भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 97

97.001

:ए इत्य् आग्नेये महापुराणे अधिवासनविधिर्नाम षण्णवतितमो
ऽध्यायः
% छप्तेर् {97}
:श् अथ सप्तनवतितमो ऽध्यायः
शिवप्रतिष्ठाकथनं
ईश्वर उवाच
(3)प्रातर् नित्पविधिं कृत्वा द्वारपालप्रपूजनं ।अप्_97.001अब्।
प्रविश्य प्रग्विधानेन देहशुद्ध्यादिमाचरेत्

97.002

दिक्पतींश् च समभ्यर्च्य शिवकुम्भञ्च वर्धनीं ।अप्_97.002अब्।
:न्
1 सत्याधिवासनमिति ज..
2 दीक्षान्तञ्च समभ्यर्च्येति ज..
3 वासुदेव दयाशील लीलया मां समुद्धर । घरोद्धारे समर्थोसि
ममोद्धारे कियञ्छ्रमः ॥ इति श्लोको ख.. , छ.. पुस्तकेधिकोत्रास्ति
:प् 327
अष्टमुष्टिकया(1) लिङ्गं वह्निं सन्पर्प्य च क्रमात्

97.003

शिवाज्ञातस्ततो गच्छेत् प्रासादं शस्त्रमुच्चरन्(2) ।अप्_97.003अब्।
तद्गतान् प्रक्षिपेद्विघ्नान् हुम्फडन्तशराणुना(3)

97.004

न मध्ये स्थापयेल्लिङ्गं बेधदोषविशङ्कया ।अप्_97.004अब्।
तस्मान् मध्यं परित्यज्य यवार्धेन यवेन वा

97.005

किञ्चिदीशानमाश्रित्य शिलां मध्ये निवेशयेत् ।अप्_97.005अब्।
मूलेन तामनन्ताख्यां सर्वाधारस्वरूपिणीं(4)

97.006

सर्वगां सृष्टियोगेन विन्यसेदचलां शिलां ।अप्_97.006अब्।
अथवानेन मन्त्रेण शिवस्यासनरूपिणीं

97.007

ओं नमो व्यापिनि भगवति स्थिरे ऽचले ध्रुवे ।अप्_97.007अब्।
ह्रं लं ह्रीं स्वाहा(5)
त्वया शिवाज्ञया शक्ते स्थातव्यमिह सन्ततं

97.008

इत्युक्त्वा च समभ्यर्च्य(6) निरुध्याद्रौद्रमुद्रया(7) ।अप्_97.008अब्।
वज्रादीनि च रत्नानि तथोशीरादिकौषधीः

97.009

लोहान् हेमादिकांस्यन्तान् हरितालादिकांस् तथा ।अप्_97.009अब्।
धान्यप्रभृतिशस्त्रांश् च पूर्वमुक्ताननुक्रमात्

97.010

प्रभारागत्वदेहत्ववीर्यशक्तिमयानिमान्(8) ।अप्_97.010अब्।
भावयेन्नेकचित्तस्तु लोकपालेशसंवरैः(9)

97.011

पूर्वादिषु च गर्तेषु(10) न्यसेदेकैकशः क्रमात्(11) ।अप्_97.011अब्।
:न्
1 अष्टपुत्रियेति ख.. , घ.. , छ.. च । अष्टपुष्पिकयेति ग.. , ङ.. , च ।
अष्टपुष्टिकया इति ज..
2 प्रासादमस्त्रमुच्चरन् इति ख.. , ङ.. च । प्रसादं शास्त्रमुच्चरन्निति
ग.. , ज.. च
3 हुं फडन्तशिवात्मनेति ख.. , ग.. , छ.. च । हुं
फडन्तशिवाणुनेति ज..
4 सर्वाधानस्वरूपिणीमिति ज..
5 ह्रं लं ह्रं स्वाहेति ख.. , छ.. , च । ओं ह्रां लं हां स्वाहेति
ज..
6 इत्य् उक्त्वा तं समभ्यर्च्येति ख.. , छ.. च । इत्य् उन्मूलं समभ्यर्चेति ग.. ।
इत्य् उच्चार्य समभ्यर्च्येति ङ..
7 विरुन्ध्याद्रोधमुद्रयेति ख.. , ग.. , ङ.. च
8 वीर्याशक्तिमनुक्रमादिति घ..
9 लोकपालेशसञ्चरैर् इति घ..
10 पूर्वादिवत्स्वगर्तेषु इति ङ..
11 प्रभारागेत्यादिः न्यसेदेकैकशः क्रमादिति पाठः,
छपुस्तके नास्ति
:प् 328
हेमजं तारजं कूर्मं वृषं वा द्वारसम्मुखं(1)

97.012

सरित्तटमृदा युक्तं पर्वताग्रमृदाथवा(2) ।अप्_97.012अब्।
प्रक्षिपेन्मध्यगर्तादौ(3) यद्वा मेरुं सुवर्णजं

97.013

मधूकाक्षतसंयुक्तमञ्जनेन समन्वितं ।अप्_97.013अब्।
पृथिवीं राजतीं यद्वा यद्वा हेमसमुद्भवां

97.014

सर्ववीजसुवर्णाभ्यां समायुक्तां विनिक्षिपेत्(4) ।अप्_97.014अब्।
स्वर्णजं राजतं वापि सर्वलोहसमुद्भवं(5)

97.015

सुवर्णं कृशरायुक्तं पद्मनालं(6) ततो न्यसेत् ।अप्_97.015अब्।
देवदेवस्य शक्त्यादिमूर्तिपर्यन्तमासनं

97.016

प्रकल्प्य पायसेनाथ लिप्त्वा(7) गुग्गुलुनाथवा ।अप्_97.016अब्।
श्वभ्रमाच्छाद्य वस्त्रेण तनुत्रेणास्त्ररक्षितं(8)

97.017

दिक्पतिभ्यो बलिं(9) दत्वा समाचान्तो ऽथ देशिकः ।अप्_97.017अब्।
शेवेन वा शिलाश्वभ्रसङ्गदोषनिवृत्तये(10)

97.018

शस्त्रेण वा शतं सम्यग् जुहुयात् पूर्णया सह ।अप्_97.018अब्।
:न्
1 द्वारसम्पुटमिति ग.
2 मृदा पुन इति ग..
3 मध्यगर्तायामिति ख.. , घ.. , ङ.. च
4 मधूकाक्षतेत्त्यादिः, विनिक्षिपेदित्यन्तः पाठो ग.. पुस्तके
नास्ति
5 सर्वलोहसमन्वितमिति ग..
6 पञ्चधान्यमिति ख.. , घ.. च
7 लिप्तेति घ.. , ङ.. च
8 श्वभ्रमाच्छाद्य वस्त्रेण तन्मात्रेण स्वरक्षितमिति ख.. , ङ.. च ।
यन्त्रमाच्छाद्य शस्त्रेण तनुत्रेण स्वरक्षितमिति ज.. ।
श्वभ्रेत्त्यादिपाठो छ.. पुस्तके नास्ति
9 दिक्पालादिभ्यो बलिमिति ड..
10 शिलास्तत्र सङ्गदोषनिवृत्तये इति घ.. , ज.. च ।
शिलाश्वभ्रमङ्गदोषवृत्तये इति ख.. , छ.. च
:प् 329
एकैकाहुतिदानेन सन्तर्प्य वास्तुदेवताः

97.019

समुत्थाप्य हृदादेवमासनं मङ्गलादिभिः ।अप्_97.019अब्।
गुरुर्देवाग्रतो गच्छेन्मूर्तिपैश् च दिशि स्थितैः(1)

97.020

चतुर्भिः सह कर्तव्या देवयज्ञस्य(2) पृष्ठतः ।अप्_97.020अब्।
प्रासादादि(3) परिभ्रम्य भद्राख्यद्वारसम्मुखं

97.021

लिङ्गं संस्थाप्य दत्वार्घ्यं प्रासादं सन्निवेशयेत्(4) ।अप्_97.021अब्।
द्वारेण द्वारबन्धेन द्वारदेशेन तच्छिला

97.022

द्वारबन्धे शिखाशून्ये तदर्धेनाथ तदृते(5) ।अप्_97.022अब्।
वर्जयन्(6) द्वारसंस्पर्शं द्वारेणैव महेश्वरं

97.023

देवगृहसमारम्भे कोणेनापि प्रवेशयेत् ।अप्_97.023अब्।
अयमेव विधिर्ज्ञेयो व्यक्तलिङ्गे ऽपि सर्वतः

97.024

गृहे प्रवेशनं द्वारे लोकैर् अपि समीरितं ।अप्_97.024अब्।
अपद्वारप्रवेशेन विदुर्गोत्रक्षयं गृहं(7)

97.025

अथ पीठे(8) च संस्थाप्य लिङ्गं द्वारस्य सम्मुखं ।अप्_97.025अब्।
तूर्यमङ्गलनिर्घेषैर् दूर्वाक्षतसमन्वितं

97.026

समुत्तिष्ठं हृदेत्युक्त्वा महापाशुपतं पठेत् ।अप्_97.026अब्।
:न्
1 मूर्तिपैः स्वदिशि स्थितैर् इति ज..
2 बन्धुभिः सह कर्तव्या देवयानस्येति ख.. । बन्धुभिः सहकारे च
देवालयस्य इति ग.. , ज.. च
3 प्रासादार्धमिति ज..
4 सम्प्रवेशयेदिति घ..
5 तदर्धेनाथ घातयेत् इति झ.. । तदर्धेनाथ तत्सुते इति ग.. । तदर्धेनाथ
तद्यतिमिति घ.. । तदर्धे वाथ तत्सुतमिति ज.. । तदर्धे नाथ तद्युते इति
ङ..
6 बन्धने इति ख.. । बन्ध्यन् इति घ.. । रक्षयन् इति झ.. । वर्जयेदिति छ..
7 वित्तगोत्रक्षयं गुहमिति ग..
8 अथ चैवं इति ज.. , झ.. , घ.. च
:प् 330
अपनीय घटं श्वभ्राद्(1) देशिको मूर्तिपैः सह

97.027

मन्त्रं सन्धारयित्वा तु(2) विलिप्तं(3) कुङ्कुमादिभिः ।अप्_97.027अब्।
शक्तिशक्तिमतोरैक्यं ध्यात्वा चैव तु रक्षितं(4)

97.028

लयान्तं(5) मूलमुच्चार्य स्पृष्ट्वा श्वभ्रे निवेशयेत्(5) ।अप्_97.028अब्।
अंशेन ब्रह्मभागस्य यद्वा अंशद्वयेन च

97.029

अर्धेन वाष्टमांशेन सर्वस्याथ प्रवेशनं(7) ।अप्_97.029अब्।
विधाय सीसकं नाभिदीर्घाभिः(8) सुसमाहितः

97.030

श्वभ्रं(9) वालुकयापुर्य ब्रूयात् स्थिरीभवेति च(10) ।अप्_97.030अब्।
ततो लिङ्गे स्थिरीभूते ध्यात्वा(11) सकलरूपिणं

97.031

मूलमुच्चार्य शक्त्यन्तं सृष्ट्या च निष्कलं(12) न्यसेत् ।अप्_97.031अब्।
स्थाप्यमानं यदा लिङ्गं याम्यां दिशमथाश्रयेत्(13)

97.032

तत्तद्दिगीशमन्त्रेण पूर्णान्तं दक्षिणान्वितं ।अप्_97.032अब्।
:न्
1 घटं तत्र इति झ..
2 मन्त्रं सन्धारयित्वाथ इति ख.. । पत्रस्थं धारयित्वा तु, इति
घ..
3 सुलिप्तमिति ग..
4 लक्षितमिति घ.. , ज.. , झ.. , च
5 नमोन्तमिति ड..
6 शक्तिमुद्रे निवेशयेदिति ज..
7 अर्धेन चाष्टमांशेन सर्वस्याधः प्रवेशनम् इति ज..
8 सीसकं वाग्भिर्दीर्घाभिरिति छ.. । सीसकं चापि दीर्घारिति
ज..
9 अथेति क.. , ङ.. , छ.. च
10 लयामन्तमित्यादिः, स्थिरीभवेति च इत्य् अन्तः
सार्धश्लोकद्वयात्मकः पाठो झ.. पुस्तके नास्ति
11 ध्यायेदिति घ..
12 सृष्ट्यादिविकलमिति झ.. । सृष्ट्यादिनिष्फलमिति ख.. , घ.. , च
। सृष्ट्यादि निष्फलमिति ग.. , ड.. च
13 ततो लिङ्गे इत्य् आदिः, दिशमथाश्रयेदित्यन्तः पाठो ज.. पुस्तके
नास्ति
:प् 331
सव्ये स्थाने च वक्रे च(1) चलिते स्फुटितेपि वा

97.033

जुहुयान् मूलमन्त्रेण बहुरूपेण(2) वा शतं ।अप्_97.033अब्।
कुञ्चान्येष्वपि दोषेषु शिवशान्तिं समाश्रयेत्(3)

97.034

युक्तं न्यासादिभिर्लिङ्गं(4) कुर्वन्नेवं न दोषभाक् ।अप्_97.034अब्।
पीठबन्धमतः कृत्वा लक्षणस्यांशलक्षणं(5)

97.035

गौरीमन्त्रं लयं नीत्वा सृष्ट्या पिण्डीञ्च विन्यसेत् ।अप्_97.035अब्।
सम्पूर्य पार्श्वसंसिद्धिं वालुकावज्रलेपनं(6)

97.036

ततो मूर्तिधरैः सार्धं गुरुः शान्तिं घटोर्ध्वतः ।अप्_97.036अब्।
संस्थाप्य कलशैर् अन्यैस्तद्वत्(7) पञ्चामृतादिभिः

97.037

विलिप्य चन्दनाद्यैश् च(8) सम्पूज्य जगदीश्वरं ।अप्_97.037अब्।
उमामहेशमन्त्राभ्यां तौ स्पृशेल्लिङ्गमुद्रया

97.038

ततस्त्रितत्त्वविन्यासं षडर्चादिपुरःसरं(9) ।अप्_97.038अब्।
कृत्वा मूर्तिं तदीशानामङ्गानां ब्रह्मणामथ

97.039

ज्ञानी लिङ्गे(10) क्रियापीठे विनास्य स्नापयेत्ततः ।अप्_97.039अब्।
गन्धैर् विलिप्य सन्धूप्य व्यापित्वे शिवे न्यसेत्

97.040

स्रग्धूपदीपनैवेद्यैर् हृदयेन फलानि च ।अप्_97.040अब्।
:न्
1 वक्रेणेति ख..
2 चतूरूपेण इति झ..
3 स्थाप्यमानमित्यादिः, शान्तं समाश्रयत् इत्य् अन्तः पाठी
ग.. , ङ.. , पुस्तके नास्ति
4 उक्तन्यासविधिं लिङ्गे इति ख.. । उक्तन्यासविधौ लिङ्गे इति ग..
5 पीठ बन्धमधः कृत्वा कुर्वन्नेव न दोषभाक् इति ख.. , ग..
च । पीठ बन्धमतः कृत्वा लक्षणस्याङ्गलक्षणमिति
घ..
6 पार्श्वसिद्धिं च वालुकाव्रजलेपनमिति ज..
7 सप्तारन्यकलशैर् अन्यैः स्तुत्वा इति झ..
8 चतुराज्यैश् च इति झ..
9 षडर्घादिपुरःसरमिति झ.. । षडग्रादिपुरःसरमिति
ख..
10 ज्ञानलिङ्गे इति झ..
:प् 332
विनिवेद्य यथाशक्ति समाचम्य महेश्वरं

97.041

दत्वार्घं च जपं कृत्वा(1) निवेद्य वरदे करे(2) ।अप्_97.041अब्।
चन्द्रार्कतारकं यावन् मन्त्रेण शैवमूर्तिपैः(3)

97.042

स्वेच्छयैव त्वया नाथ स्थातव्यमिह मन्दिरे ।अप्_97.042अब्।
प्रणम्येव वहिर्गत्वा(4) हृदा वा प्रणवेन वा

97.043

संस्थाप्य वृषभं पश्चात् पूर्ववद्वलिमाचरेत् ।अप्_97.043अब्।
न्यूनादिदोषमोषाय(5) ततो मृत्युजिता शतं

97.044

शिवेन सशिवो हुत्वा शान्त्यर्थं पायसेन च ।अप्_97.044अब्।
ज्ञानाज्ञानकृतं यच्च तत् पूरय महाविभो(6)

97.045

हिरण्यपशुभूम्यादि(7) गीतवाद्यादिहेतवे ।अप्_97.045अब्।
अम्बिकेशाय तद् भक्त्या शक्त्या सर्वं निवेदयेत्

97.046

दानं महोत्सवं पश्चात् कुर्याद्दिनचतुष्टयं ।अप्_97.046अब्।
त्रिसन्ध्यं त्रिदिनं मन्त्री होमयेन् मूर्तिपैः सह

97.047

चतुर्थेहनि पूर्णाञ्च चरुकं बहुरूपिणा ।अप्_97.047अब्।
निवेद्य सर्वकुण्डेषु सम्पाताहुतिसोधितम्(8)

97.048

दिनचतुष्टयं यावत्तन्निर्माल्यन्तदूर्धतः ।अप्_97.048अब्।
निर्माल्यापनयं कृत्वा स्नापयित्वा तु(9) पूजयेत्

97.049

पूजा सामान्यलिङ्गेषु कार्या साधारणाणुभिः(10) ।अप्_97.049अब्।
:न्
1 जलं हुत्वा इति ग..
2 निवेद्य वरदेवके इति ज..
3 मन्त्रेशैर् मूर्तिपैः सह इति झ.. । मन्त्रेशैर् मूर्तिजैः सह इति
घ..
4 वहिष्कृत्वा इति झ.. । वहिर्हत्वा इति घ..
5 न्यूनादिदोषमोक्षायेति ज.. । न्यानादिदोषनाशायेति ङ..
6 महाप्रभो इति झ..
7 हिरण्यवस्त्रधूपादि इति झ..
8 पायसाहुतिसोधितमिति झ.. । सम्पाताहुतिशोधनमिति ग..
9 स्नापयित्वा च इति ग..
10 साधारणांशुभिरिति ख.. । साधारणादिकमिति ग..
:प् 333
विहाय लिङ्गचैतन्यं कुर्यात् स्थाणुविसर्जनं

97.050

असाधारणलिङ्गेषु क्षमस्वेति विसर्जनं ।अप्_97.050अब्।
आवाहनमभिव्यक्तिर्विसर्गः शक्तिरूपता

97.051

प्रतिष्ठान्ते क्वचित् प्रोक्तं स्थिराद्याहुतिसप्तकं ।अप्_97.051अब्।
स्थिरस् तथाप्रमेयश्चानादिबोधस्तथैव च

97.052

नित्योथ सर्वगश् चैवाविनाशी दृष्ट एव च(1) ।अप्_97.052अब्।
एते गुणा महेशस्य सन्निधानाय कीर्तिताः(2)

97.053

ओं नमः शिवाय स्थिरो भवेत्याहुतीनां क्रमः ।अप्_97.053अब्।
एवमेतञ्च सम्पाद्य विधाय शिवकुम्भवत्(3)

97.054

कुम्भद्वयञ्च तन्मध्यादेककुम्भाम्भसा भवं ।अप्_97.054अब्।
संस्नाप्य तद् द्वितीयन्तु कर्तृस्नानाय धारयेत्

97.055

दत्वा बलिं समाचम्य वहिर्गच्छेत् शिवाज्ञया(4) ।अप्_97.055अब्।
जगतीवाह्यतश् चण्डमैशान्यान्दिशि मन्दिरे

97.056

धामगर्भप्रमाणे च(5) सुपीठे(6) कल्पितासने ।अप्_97.056अब्।
पूर्ववन् न्यासहोमादि विधाय ध्यानपूर्वकं

97.057

संस्थाप्य विधिवत्तत्र ब्रह्माङ्गैः(7) पूजयेत्ततः ।अप्_97.057अब्।
अङ्गानि पूर्वयुक्तानि(8) ब्रह्माणी त्वर्चना यथा(9)

97.058

:न्
1 विलासी तृप्त एव च इति ख.. , ङ.. , छ.. , ज.. च । अविनाशी तृप्त एव च
इति ङ..
2 सन्निधाय प्रकीर्तिता इति ख.. , छ.. च
3 ओं नम इत्य् आदि, शिवकुम्भवत् इत्य् अन्तः पाठो झ.. पुस्तके नास्ति ।
शिवाय शिवकुम्भवत् इति ग..
4 वहिः कुम्भे शिवाज्ञया इति झ..
5 वामगर्भप्रमाणेन इति झ..
6 स्वपीठे इति ग..
7 ब्रह्माद्यैर् इति ग.. , झ.. च
8 पूर्वमुक्तानि इति ख.. , ग.. , ङ.. , छ.. च । पूर्वभुक्तानीति ज..
9 त्वधुना यथा इति ख..
:प् 334
एवं सद्योजाताय ओं ह्रूं फट्(1) नमः । ओं विं
वामदेवाय ह्रूं फट् नमः । ओं बुं(2) अघोराय ह्रूं
फट् नमः । ओं(3) तत्पुरुषाय वौमीशानाय च ह्रूं फट्
॥
जपं विवेद्य(4) सन्तर्प्य विज्ञाप्य नतिपूर्वकं ।अप्_97.058अब्।
देवः सन्निहितो यावत्तावत्त्वं सन्निधो भव

97.059

न्यूनाधिकञ्च यत्किञ्चित् कृतमज्ञानतो मया(5) ।अप्_97.059अब्।
तवत्प्रसादेन चण्डेश तत् सर्वं परिपूरय

97.060

वाणलिङ्गे वाणरोहे(6) सिद्धलिङ्गे स्वयम्भुवि ।अप्_97.060अब्।
प्रतिमासु च सर्वासु न चण्डो ऽधिकृतो भवेत्

97.061

अद्वैतभावनायुक्ते स्थण्डिलेशविधावपि(7) ।अप्_97.061अब्।
अभ्यर्च्य चण्डं ससुतं यजमानं हि भार्यया

97.062

पूर्वस्थापितकुम्भे न स्नापयेत् स्नापकः(8) स्वयं ।अप्_97.062अब्।
स्थापकं यजमानोपि सम्पूज्य च(9) महेशवत्(10)

97.063

वित्तशाठ्यं विना दद्याद् भूहिरण्यादि(11) दक्षिणां ।अप्_97.063अब्।
:न्
1 ओं सद्योजाताय हूं फट् इति झ.. । एवं सद्योजाताय ओं ह्रूं
फट् नम इति ख.. , छ.. च । ओं एवं सद्यो जाताय हूं फट् नम इति
ग.. , ज.. च
2 ओं वं इति झ..
3 ओं एवं चेति छ.. । ओं एवं चेदिति ङ.. । ओं वै इति ज..
4 धूपं निवेद्य इति घ..
5 कृतमज्ञानतोपि वा इति ग..
6 बाणलिङ्गे चले लोहे इति ज..
7 स्थण्डिले सन्निधावपि इति ज.. , झ.. च
8 स्थापक इति ज..
9 प्रपूज्य च इति ज..
10 महेश्वरमिति ख.. , छ.. च
11 गोहिरण्यादि इति ज.. , झ.. च
:प् 335
मूर्तिमान् विधिवत् पश्चात् जापकान् ब्राह्मणांस् तथा

97.064

देवज्ञं शिल्पिनं प्रार्च्य दीनानाथादि(1) भोजयेत् ।अप्_97.064अब्।
यदत्र सम्मुखीभावे स्वेदितो भगवन्मया

97.065

क्षमस्व नाथ तत् सर्वं कारुण्याम्बुनिधं मम(2) ।अप्_97.065अब्।
इति विज्ञप्तियुक्ताय यजमानाय सद्गुरुः

97.066

प्रतिष्ठापुण्यसद्भावं(3) स्फुरत्तारकसप्रभं(4) ।अप्_97.066अब्।
कुशपुष्पाक्षतोपेतं स्वकरेण समर्पयेत्

97.067

ततः पाशपतोपेतं(5) प्रणम्य परमेश्वरं ।अप्_97.067अब्।
ततो ऽपि बलिभिर्भूतान् सन्निधाय निबोधयेत्

97.068

स्थातव्यं भवता तावद् यावत् सन्निहितो हरः(6) ।अप्_97.068अब्।
गुरुर्वस्त्रादिसंयुक्तं गृह्णीयाद्यागमण्डपं

97.069

सर्वोपकरणं शिल्पी तथा स्नापनमण्डपं(7) ।अप्_97.069अब्।
अन्ये देवादयः स्थाप्या मन्त्रैर् आगमसम्भवैः

97.070

आदिवर्णस्य भेदाद्वा(8) सुतत्त्वव्याप्तिभाविताः(9) ।अप्_97.070अब्।
साध्य(10) प्रमुखदेवाश् च सरिदोषधयस् तथा

97.071

क्षेत्रपाः किन्नराद्याश् च पृथिवीतत्त्वमाश्रिताः ।अप्_97.071अब्।
:न्
1 दीनानाथांश्चेति ज..
2 देव त्वं नाथ तत् सर्वं कारुण्यान् मनवे नम इति झ..
3 प्रतिष्ठायज्ञसम्भारमिति ग..
4 स्फुरत्तारकसन्निभमिति
5 ततः पशुपतिं जप्त्वा इति ख.. , ग.. च
6 भव इति ख.. , घ.. च
7 गुरुर्वस्त्राणीत्यादिः, स्नानमण्डपमित्यन्तः पाठो झ..
पुस्तके नास्ति
8 आदिवर्णस्य शेषाद्वा इति झ..
9 स्वातन्त्र्या व्याप्तिरीरिता इति ग.. । स्वतत्त्वव्याप्तिभाविता इति छ.. ।
स्वतन्त्रव्याप्तिभेदत इति ज..
10 जाप्य इति झ..
:प् 336
स्नानं सरस्वतीलक्ष्मीनदीनामम्भसि क्वचित्

97.072

भुवनाधिपतीनाञ्च स्थानं यत्र व्यवस्थितिः ।अप्_97.072अब्।
अण्डवृद्धिप्रधानान्तं त्रितत्त्वं ब्रह्मणः पदं

97.073

तन्मात्रादिप्रधानान्तं(1) पदमेतत् त्रिकं हरेः(2) ।अप्_97.073अब्।
नाट्येशगणमातॄणां यक्षेशशरजन्मनां

97.074

अण्डजाः शुद्धविद्यान्तं पदं गणपतेस् तथा ।अप्_97.074अब्।
मायांशदेशशक्त्यनतं शिवा शिवोप्तरोचिषां(3)

97.075

पदमीश्वरपर्यन्तं व्यक्तार्चासु च कीर्तितं ।अप्_97.075अब्।
कूर्माद्यं कीर्तितं यच्च यच्च रत्नादिपञ्चकं(4)

97.076

प्रतिक्षिपेत् पीठगर्ते च पञ्चब्रह्मशिलां विना ।अप्_97.076अब्।
षड्भिर्विभाजिते गर्ते(5) त्यक्त्वा भावञ्च पृष्ठतः

97.077

स्थापनं पञ्चमांशे च यदि वा वसुभाजिते ।अप्_97.077अब्।
स्थापनं सप्तमे भागे प्रतिमासु सुखावहं

97.078

धारणाभिर्विशुद्धिः स्यात् स्थापने लेपचित्रयोः ।अप्_97.078अब्।
स्नानादि मानसन्तत्र शिलारत्नादिवेशनं(6)

97.079

नेत्रोद्घाटनमन्त्रेष्टमासनादिप्रकल्पनं ।अप्_97.079अब्।
पूजा निरम्बुभिः पुष्पैर् यथा चित्रं न दुष्यति

97.080

विधिस्तु चललिङ्गेषु सम्प्रत्येव निगद्यते ।अप्_97.080अब्।
:न्
1 तन्मात्रादिप्रयाणान्तमिति ख..
2 तत्त्वमेकं चित्रं हरेरिति घ..
3 स्नानं सरस्वतीत्यादिः, रोचिषामित्यन्तः पाठो झ.. पुस्तके
नास्ति
4 यद्रत्नादिकपञ्चकमिति ज..
5 षडभिर्भाजिते गर्भे इति ङ..
6 शिलावाहादिवेशनं इति झ.. । शिलारत्ननिवेशनमिति ख..
:प् 337
पञ्चभिर्वा त्रिभिर्वापि पृथक् कुर्याद्(1) विभाजिते(2)

97.081

भगत्रयेण भागांशो भवेद्भागद्वयेन वा ।अप्_97.081अब्।
स्वपीठेष्वपि(3) तद्वत् स्याल्लिङ्गेषु तत्त्वभेदतः

97.082

सृष्टिमन्त्रेण संस्कारो विधिवत् स्फाटिकादिषु ।अप्_97.082अब्।
किञ्च ब्रह्मशिलारत्नप्रभूतेश्चानिवेदनं(4)

97.083

योजनं पिण्डिकायाश् च मनसा परिकल्पयेत् ।अप्_97.083अब्।
स्वयम्भूवाणलिङ्गादौ(5) संस्कृतौ नियमो न हि

97.084

स्नापनं संहितामन्त्रैर् न्यासं होमञ्च कारयेत् ।अप्_97.084अब्।
नदीसमुद्ररोहाणां स्थापनं पूर्ववन् मतं

97.085

ऐहिकम् मृण्मयं लिङ्गं पिष्टकादि च तक्षणात्(6) ।अप्_97.085अब्।
कृत्वा सम्पूजयेच्छुद्धं सीक्षणादिविधानतः(7)

97.086

समादाय ततो मन्त्रानात्मानं सन्निधाय च ।अप्_97.086अब्।
तज्जले प्रक्षिपेल्लिङ्गं वत्सरात् कामदं भवेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc