भाषा

ENहिગુ
ग्रंथ पाठ

ऐतरेयोपनिषद (टीका सहित) · अध्याय 3

3.1

ऐतुप्भ्_2.6
स वामदेव ऋषिर्यथोक्तमात्मानमेवं विद्वानस्माच्छरीरभेदाच्छरीरस्याविद्यापरिकल्पितस्य आयसवदनिर्वेद्यस्य जननमनणाद्यनेकानर्थशताविष्टशरीरप्रबन्धनस्य परमात्मज्ञानामृतोपयोगजनितवीर्यकृत्भेदाच्छरीरोत्पत्तिबीजाविद्यादिनिमित्तोपमर्दहेतोः शरीरविनाशादित्यर्थः ।
ऊर्ध्वः परमात्मभूतः सन्नधोभावात्संसारादुत्क्रम्य ज्ञानावद्योतितामलसर्वात्मभावमापन्नः सन्नमुष्मिन्यथोक्ते ऽजरे ऽमरे ऽमृते ऽभये सर्वज्ञे ऽपूर्वे ऽनपरे ऽनन्तरे ऽबाह्ये प्रज्ञानामृतैकरसे प्रदीपवन्निर्वाणमत्यगमत्स्वर्गे लोके स्वस्मिन्नात्मनि स्वे स्वरूपे ऽमृतः समभवत् ।
आत्मज्ञानेन पूर्वमाप्तकामतया जीवन्नेव सर्वान्कामानाप्त्वेत्यर्थः ।
द्विर्वचनं सफलस्य सोदाहणस्यात्मज्ञानस्य परिसमाप्तिप्रदर्शनार्थम् ॥6॥
इति प्रथमाध्याये प्रथमः खण्डः समाप्तः
द्वितीयः अध्यायः समाप्तः
=======================================================================
स्तर्त् 3.1
बह्मविद्यासाधनकृतसर्वात्मभावफलावाप्तिं वामदेवाद्याचार्यपरम्परया श्रुत्यावद्योत्यमानां ब्रह्मवित्परिषद्यत्यन्तप्रसिद्धामुपलभमाना मुमुक्षवो ब्राह्मण अधुनातना ब्रह्मजिज्ञासवो ऽनित्यात्साध्यसाधनलक्षणात्संसारादाजीवभावाद् व्याविवृत्सवो विचारयन्तो ऽन्योन्यं पृच्छन्ति को ऽयमात्मेति? कथम् -
को ऽयम् ।
आत्मेति वयम् उपास्महे ।
कतरः स आत्मा ।
येन वा पश्यति येन वा शृणोति येन वा गन्धाञ् जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति

3.2

ऐतुप्भ्_3.1
यमात्मानमयमात्मेति साक्षाद्वयमुपास्महे कः स आत्मेति यं चात्मानमयमात्मेति साक्षादुपासीनो वामदेवो ऽमृतः समभवत्तमेव वयनमप्युपास्महे को नु खलु स आत्मेति ।
एवं जिज्ञासापूर्वमन्योन्यं पृच्छतामतिक्रान्तविशेषविषयश्रुतिसंस्कारजनिता स्मृतिरजायत ।
ऽतं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम्ऽ ऽस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतऽ एतमेव पुरुषम् ।
अत्र द्वे ब्रह्मणी इतरेतरप्रातिकूल्येन प्रतिपन्ने इति ।
ते चास्यपिण्डस्यात्मभूते ।
तयोरन्यतर आत्मोपास्यो भवितुमर्हति ।
यो ऽत्रोपास्यः कः आत्मेति विशेषनिर्धारणार्थं पुनरन्योन्यं पप्रच्छुर्विचारयन्तः ।
पुनस्तेषां विचारयतां विशेषविचारणास्पदविषया मतिरभूत् ।
कथम्? द्वेवस्तुनि अस्मिन् पिण्ड उपलभ्येते ।
अनेकभेदभिन्नेन करणेन येनोपलभते ।
यश्चैक उपलभ्येते ।
करणान्तरोपलब्धविषयस्मृतिप्रतिसन्धानात् ।
तत्र न तावद्येनोपलभते स आत्मा भवितुमर्हति ।
केन पुनरुपलभत इत्युच्यते येन वा चक्षुर्भूतेन रूपं पश्यति ।
येन वा श्रुणोति श्रोत्रभूतेन शब्दम्, येन वा घ्राणभूतेन गन्धानाजिघ्रति, येन वा वाक्करणभूतेन वाचं नामात्मिकां व्याकरोति गौरश्व इत्येवमाद्यां साध्वसाध्विति च, येन वा जिह्वाभूतेन स्वादु चास्वादु च विजानातीति ॥1॥
स्तर्त् 3.2
किं पुनस्तदेवैकमनेकधा भिन्नं करणम् इत्युच्यते -
यद् एतद् धृदयं मनश् चैतत् ।
सञ्ज्ञानम् आज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर् धृतिर् मतिर् मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुर् असुः कामो वश इति सर्वाण्य् एवैतानि प्रज्ञानस्य नामधेयानि भवन्ति

