अस्ति, तच् चास्वतन्त्रस्य जडस्य न घटते विमर्शसारत्वाभावात् ॥
ततो भेदे तु भासस्य $ घटते भासमानता &
तेनोक्तम् प्रत्यभिज्ञायां % तदद्वयमयं जगत्

मूल पाठ: Ajaḍapramātṛsiddhi · Edition: of the Siddhitrayi by Madhusudan Kaul Shastri Srinagar : Kashmir Pratap Steam Press 1921 (Kashmir Series of Sanskrit Texts and Studies, 34) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc