अग्नि पुराण · अध्याय 91
:ए इत्य् आदिमहापुराणे आग्नेये अभिषेकादिकथनं नाम नवतितमो
ऽध्यायः ॥
% छप्तेर् {91}
:श् अथैकनवतितमो ऽध्यायः
विविधमन्त्रादिकथनं
ईश्वर उवाच
अभिषिक्तः शिवं विष्णुं पूजयेद्भास्करादिकान् ।अप्_91.001अब्।
शङ्खभेर्यादिनिर्घोषैः स्नापयेत् पञ्चगव्यकैः
:न्
1 स्वयं वीक्ष्येति ग, चिह्नितपुस्तकपाठः
:प् 286
यो देवान्देवलोकं स याति स्वकुलमुद्धरन् ।अप्_91.002अब्।
वर्षकोटिसहस्रेषु यत् पापं स्मुपार्जितं
घृताभ्यङ्गेन देवानां भस्मीभवति पावके ।अप्_91.003अब्।
आढकेन घृताद्यैश् च देवान् स्नाप्य सुरो भवेत्
चन्दनेनानुलिप्याथ गन्धाद्यैः पूजयेत्तथा ।अप्_91.004अब्।
अल्पायासनं स्तुतिभिस्तुता देवास्तु सर्वदा
अतीतानागतज्ञानमन्त्रधीभुक्तिमुक्तिदाः ।अप्_91.005अब्।
गृहीत्वा प्रश्नसूक्ष्मार्णे हृते द्वाभ्यां शुभाशुभं
त्रिभिर्जीवो मूलधातुश् चतुर्भिर्ब्राह्मणादिधीः ।अप्_91.006अब्।
यञ्चादौ भूततत्त्वादि शेषे चैवं जपादिकं
एकत्रिकातित्रिकान्ते पदे द्विपमकान्तके ।अप्_91.007अब्।
अशुभं मध्यमं मध्येष्विन्द्रस्त्रिषु नृपः शुभः
सङ्ख्यावृन्दे जीविताब्दं यमो ऽब्ददशहा ध्रुवं ।अप्_91.008अब्।
सूर्येभास्येशदुर्गाश्रीविष्णुमन्त्रैर् लिखेत् कजे
कठिन्या जप्तया स्पृष्टे गोमूत्राकृतिरेखया ।अप्_91.009अब्।
आरभ्यैकं त्रिकं यावत्त्रिचतुष्कावसानकं
मरुद् व्योम मरुद्वीजैश् चतुःषष्टिपदे तथा ।अप्_91.010अब्।
अक्षाणां पतनात् स्पर्शाद्विषमादौ शुभादिकं
एकत्रिकादिमारभ्य अन्ते चाष्टत्रिकं तथा ।अप्_91.011अब्।
ध्वजाद्यायाः समा हीना विषमाः शोभनादिदाः(1)
आइपल्लवितैः काद्यैः षोडशस्वरपूर्वगैः ।अप्_91.012अब्।
आद्यैस्तैः सस्वरैः काद्यैस्त्रिपुरानाममन्त्रकाः
ह्रीं वीजाः प्रणवाद्याःस्पुर् नमो ऽन्ता यत्र पूजने ।अप्_91.013अब्।
मन्त्रा विंशतिसाहस्राः शतं षष्ठ्यधिकं ततः
:न्
1 शोभनादिकाः इति ङ, चिह्नितपुस्तकपाठः
:प् 287
आं ह्रीं मन्त्राः सरस्वत्याश् चण्डिकायास्तथैव च ।अप्_91.014अब्।
तथा गौर्याश् च दुर्गाया आं श्रीं मन्त्राः श्रियस् तथा
तथाक्षौं क्रौं मन्त्राः सूर्यस्य(1) आं हौं मन्त्राःशिवस्य च ।अप्_91.015अब्।
आं गं मन्त्रा गणेशस्य आं मन्त्राश् च तथा हरेः
शतार्धैकाधिकैः काद्यैस् तथा षोडशभिः खरैः ।अप्_91.016अब्।
काद्यैस्तैः सस्वरैसाद्यैः कान्तैर् मन्त्रास् तथाखिलाः
रवीशदेवीविष्णूनां स्वाब्धिदेवेन्द्रवर्तनात् ।अप्_91.017अब्।
शतत्रयं षष्ट्यधिकं प्रत्येकं मण्डलं क्रमात् ।अप्_91.017च्द्।
अभिषिक्तो जपेद् ध्यायेच्छिष्यादीन् दीक्षयेद्गुरुः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0