अग्नि पुराण · अध्याय 98
विष्ण्वादिस्थापनं चैव पृयङ्मन्त्रैः समाचरेत् ।अप्_97.087अब्।
:ए इत्य् आग्नेये महापुराणे शिवप्रतिष्ठा(8) नाम सप्तनवतितमो
ऽध्यायः ॥
:न्
1 पृथक् पीठे इति ख.. , ग.. , घ.. च
2 स्थापनमित्यादिः, कुर्याद् विभाजिते इत्य् अन्तः पाठो ङ.पुस्तके
नास्ति
3 स्वपीठे स्नपिते इति ख..
4 प्रभूतेप्यधिवेशनमिति घ..
5 वाणलिङ्गानामिति ज..
6 पिष्टकादि च तत्क्रमादिति छ.. , ज.. च
7 मृष्टिमन्त्रेणेत्यादिः दीक्षणादिविधानत इत्य् अन्तः
पाठो ग.. पुस्तके नास्ति
8 शिवपूजा इति क..
:प् 338
% छप्तेर् {98}
:श् अथाष्टनवतितमो ऽध्यायः ॥
गौरीप्रतिष्ठाकथनं
ईश्वर उवाच
वक्ष्ये गौरीप्रतिष्ठाञ्च पूजया सहितां शृणु ।अप्_98.001अब्।
मण्डपाद्यं पुरो यच्च(1) संस्थाप्य चाधिरोपयेत्
शय्यायान्तांश् च विन्यस्य मन्त्रान्मूर्त्यादिकान् गुह ।अप्_98.002अब्।
आत्मविद्याशिवान्तञ्च(2) कुर्यादीशनिवेशनं
शक्तिं परां ततो(3) न्यस्य हुत्वा(4) जप्त्वा च पूर्ववत् ।अप्_98.003अब्।
सन्धाय च तथा पिण्डीं(5) क्रियाशक्तिस्वरूपिणीं
सदेशव्यापिकां ध्यात्वा न्यस्तरत्नादिकां तथा ।अप्_98.004अब्।
एवं संस्थाप्य तां पश्चाद्देवीन्तस्यान्नियोजयेत्
परशक्तिस्वरूपान्तां स्वाणुना(6) शक्तियोगतः ।अप्_98.005अब्।
ततो न्यसेत् क्रियाशक्तिं पीठे ज्ञानञ्च विग्रहे
ततोपि व्यापिनीं शक्तिं समावाह्य नियोजयेत् ।अप्_98.006अब्।
अम्बिकां शिवनाम्नीञ्च समालभ्य(7) प्रपूजयेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0