3.3

ऐतुप्भ्_3.2
यदुक्तं पुरस्तात्प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसा सृष्टा आपश्च वरुणश्च हृदयान्मनो मनसश्चन्द्रमाः ।
तदेवैतद्धृदयं मनश्च एकमेव तदनेकधा ।
एतेनान्तःकरणेनैकेन चक्षुर्भूतेन रूपं पश्यति श्रोत्रभूतेन शृणोति घ्राणभूतेन जिघ्रति वाग्भूतेन वदति जिह्वाभूतेन रसयति स्वेनैव विकल्पनारूपेण मनसा विकल्पयति हृदयरूपेणाध्यवस्यति ।
तस्मात्सर्वकरणविषयव्यापारकमेकमिदं करणं सर्वोपलब्ध्यर्थमुपलब्धुः ।
तथा च कौषीतकीनां"प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति ।
प्रज्ञा चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति"(3 । 3) इत्यादि ।
वाजसनेयके च -"मनसा ह्येव पश्यति मनसा शृणोति हृदयेन हि रूपाणि जानाति"(बृ.उ.1 । 5 । 3) इत्यादि ।
तस्माद् हृदयमनोवाच्यस्य सर्वोपलब्धिकरत्वं प्रसिद्धम् ।
तदात्मकश्च प्राणो"यो वै प्राणः सा प्रज्ञा यो वै प्रज्ञा स प्राणः"(कौषी.3 । 3) इति हि ब्राह्मणम् ।
करणसंहतिरूपश्च प्राण इत्यवोचाम प्राणसंवादादौ ।
तस्माद्यत्पद्भ्यां प्रापद्यत तद्ब्रह्म तदुपलब्धुरुपलब्धिकरणत्वेन गुणभूतत्वान्नैव तद्वस्तु ब्रह्मोपास्यात्मा भवितुमर्हति ।
पारिशेष्याद्यस्योपलब्धुरुपलब्ध्यर्थं एतस्य हृदयस्य मनोरूपस्य करणस्य वृत्तयो वक्ष्यमाणाः ।
स उपलब्धोपास्य आत्मानो ऽस्माकं भवितुमर्हतीति निश्चयं कृतवन्तः ।
तदन्तःकरणोपाधिस्थस्योपलब्धुः प्रज्ञारूपस्य ब्रह्मण उपलब्ध्यर्था या अन्तःकरणवृत्तयो बाह्यान्तर्वर्तिविषयविषयास्ता इमा उच्यन्ते ।
संज्ञानं संज्ञप्तिश्चेतनभावः, आज्ञानमाज्ञप्तिरीश्वरभावः विज्ञानं कलादिपरिज्ञानम्, प्रज्ञानं प्रज्ञप्तिः प्रज्ञता, मेधाग्रन्थधारणसामर्थ्यम् दृष्टिरिन्द्रियद्वारा सर्वविषयोपलब्धिः, धृतिर्धारणमवसन्नानां शरीरेन्द्रियाणां ययोत्तम्भनं भवति - धृत्या शरीरमुद्वहन्तीति हि वदन्ति, मतिर्मननम्, मनीषा तत्र स्वातन्त्र्यम्. जूतिश्चेतसो रुजादिदुःखित्वभावः स्मृतिः स्मरणम्, संकल्पः शुक्लकृष्णादिभावेन संकल्पनं रूपादीनाम्, क्रतुरध्यवसायः असुः प्राणनादिजीवनक्रियानिमित्ता वृत्तिः, कामो ऽसंनिहितविषयाकाङ्क्षा तृष्णा, वशः स्त्रीव्यतिकराद्यभिलाषः, इत्येवमाद्या अन्तःकरणवृत्तयः प्रज्ञप्तिमात्रस्योपलब्धुरुपलब्ध्यर्थत्वाच्छुद्धप्रज्ञानरूपस्य ब्रह्मण उपाधिभूतास्तदुपाधिजनितगुणनामधेयानि भवन्ति संज्ञानादीनि ।
सर्वाण्येव एतानि प्रज्ञानस्य नामधेयानि भवन्ति न स्वतः साक्षात् ।
तथा चोक्तं"प्राणन्नेव प्राणो नाम भवति"(बृ.उ.1 । 4 । 7) इत्यादि ॥2॥
स्तर्त् 3.3
एष ब्रह्मा ।
एष इन्द्रः ।
एष प्रजापतिः ।
एते सर्वे देवाः ।
इमानि च पञ्च महाभूतानि पृथिवी वायुर् आकाश आपो ज्योतींषीत्य् एतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत् किञ्चेदम् प्राणि जङ्गमं च पतत्रि च यच् च स्थावरम् ।
सर्वं तत् प्रज्ञानेत्रम् ।
प्रज्ञाने प्रतिष्ठितम् ।
प्रज्ञानेत्रो लोकः ।
प्रज्ञा प्रतिष्ठा ।
प्रज्ञानं ब्रह्म

3.4

ऐतुप्भ्_3.3
स एष प्रज्ञानरूप आत्मा ब्रह्मापरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा ।
अन्तःकरणोपाधिष्वनुप्रविष्टो जलभेदगतसूर्यप्रतिबिम्बवद्धिरण्यगर्भः प्राणः प्रज्ञात्मा एष एव इन्द्रो गुणाद्देवराजो वा एष प्रजापतिर्यः प्रथमजः शरीरी ।
यतो मुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाताः स प्रजापतिरेष एव ।
ये ऽप्येते ऽग्न्यादयः सर्वे देवा एष एव ।
इमानि च सर्वशरीरोपादानभूतानि पञ्च पृथिव्यादीनि महाभूतान्यन्नान्नादत्वलक्षणान्येतानि किञ्चेमानि च क्षुद्रमिश्राणि क्षुद्रैरल्पकैर्मिश्राणि इव शब्दो ऽनर्थकः सर्पादीनि बीजानि कारणानीतराणि चेतराणि च द्वैराश्येन निर्दिश्यमानानि ।
कानि तानि! उच्यन्ते - अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजादीनि यूकादीनि, उद्भिजानि च वृक्षादीनि, अश्वा गावः पुरुषा हस्तिनो ऽन्यच्च यत्किञ्चेदं प्राणिजातम्, किं तत्? जङ्गमं यच्चलति पद्भ्यां गच्छति ।
यच्च पतत्रि आकाशेन पतनशीलम् ।
यच्च स्थावरमचलम् ।
सर्वं तदेष एव ।
सर्वं तदशेषतः प्रज्ञानेत्रम् ।
प्रज्ञप्तिः प्रज्ञा तच्च ब्रह्मैव ।
नीयते ऽनेनेति नेत्रम् प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम् ।
प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितं प्रज्ञाश्रयमित्यर्थः ।
प्रज्ञानेत्रो लोकः पूर्ववत् ।
प्रज्ञाचक्षुर्वा सर्व एव लोकः प्रज्ञा प्रतिष्ठा सर्वस्य जगतः ।
तस्मात्प्रज्ञानं ब्रह्म ।
तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सन्निरञ्जनं निर्मलं निष्क्रियं शान्तमेकमद्वयं"नेति नेति"इति (बृ.उ.3 । 9 । 26) सर्वविशेषापोहसंवेद्यं सर्वशब्दप्रत्ययागोचरम् ।
तदप्यन्तविशुद्धप्रज्ञोपाधिसंबन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वादन्तर्यामिसंज्ञं भवति ।
तदेव व्याकृतजगत्बीजभूतबुद्ध्यात्माभिमानलक्षणहिरण्यगर्भसंज्ञं भवति ।
तदेवान्तरण्डोद्भूतप्रथमशरीरोपाधिमद्विराट्प्रजापतिसंज्ञं भवति ।
तद्भूताग्न्याद्युपाधिमद्देवतासंज्ञं भवति ।
तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मणः ।
तदेवैकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्तार्किकैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते चानेकधा ।
"एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ।
इन्द्रमेके ऽपरे प्राणमपरे ब्रह्म शाश्वतम्"(मनु.12 । 123) इत्याद्या स्मृतिः ॥3॥
स्तर्त् 3.4
स एतेन प्रज्ञेनात्मनास्माल् लोकाद् उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वामृतः समभवत् समभवत्

मूल पाठ: Aitareyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc