भाषा

ENहिગુ
ग्रंथ पाठ

अहिर्बुध्नसंहिता · अध्याय 42

42.1

काशीराजश्रुतकीर्त्युपाख्यानवर्णनं नाम
द्विचत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
अङ्गमन्त्राणामुत्पत्तिदेवताप्रयोजनशक्तिध्येयप्रश्नाः
नारदः -
भगवन् सर्वधर्मज्ञ सर्वभूतनमस्कृत ।
श्रोतव्यं यद्यदस्माभिः श्रुतं तत् तदशेषतः ॥ ४२-

42.2

इदं त्विदानीं पृच्छामि शंस मे मनसि स्थितम् ।
कुतोऽमुष्याङ्गमन्त्राणामुत्पत्तिः का च देवता ॥ ४२-

42.3

किमर्थं कीदृशी शक्तिः किं ध्येयं ब्रूहि तत्त्वतः ।
पृष्टस्यार्थस्य गुह्यत्वख्यापनमुखेनोत्तरकथनारम्भः
अहिर्बुध्न्यः -
श्रूयतामवधानेन तदेतद् गुह्यमुत्तमम् ॥ ४२-

42.4

उत्पत्तिप्रश्नस्योत्तरम्
आथर्वणान्मया वेदान्महामन्त्रपरिष्कृतात् ।
समुद्धृतः षडर्णोऽयं कौस्तुभः सागरादिव ॥ ४२-

42.5

प्. ४०१) तथा तस्मादिमे मन्त्राः प्रोद्धृताः सकला मुने ।
देवताप्रश्नस्योत्तरम्
स्वयमेवाङ्गमन्त्राणामपि देवः सुदर्शनः ॥ ४२-

42.6

प्रयोजनशक्तिप्रश्नयोरुत्तरम्
सुदर्शनमहामन्त्रनिष्ठस्याङ्गावनं परम् ।
कार्यमेषां षडर्णेन तथामी समशक्तयः ॥ ४२-

42.7

ध्येयप्रश्नस्योत्तरम्
एषामष्टभुजो देवः पूर्वोक्तेनैव वर्त्मना ।
ध्येयः सर्वं समाख्यातं किमन्यच्छ्रोतुमिच्छसि ॥ ४२-

42.8

निवर्तकास्त्रप्रयोगावसरप्रश्नः
नारदः -
भगवन् परमोदार नित्यतृप्त दयानिधे ।
नित्यज्ञानक्रियैश्वर्यविश्वविज्ञानवारिधे ॥ ४२-

42.9

सुदर्शनमहायन्त्रमन्त्रशक्तिक्रियादिषु ।
यद् वक्तव्यं विशेषेण तदुक्तं भवता विभो ॥ ४२-

42.10

प्रवर्तकानामस्त्राणामुत्पत्तिः कथिता पुरा ।
स्वरूपशक्ती च तथा प्रयोगश्च महाद्युते ॥ ४२-

42.11

निवर्तकानां तु पुनः कदा क्व विषये गुरो ।
प्रयोगः परमं मेऽत्र संशयं छेत्तुमर्हसि ॥ ४२-

42.12

प्. ४०२) तदुत्तरकथनप्रतिज्ञा
अहिर्बुध्न्यः -
श्रूयतामवधानेन प्रयोगावसरं मु ।
निवर्तकानामस्त्राणां सम्यक् कथयतो मम ॥ ४२-

42.13

तत्प्रयोगावसरकथनम्
परप्रयुक्तैर्दिव्यास्त्रैरभिचारैश्च तत्कृतैः ।
महत्यभिभवे प्राप्ते तं विद्यात् तपसां निधे ॥ ४२-

42.14

पराभिचाराभिभवज्ञानोपायप्रश्नः
नारदः -
पराभिचाराभिभवः कैर्लिङ्गैरवगभ्यते ।
राज्ञां च मन्त्रिणां चैव तथान्येषां नृणामपि ॥ ४२-

42.15

तज्ज्ञानोपायलिङ्गनिरूपणम्
अहिर्बुध्न्यः -
लक्ष्यते लक्षणैरेतैर्नृपाणामाभिचारिकी ।
विकृतिः प्रस्तुताकाले दारुणा सर्वगोचरा ॥ ४२-

42.16

अकाण्ड एव नश्यन्ति वाजिवारणमन्त्रिणः ।
तीव्रामयपरीताङ्गः पीड्यते नृपतिः स्वयम् ॥ ४२-

42.17

पतन्त्यशनयस्तस्य विषये घोरदर्शनाः ।
अल्पसस्या वसुमती विनश्यन्ति गवां गणाः ॥ ४२-

42.18

प्. ४०३) भवन्ति तस्य विषये पुनः पुनरवग्रहाः ।
तीव्रामयगृहीताश्च महिष्यस्तस्य भूपतेः ॥ ४२-

42.19

प्रभवन्त्यहिवल्मीकाः प्रासादे द्वारि मण्डपे ।
निपतन्ति महोल्काश्च भृशं भीमस्वनान्विताः ॥ ४२-

42.20

मन्त्रिणश्च विरुध्यन्ते मत्सरेण परस्परम् ।
रजन्यां राजते भीममैन्द्रं धनुरनभ्रजम् ॥ ४२-

42.21

इतस्ततो वह्निभयं नगरे जायते भृशम् ।
प्रविश्य गर्भभवनं क्रोष्टारश्चानिवारिताः ॥ ४२-

42.22

क्रोशन्ति संध्ययोर्भीमा दीप्तायां दिशि विस्वरम् ।
रुन्धन्ति नगरं राज्ञः शत्रवो बलदर्पिताः ॥ ४२-

42.23

कृत्याकृत्यं न जानाति स्वयं स्तैमित्यमास्थितः ।
स्वप्नेऽपि पश्यत्यात्मानं मुण्डितं नीलवाससम् ॥ ४२-

42.24

तथेन गर्दभयुजा व्रजन्तं दक्षिणां दिशम् ।
इत्यादिलिङ्गैर्जानीयादभिचारं सपत्नजम् ॥ ४२-

42.25

पराभिचारजा कृत्या राजानं प्रविशेद्यदि ।
तां दृष्ट्वा क्षिप्रमेवासौ विनश्यति न संशयः ॥ ४२-

42.26

पुत्रांश्च मन्त्रिणश्चापि महिषीं नगरं तथा ।
ज्वालामालाविला कृत्या सर्वं नाशयति क्षणात् ॥ ४२-

42.27

पराभिचारनिवर्तनाय निवर्तकास्त्रधारिसुदर्शनप्रीणनम्
एवं पराभिचारेण पीडिते नृपतौ स्वयम् ।
प्. ४०४) निवर्तकास्त्रसहितं भगवन्तं महाद्युतिम् ॥ ४२-

42.28

चक्रस्वरूपिणं देवं भक्त्या संतोषयेत् ततः ।
रजतेन सुवर्णेन शिलया ताम्रकेण वा ॥ ४२-

42.29

सुदर्शनार्चां निर्माय पूजयेत् सनिवर्तकम् ।
समालिख्य पटे वापि ध्यायेत् त्रैलोक्यपूजितम् ॥ ४२-

42.30

एवं निर्माणतो ध्यानात् पूजया वन्दनेन वा ।
प्रतिष्ठया वा स्तोत्रेण देवं संप्रीणयेन्नृपः ॥ ४२-

42.31

एवमन्ये तथा कुर्युरमात्या वा नरा मुने ।
प्रीतेन सुदर्शनेन पराभिचारनिर्दहनम्
ततः प्रीतः स भगवाननादिनिधनो विभुः ॥ ४२-

42.32

अभिचारान् परकृतानाश्रितानुग्रहेण तु ।
भस्मीकरोति स्मृत्यैव तत्प्रयुक्तान्यपि क्षणात् ॥ ४२-

42.33

दिव्यास्त्राण्युपसंहारैरस्त्रैर्वारयतीश्वरः ।
परप्रयुक्तकृत्यायास्तत्प्रयोक्तुश्च विनाशनम्
परप्रयुक्तां कृत्यां तु संप्राप्तामतिभीषणाम् ॥ ४२-

42.34

स्वयं निर्गत्य देवोऽसौ चक्ररूपी जगत्पतिः ।
भस्मसात् कुरुते तं च प्रयोक्तारं ततः परम् ॥ ४२-

42.35

काशीराजेतिहासोदाहरणम्
तथैव काशीराजाख्यो वाराणस्यां वसन्नृपः ।
विश्वेश्वरं महादेवमर्चयित्वा समाहितः ॥ ४२-

42.36

प्. ४०५) कृष्णोद्देशेन कृत्यां वै जनयामास मोहितः ।
सा समुत्पादिता कृत्या विकटा भीमदर्शना ॥ ४२-

42.37

द्वारकां समनुप्राप्य कृष्णाभ्यासं ययौ तदा ।
तामापतन्तीं संप्रेक्ष्य ज्वालामालाविलाननाम् ॥ ४२-

42.38

प्रेषयामास भगवान् सुदर्शनमनुत्तमम् ।
सा तमापतितं दृष्ट्वा सहस्रादित्यसंनिभम् ॥ ४२-

42.39

यथागतं प्रदुद्राव प्रयोक्तारं भयातुरा ।
स तां निहत्य तं चापि काशीराजं पुरीं तथा ॥ ४२-

42.40

आजगाम पुनश्चक्रं विष्णुपार्श्वं महाद्युति ।
श्रुतकीर्त्युपाख्यानोदाहरणम्
एवमन्यत् पुरावृत्तमितिहासं शृणुष्व मे ॥ ४२-

42.41

राज्ञा श्रुतकीर्तिना धर्मेण सप्तद्वीपमहीपरिपालनम्
सौराष्ट्राधिपती राजा श्रुतकीर्तिरिति श्रुतः ।
निवसन् भद्रशालायां नगर्यामरिमर्दनः ॥ ४२-

42.42

गजाश्वरथसंपन्नो बलवान् वासवोपमः ।
सुदर्शनमहामन्त्रनिष्ठः परमधार्मिकः ॥ ४२-

42.43

सुदर्शने परां भक्तिमुद्वहन्नर्चनापरः ।
बुभुजे तत्प्रसादेन सप्तद्वीपवतीं महीम् ॥ ४२-

42.44

प्. ४०६) लोकान्तरं जिगीषोस्तस्य सुदर्शनार्चनपूर्वकं
स्वस्तिकाख्यगन्धर्वनगरगमनम्
जेतुं लोकान्तरं चक्रे श्रुतकीर्तिर्मनस्तदा ।
चतुरङ्गबलैर्युक्तः समभ्यर्च्य सुदर्शनम् ॥ ४२-

42.45

कामगं स्यन्दनं चित्रमारुरोह महाबलः ।
ततः प्रतस्थे प्रथममन्तरिक्षं बलान्वितः ॥ ४२-

42.46

स्वस्तिकनगरवर्णनम्
तत्र गन्धर्वनगरं विशालं स्वस्तिकाह्वयम् ।
वीणाविनोदनेनेत्थं पालितं परमद्युति ॥ ४२-

42.47

स्वयंप्रवृत्तैः शस्त्रैश्च वार्यमाणारिसैनिकम् ।
बहिर्निरिन्धनेनैव वह्निना परिवेष्टितम् ॥ ४२-

42.48

सुवर्णसालं परमं रत्नगोपुरमण्डितम् ।
मणिहर्म्यपरिक्षिप्तं गानस्वनसमाकुलम् ॥ ४२-

42.49

विमानैस्तैजसैर्जुष्टं दिव्योपवनशोभितम् ।
सुवर्णपद्मसरसीसरिद्वापीनिषेवितम् ॥ ४२-

42.50

सेवितं सुरनारीभिरप्सरोभिश्च सेवितम् ।
गन्धर्वैः किंनरैः सिद्धैश्चारणैश्च सदा युतम् ॥ ४२-

42.51

युयुत्सुना श्रुतकीर्तिना तन्नगरोपरोधः
एवंविधं पुरं राजा रुरोध बलदर्पितः ।
वीणाविनोदनं योद्धुं महत्या सेनया तदा ॥ ४२-

42.52

प्. ४०७) गन्धर्वराजेन वाहिनीप्रेषणम्
श्रुत्वा गन्धर्वराजोऽपि मानुषैरुपरोधनम् ।
प्रहस्य प्रेषयामास सिद्धगन्धर्ववाहिनीम् ॥ ४२-

42.53

तत्र तुमुलसंग्रामः
सा तेन बलिना राज्ञा युयुधे निशितैः शरैः ।
प्रवृत्तं तन्महद्युद्धं तुमुलं रोमहर्षणम् ॥ ४२-

42.54

श्रुतकीर्तिना गन्धर्वसैन्यविद्रावणम्
ततो विद्रावयामास भूपतिर्लीलया बलम् ।
गान्धर्वं तत् पुनः प्राप स्वपुरीं भयविह्वलम् ॥ ४२-

42.55

क्रुद्धस्य गन्धर्वराजस्य स्वयं युद्धाय निर्गमनम्
तच्छ्रुत्वा परमक्रुद्धः स्वयं वीणाविनोदनः ।
रथं महान्तमास्थाय निर्ययौ सह सैनिकैः ॥ ४२-

42.56

गन्धर्वराजश्रुतकीर्त्योरष्टदिनपर्यन्तं युद्धप्रवृत्तिः
ततस्तयोरभूद्युद्धं वृत्रवासवयोरिव ।
परस्परं निजघ्नुस्ते सैनिकाः विविधैः शरैः ॥ ४२-

42.57

तत्र संछन्नमाकाशं शरौघैरुभयोरपि ।
जयः पराजयो वा स्यान्न तत्र समितौ तयोः ॥ ४२-

42.58

एवमष्टदिनान्यासीदेकरूपं भयंकरम् ।
प्. ४०८) भूपतिना गन्धर्वराजस्य धनुरादिच्छेदो बलविद्रावणं च
ततो गन्धर्वराजस्य घनुश्चिच्छेद भूपतिः ॥ ४२-

42.59

ध्वजच्छत्रहयांश्चापि सायकैर्नतपर्वभिः ।
दिशः प्रस्थापयामास तदीयं सकलं बलम् ॥ ४२-

42.60

गन्धर्वराजस्य विषादः
शस्त्रैरजययमालोच्य नृपं गन्धर्वराडपि ।
पराजितं तु स्वबलं मनुजैर्विषसाद ह ॥ ४२-

42.61

गन्धर्वराजेन मानुषबले गान्धर्वास्त्रप्रयोगः
दिव्यास्त्रैः सूदयाम्येनमिति मत्वा महाद्युतिः ।
गान्धर्वमस्त्रं चिक्षेप स तस्मिन् मानुषे बले ॥ ४२-

42.62

तेन मानुषसैन्यविमोहनम्
तेनैव मोहिता सर्वा श्रुतकीर्तिवरूथिनी ।
गान्धर्वास्त्रप्रभावेण तिष्ठत्येव च संयुगे ॥ ४२-

42.63

सुदर्शनप्रभावेण दिव्यास्त्रं नाप तं नृपम् ।
तत्प्रतीकाराशक्तस्य श्रुतकीर्तेः पुरोधसि स्ववृत्तनिवेदनम्
श्रुतकीर्तिस्तदास्त्रेषु दिव्येष्वनभियोगतः ॥ ४२-

42.64

न शशाक प्रतीकर्तुं स्वपुरोधसमभ्ययात् ।
वृत्तं विज्ञापयामास नृपस्तस्मै पुरोधसे ॥ ४२-

42.65

पुरोधसा सुदर्शनशरणवरणोपदेशपूर्वकं
निखिलास्त्रमन्त्रोपदेशनम्
सोऽभ्यभाषत धर्मज्ञः परमास्त्रविशारदः ।
प्. ४०९) श्रुतकीर्तेऽत्र मा भैषीस्तमेव शरणं व्रज ॥ ४२-

42.66

प्रणतार्तिहरं देवं सुदर्शनवपुर्धरम् ।
दिव्यास्त्राणामशेषाणां प्रसूतिं परमेश्वरम् ॥ ४२-

42.67

एवं भूते महाचक्रे चतुःषष्ट्यरसंयुते ।
नेमिद्वयान्विते देवं मध्ये ध्यायस्व भूपते ॥ ४२-

42.68

द्विषष्टिभुजमत्युग्रं संहारास्त्रधरं परम् ।
एवं ध्यात्वा च जप्त्वैतं मन्त्रं सेनां विलोकय ॥ ४२-

42.69

इत्यस्त्रमन्त्रानखिलांस्तस्मा उपदिदेश सः ।
तेन जातबलस्य श्रुतकीर्तेः पुनर्युद्धायागमनम्
प्रतिगृह्याखिलान् मन्त्रान् प्रवर्तकनिवर्तकान् ॥ ४२-

42.70

पुनरेत्य च संग्रामं स राजा समितिंजयः ।
तेन स्वसैनिकमोहविमोचनम्
ध्यात्वा देवं जपन् मन्त्रं स्वसेनां समलोकयत् ॥ ४२-

42.71

ततः संज्ञामवाप्यासौ प्रावर्तत महाहवे ।
पुनर्युद्धे श्रुतकीर्तेर्विजयो गन्धर्वलोकवशीकरणं च
पुनः प्रववृते युद्धं सेनयोरुभयोरपि ॥ ४२-

42.72

दिव्यास्त्रैः समरे राजा जित्वा वीणाविनोदनम् ।
तल्लोकं स्ववशं चक्रे चक्रवर्ती बलान्वितः ॥ ४२-

42.73

प्. ४१०) ततः स्वपुरप्रत्यागमनम्
सत्कृतः सिद्धगन्धर्वैः किंनरैश्चारणैरपि ।
भद्रशालां पुनः प्राप स्वपुरीं विजयश्रिया ॥ ४२-

42.74

समेयिवाञ्शशासोर्वीं दिवं सुरपतिर्यथा ।
सुदर्शनप्रभावाद्विस्मितस्य पुनः पुरोधसा सह मन्त्रणप्रकारः
सुदर्शनप्रभावस्य स्मृत्वा विस्मितमानसः ॥ ४२-

42.75

पुरोधसमुपागम्य ज्वलन्तमिव पावकम् ।
मन्त्रयामास तेनैवं राजा राजीवलोचनः ॥ ४२-

42.76

स्वसंपदो भगवत्प्रसादहेतुकत्वकथनम्
देवप्रसादाज्जगती ममेयं
समुद्रनेमिर्वशमागताद्य ।
लोकान्तरं चापि तथैव मन्ये
मयि प्रसादोन्मुख एव देवः ॥ ४२-

42.77

भगवत्प्रसादात् स्वस्य मोक्षलाभे संशयाभावकथनम्
संसारभीतस्य ममापवर्गं
प्रदास्यते चक्रवपुर्धरोऽयम् ।
इत्यत्र शङ्का मम नास्ति काचि-
दतः परं देवमुपास्महे तु ॥ ४२-

42.78

प्. ४११) राजानं प्रति पुरोधसा सुदर्शनप्रतिष्ठापनाद्युपदेशः
इत्युक्तवन्तं नृपतिं पुरोधाः
कृताञ्जलिं प्राह महानुभावः ।
विमानमग्र्यं बहुवर्णकूटं
विधाय चक्रोपपदं ससाध्यम् ॥ ४२-

42.79

इह प्रतिष्ठाप्य सुचक्रमध्ये
द्विषष्टिबाहुं सनिवर्तकास्त्रम् ।
यथोक्तरूपं बहुभूषणाढ्यं
सुदर्शनं पूजय सर्वसिद्ध्यै ॥ ४२-

42.80

राज्ञा तथैवानुष्ठानम्
इत्येवमुक्तः प्रतिगृह्य मूर्ध्ना
स तस्य वाक्यं परमार्थयुक्तम् ।
अकारयत् कारयितव्यदक्ष-
स्तथैव तस्मिन्नगरे स राजा ॥ ४२-

42.81

तदर्थं राज्ञा द्विजानां वृत्तिप्रकल्पनम्
शतं स विंशत्यधिकं द्विजांस्तु
समन्ततो देवनिकेतनात् सः ।
ततः प्रतिष्ठाप्य धनानि दत्त्वा
बहूनि बह्वीश्च भुवः स तेभ्यः ॥ ४२-

42.82

प्. ४१२) विभूतिमन्तं च विधाय देवं
मुमोद राजा समवाप्तकामः ।
ततो भगवत्प्रसादाद्राज्ञः परमपुरुषार्थलाभः
महालये तत्र समर्च्य देवं
दिने दिने प्राप्तसमस्तकामः ।
ततोऽचिरेणैव विमुक्तसङ्गः
परं पदं प्राप च तत्प्रसादात् ॥ ४२-

42.42

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
काशीराजश्रुतकीर्त्युपाख्यानवर्णनं नाम
द्विचत्वारिंशोऽध्यायः

42.2673

आदितः श्लोकाः

मूल पाठ: ahirbudhnasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc