अग्नि पुराण · अध्याय 99
ओं आधारशक्तये नमः । ओं कूर्माय नमः । ओं स्कन्दाय च
तथा नमः । ओं ह्रीं नारायणाय नमः । ओं ऐश्वर्याय
नमः
:न्
1 मण्डपाद्यं प्रविशेच्च इति ग..
2 शिवास्त्रं चेति घ..
3 तथा शक्तिं परामिति ख..
4 स्तुत्वेति ज..
5 चण्डीमिति ख..
6 आत्मनेति छ..
7 त्र्यम्बकेशीति नाम्नीञ्च समारभ्येति ज..
:प् 339
ओं अं अधश्छदनाय नमः । ओं पद्मासनाय नमः । ओं
ऊर्ध्वच्छदनाय नमः । ओं पद्मासनाय नमः । अथ
सम्पूज्याः केशवास् तथा । ओं ह्रीं कर्णिकाय नमः । ओं
क्षं पुष्कराक्षेभ्य(1) इहार्चयेत् । ओं हां पुष्ट्यै ह्रीं
च ज्ञानायै ह्रूं क्रियायै ततो नमः । ओं नालाय नमः । रुं
धर्माय नमः(2) । रुं ज्ञानाय वै नमः(3) । ओं वैराग्याय
वै नमः । ओं वै अधर्माय नमः(4) । ओं रुं अज्ञानाय वै
नमः । ओं अवैराग्याय वै नमः । अं अनैश्वर्याय नमः ।
हुं वाचे हुं च रागिण्यै क्रैं ज्वालिन्यै ततो नमः । ओं ह्रौं
शमायै(5) च नमः । ह्रुं ज्येष्ठायै ततो नमः । ओं ह्रौं
रौं क्रौं नवशक्त्यै गौं च गौर्यासनाय च । गौं
गौरीमूर्तये नमः । गौर्या मूलमथोच्यते । ओं ह्रीं सः(6)
महागौरि रुद्रदयिते स्वाहा । गौर्यै नमः । गां ह्रूं ह्रीं
शिवो गूं स्यात् शिवायै कवचाय च । गों नेत्राय च गों अस्त्राय ओं
गौं विज्ञानशक्तये, ओं गूं क्रियाशक्तये नमः(7) । पूर्वादौ
शाक्रादिकान् । ओं सुं सुभागायै नमः । ह्रीं वीजललिता
ततः । ओं ह्रीं कामिन्यै च नमः । ओं ह्रूं स्यात्
कामशालिनीमन्त्रैर् गौरीं प्रतिष्ठाप्य प्रार्च्य जप्त्वाथ
सर्वभाक्(8) ॥
:ए इत्य् आग्नेये महापुराणे गौरीप्रतिष्ठा नामाष्टनवतितमो
ऽध्यायः
:न्
1 ओं खं पुष्करेभ्य इति ख..
2 धं धर्माय नम इति ख..
3 वं ज्ञानाय नम इति ख..
4 रुं अधर्माय नम इति ङ..
5 वामायै इति ख.. , ग.. , घ.. , ङ.. च
6 ओं हूं स इति घ..
7 ह्रीं क्रियाशक्तये नम इति झ.. । ओं क्रियाशक्तये नम इति घ..
8 जप्त्वानुरूपतः इति ग.. , छ.. , च
:प् 340
% छप्तेर् {99}
:श् अथोनशततमो ऽध्यायः
सूर्यप्रतिष्ठाकथनं
ईश्वर उवाच
वक्ष्ये सूर्यप्रतिष्ठाञ्च पूर्ववन्मण्डपादिकं ।अप्_99.001अब्।
स्नानादिकञ्च सम्याद्य(1) पूर्वोक्तविधिना ततः
विद्यामासनशय्यायां साङ्गं विन्यस्य भास्करं ।अप्_99.002अब्।
त्रितत्त्वं विन्यसेत्तत्र सस्वरं खादिपञ्चकं
शुद्ध्यादि पूर्ववत् कृत्वा पिण्डीं संशोध्य पूर्ववत् ।अप्_99.003अब्।
सदेशपदपर्यन्तं विन्यस्य तत्त्वपञ्चकं(2)
शक्त्या च सर्वतोमुख्या संस्थाप्य विधिवततः ।अप्_99.004अब्।
स्वाणुना(3) विधिवत् सूर्यं शक्त्यन्तं(4) स्थापयेद्गुरुः
स्वाम्यन्तमथवादित्यं पादान्तन्नाम धारयेत् ।अप्_99.005अब्।
सूर्यमन्त्रास्तु(5) पूर्वोक्ता द्रष्टव्याः स्थापनेपि च(6)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0