भाषा

ENहिગુ
ग्रंथ पाठ

अहिर्बुध्नसंहिता · अध्याय 41

41.1

स्वरूपतोऽस्त्रधारणतत्प्रयोजनप्रतिपिपादयिषया
मधुकैटभसंहारवर्णनं नाम एकचत्वारिंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् ।
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ॥
भगवता अस्त्राणां स्वरूपतो धारणस्य
कालविशेषप्रयोजनादिप्रश्नः
नारदः -
अस्त्राण्येतानि भगवन् कथितानि स्वरूपतः ।
तान्यधत्त स्वरूपेण देवः पूर्वमितीरितम् ॥ ४१-

41.2

कस्मिन् कदा किमर्थं तत् कृतं विश्वेश्वर प्रभो ।
प्रश्नमेतं परिच्छिन्धि यदि सानुग्रहोऽसि मे ॥ ४१-

41.3

पृष्टस्यार्थस्य परमगुह्यत्वख्यापनमुखेन तत्प्रतिवचनप्रतिज्ञा
अहिर्बुध्न्यः -
परमं ते प्रवक्ष्यामि गुह्यमत्यद्भतं महत् ।
पृच्छते भक्तियुक्ताय परमात्मनि नारद ॥ ४१-

41.4

प्रलयावसाने भगवतः सिसृक्षोदयः
पुरा कल्पावसाने तु भगवान् पुरुषोत्तमः ।
जगत् स्रष्टुं मनश्चक्रे लीलारससमुत्सुकः ॥ ४१-

41.5

प्. ३९३) प्रकृतिपुरुषमहदादिविशेषान्तजगत्सृष्टिः
प्रथमं जनयामास प्रधानपुरुषौ स्वतः ।
महदादि विशेषान्तं जनयित्वा ततो हरिः ॥ ४१-

41.6

अण्डोत्पादनपूर्वकं चतुर्मुखसृष्टिः
तैः सर्वैरण्डमुत्पाद्य तस्मिन् ब्रह्माणमासृजत् ।
प्रजासृष्ट्यर्थं चतुर्मुखाय वेदोपदेशः
प्रजाः सृजेति वेदांश्च तस्मै प्रादाज्जनार्दनः ॥ ४१-

41.7

चतुर्मुखस्य प्रजासृष्ट्यारम्भः
ततः प्रजाः स विविधाः स्रष्टुं समुपचक्रमे ।
तत्र बलदर्पितमधुकैटभोत्पत्तिः
एतस्मिन्नन्तरे दैत्यौ ब्रह्मसृष्टेरनन्तरम् ॥ ४१-

41.8

बलवन्तौ तु तस्योर्वोर्जज्ञाते मधुकैटभौ ।
मदोन्मत्तौ महाकायौ दानवौ बलदर्पितौ ॥ ४१-

41.9

मधुकैटभाभ्यां चतुर्मुखाद्वेदापहरणम्
तौ दृष्ट्वा सृष्ट्युपक्रान्तं ब्रह्माणममितद्युतिम् ।
प्रविश्य मायया तस्माद्वेदाञ्जगृहतुस्तदा ॥ ४१-

41.10

वेदापहाराच्चतुर्मुखस्य सृष्ट्यसामर्थ्यम्
ततः स्रष्टुं प्रजाः सर्वा न शशाक प्रजापतिः ।
निर्विण्णस्य चतुर्मुखस्य चिन्ताप्रकारः
प्. ३९४) परं निर्वेदमापन्नो बभूवाथ प्रजापतिः ॥ ४१-

41.11

प्रजाः सृजेति भगवान् व्यादिदेश स मां हरिः ।
न शक्यते विना वेदैः स्रष्टुं नानाविधाः प्रजाः ॥ ४१-

41.12

दानवाभ्यामिमे वेदा हृता मत्तोऽद्य मायया ।
किमन्यत् कार्यमित्येष परां चिन्तामुपेयिवान् ॥ ४१-

41.13

कृतनिश्चयस्य चतुर्मुखस्य क्षीराब्धिगमनम्
ततो वेधा विनिश्चित्य मनसा कार्यमात्मनः ।
क्षीराब्धेरुत्तरं तीरं जगाम कमलोद्भवः ॥ ४१-

41.14

चतुर्मुखेन भगवतः स्तुतिः
तत्र तुष्टाव देवेशं पुण्डरीकाक्षमच्युतम् ।
ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ॥ ४१-

41.15

असीमानन्दकन्दाय भूरिभूम्ने महात्मने ।
अचिन्त्यशक्तिरूपाय बिभ्रते भुवनानि ते ॥ ४१-

41.16

असीमैश्वर्यवीर्याय तेजसां निधये नमः ।
विश्वान्तर्यामिणे तुभ्यं शुद्धसत्त्वैकमूर्तये ॥ ४१-

41.17

अनवद्याखिलाधारभूषणाय नमो नमः ।
शङ्खचक्रगदाखड्गशार्ङ्गायुधधराय ते ॥ ४१-

41.18

प्. ३९५) श्रीमते पुष्कराक्षाय पुरुषाय नमो नमः ।
विष्वक्सेनमुखैर्दिव्यैः सेव्यमानाय सूरिभिः ॥ ४१-

41.19

दिव्यानन्दमयव्योमनिलयाय नमो नमः ।
सर्गोपसर्गरक्षाभिः क्रीडते जगतां सदा ॥ ४१-

41.20

महाविभूतये तुभ्यं नमो निखिलमूर्तये ।
स्वसमाश्रितवात्सल्यकृतव्यूहविभूतये ॥ ४१-

41.21

विश्वविद्वेषिविध्वंसकृतदीक्षाय ते नमः ।
तापत्रयाभितप्ताघनाशनस्मरणाय ते ॥ ४१-

41.22

नमोऽचिन्त्यस्वरूपाय विष्णवे कर्मसाक्षिणे ।
भगवता चतुर्मुखाय दर्शनप्रदानम्
इति तस्य स्तुतिं श्रुत्वा भगवान् पुरुषोत्तमः ॥ ४१-

41.23

आविर्बभूव पुरतः प्रसन्नः पद्मलोचनः ।
चतुर्मुखेन स्ववृत्तान्तनिवेदनम्
तं दृष्ट्वा परमप्रीतः प्रणम्य परमाद्भुतम् ॥ ४१-

41.24

व्यजिज्ञपदमेयात्मा स्ववृत्तं विनयान्वितः ।
भगवता मधुकैटभस्मरणम्
एतं दानवयोः श्रुत्वा व्यतिक्रममरिंदमः ॥ ४१-

41.25

मन्दं प्रहस्य भगवान् सस्मार मधुकैटभौ ।
प्. ३९६) मधुकैटभयोस्तत्रागमनम्
तौ तस्य स्मृतिमात्रेण द्वारमाजग्मतुस्तदा ॥ ४१-

41.26

मधुकैटभौ प्रति भगवद्वचनम्
ततः समागतौ दृष्ट्वा तत्रैव बलदर्पितौ ।
मेघगम्भीरनिर्घोषमुवाच मधुसूदनः ॥ ४१-

41.27

युवाभ्यामाहृता वेदा मद्दत्ता ब्रह्मणो मुखात् ।
माययेति श्रुतं नैवं युज्यते कर्तुमत्र वै ॥ ४१-

41.28

तत् तस्मै सकला वेदा दीयन्तां परमेष्ठिने ।
भगवद्वचनतिरस्करणपूर्वकं मधुकैटभयोः प्रतिवचनम्
एवमुक्तौ भगवता दुर्मदान्धौ महासुरौ ॥ ४१-

41.29

प्रत्यूचतुरिमांस्तस्मै ददावो नैव सर्वथा ।
आवामेवाचिरात् सर्वाः स्रक्ष्यावो विविधाः प्रजाः ॥ ४१-

41.30

वेदैर्विनैव भगवन् किमत्र परमेष्ठिना ।
भगवता मधुकैटभयोर्हननाय विष्वक्सेनादेशनम्
स तयोर्वचनं श्रुत्वा कोपसंरक्तलोचनः ॥ ४१-

41.31

दुरात्मानौ तु तौ हन्तुं मतिं चक्रे जगत्पतिः ।
एतौ निहत्य दुर्दान्तौ पापावद्य मदोद्धतौ ॥ ४१-

41.32

आदाय वेदानेतस्मै ब्रह्मणे प्रतिपादय ।
इति शेषाशनं देवो व्यादिदेश कृताञ्जलिम् ॥ ४१-

41.33

प्. ३९७) ततः समरसंनहनम्
स तथेति समानीय सर्वाः सेनाश्च वैष्णवीः ।
निर्जगाम ततो योद्धुं संनद्धौ तौ च दानवौ ॥ ४१-

41.34

निर्मिमाते तदा सेनां महतीं तौ च मायया ।
द्वयोः सेनयोस्तुमुलसंग्रामः
उभयोः पक्षयोर्युद्धं तुमुलं समपद्यत ॥ ४१-

41.35

अदृष्टमश्रुतचरमभूत् तत् समरं तदा ।
विष्वक्सेनेन भगवत्सकाशे मधुकैटभयोरजययत्वनिवेदनम्
चिरेणाजययतां ज्ञात्वा दुष्टदानवयोर्युधि ॥ ४१-

41.36

विष्वक्सेनस्तु देवाय न्यवेदयदवारितः ।
भगवतः सर्वास्त्राणां स्वरूपतो धारणपूर्वकं युद्धाय
निर्गमनम्
ततस्तु परमक्रुद्धो निर्जगाम जनार्दनः ॥ ४१-

41.37

युध्यमानौ तु तौ दृष्ट्वा चक्ररूपी स्वयं हरिः ।
बिभ्रद् द्विषष्टिभिर्हस्तैस्तस्थौ दिव्यास्त्रसंहतिम् ॥ ४१-

41.38

सर्वास्त्रस्वरूपधारिभगवद्रूपवर्णनम्
तं दृष्ट्वा परमक्रुद्धं सहस्रादित्यसंनिभम् ।
ज्वलद्भिरस्त्रैर्हस्ताग्रधार्यमाणैश्च वेष्टितम् ॥ ४१-

41.39

पिङ्गलोर्ध्वमुखैः केशैरुपेतमतिभीषणम् ।
अण्डान्तव्याप्तवपुषं जपाकुसुमसंनिभम् ॥ ४१-

41.40

प्. ३९८) पिङ्गलाघूर्णमानोग्रवृत्तनेत्रत्रयान्वितम् ।
भुग्नभ्रुकुटिसंनद्धभीषणाननशोभितम् ॥ ४१-

41.41

दष्टोष्ठमुज्ज्वलद्दंष्ट्रानिर्यत्स्खलितपावकम् ।
महाजलधिसंकाशं द्विषष्टिभुजपञ्जरम् ॥ ४१-

41.42

रक्ताम्बरधरं भीममालीढस्थितिमण्डितम् ।
हारकेयूरताटङ्ककटकादिविभूषणैः ॥ ४१-

41.43

उपेतं किङ्किणीजालक्वणत्कारनिनादितम् ।
आश्चर्यरूपमतुलमेवंभूतं महाद्युतिम् ॥ ४१-

41.44

तद्रूपदर्शनाद् दैत्यसैन्यानां निःशेषं विलयः
कल्पान्तजृम्भिताम्भोधिकल्पास्ते दैत्यसैनिकाः ।
नेशुर्निरीक्ष्य निःशेषं शिष्टौ तौ दानवौ परम् ॥ ४१-

41.45

आगच्छन्तौ सुसंभ्रान्तौ दृष्ट्वा तावुद्यतायुधौ ।
प्राहिणोद् भीषणं चक्रं तद्वधाय महाद्युतिः ॥ ४१-

41.46

चक्रेण मधुकैटभयोः शिरश्छेदः
तयोश्चिच्छेद शिरसी तत्क्षणाच्चक्रमुत्तमम् ।
ताभ्यां वेदानुपादाय देवायैतान्न्यवेदयत् ॥ ४१-

41.47

ब्रह्मणे वेदप्रदानपूर्वकं भगवतस्तिरोधानम्
देवोऽपि ब्रह्मणे दत्त्वा पुनरन्तर्दधे हरिः ।
प्. ३९९) ब्रह्मणा यथापूर्वं प्रजासृष्टिः
लब्धवेदः पुनर्धाता प्रजाश्चक्रे यथापुरम् ।
उपसंहारः
इत्थं भगवतो रूपं चक्ररूपस्य चक्रिणः ॥ ४१-

41.41

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायाम्
स्वरूपतोऽस्त्रधारणतत्प्रयोजनप्रतिपिपादयिषया
मधुकैटभसंहारवर्णनं नाम एकचत्वारिंशोऽध्यायः

41.2591

आदितः श्लोकाः

मूल पाठ: ahirbudhnasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc