भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 9

9.001

:ए इत्य् आदिमहापुराणे आग्नेये रामायाणे
किष्किन्धाकाण्डवर्णनं नाम अष्टमो ऽध्यायः
% छप्तेर् {9}
:श् अथ नवमो ऽध्यायः
श्रीरामावतारकथनं
नारद उवाच
सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः ।अप्_9.001अब्।
अब्धिं दृष्ट्वाब्रुवंस्ते ऽब्धिं लङ्घयेत् को नु जीवयेत्

9.002

:प् 20
कपीनां जीवनार्थाय रामकार्यप्रसिद्धये ।अप्_9.002अब्।
शतयोजनविस्तीर्णं पुप्लुवे ऽब्धिं स मारुतिः

9.003

दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च ।अप्_9.003अब्।
लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे

9.004

दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः ।अप्_9.004अब्।
विभीषणस्येन्द्रजितो गृहे ऽन्येषां च रक्षसो

9.005

नापश्यत् पानभूम्यादौ सीतां चिन्तापरायणः ।अप्_9.005अब्।
अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले

9.006

राक्षसीरक्षितां सीतां भव भार्येति वादिनं ।अप्_9.006अब्।
रावणं शिंशपास्थो ऽथ नेति सीतान्तु वादिनीं

9.007

भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः ।अप्_9.007अब्।
गते तु रावणे प्राह राजा दशरथो ऽभवत्

9.008

रामो ऽस्य(1) लक्ष्मणः पुत्रौ वनवासङ्गतौ वरौ ।अप्_9.008अब्।
रामपत्नी जानकी त्वं रावणेन हृता बलात्

9.009

रामः सुग्रीवमित्रस् त्वां मार्गयन् प्रेषयच्च माम्(2) ।अप्_9.009अब्।
साभिज्ञानञ्चागुलीयं रामदत्तं गृहाण वै

9.010

सीताङ्गुलीयं जग्राह सापश्यन्मारूतिन्तरौ ।अप्_9.010अब्।
भूयो ऽग्रे चोपविष्टं तम् उवाच यदि जीवति

9.011

रामः कथं न नयति शृङ्कितामब्रवीत् कपिः ।अप्_9.011अब्।
रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति

9.012

रावणं राक्षसं हत्वा सबलं देवि मा शुच ।अप्_9.012अब्।
साभिज्ञानं देहि मे त्वं मणिं सीताददत्कपौ

9.013

उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु ।अप्_9.013अब्।
:न्
1 रामश् च इति ख, चिह्नितपुस्तकपाठः
2 त्वां मार्गयेत् प्रेषयेच्च मामिति घ, चिह्नितपुस्तकपाठः
:प् 21
काकाक्षिपातनकथाम् प्रतियाहि हि शोकह

9.014

मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः ।अप्_9.014अब्।
अथवा ते त्वरा काचित् पृष्ठमारुह मे शुभे

9.015

अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम् ।अप्_9.015अब्।
सीताब्रवीद्धनूमन्तं नयतां मां हि राघवः

9.016

हनूमान् स दशग्रीव दर्शनोपायमाकरोत् ।अप्_9.016अब्।
वनं बभञ्ज तत्पालान् हत्वा दन्तनखादिभिः

9.017

हत्वातु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि ।अप्_9.017अब्।
पुत्रमक्षं कुमारञ्च शक्रजिच्च बबन्ध तम्

9.018

नागपाशेन पिङ्गाक्षं दर्शयामास रावणम् ।अप्_9.018अब्।
उवाच रावणः कस्त्वं मारुतिः प्राह रावणम्

9.019

रामदूतो राघवाय सीतां देहि मरिष्यसि ।अप्_9.019अब्।
रामबाणैर् हतः सार्धं लङ्कास्थै राक्षसैर् ध्रुवम्

9.020

रावणो हन्तुमुद्युक्तो विभीषणनिवारितः ।अप्_9.020अब्।
दीपयामास लाङ्गलं दीप्तपुच्छः स मारुतिः

9.021

दग्ध्वा लङ्कां राक्षसांश् च दृष्ट्वा सीतां प्रणम्य ताम् ।अप्_9.021अब्।
समुद्रपारमागम्य दृष्टा सीतेति चाब्रवीत्

9.022

अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु ।अप्_9.022अब्।
जित्वा दधिमुखादींश् च दृष्ट्वा रामञ्च ते ऽब्रुवन्

9.023

दृष्टा सीतेति रामो ऽपि हृष्टः पप्रच्छ मारुतिम् ।अप्_9.023अब्।
कथं दृष्ट्वा त्वया सीता किमुवाच च माम्प्रति

9.024

सीताकथामृतेनैव सिञ्च मां कामवह्निगम् ।अप्_9.024अब्।
हनूमानब्रवीद्रामं लङ्घयित्वाब्धिमागतः

9.025

सीतां दृष्ट्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै ।अप्_9.025अब्।
हत्वा त्वं रावणं सीतां प्राप्स्यसे राम मा शुच

9.026

गृहीत्वा तं मणिं रामो रुरोद विरहातुरः ।अप्_9.026अब्।
:प् 22
मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम्

9.027

तया विना न जीवामि सुग्रीवाद्यैः प्रबोधितः ।अप्_9.027अब्।
समुद्रतीरं गतवान् तत्र रामं विभीषणः

9.028

गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना ।अप्_9.028अब्।
रामाय देहि सीतां त्व मित्युक्तेनासहायवान्

9.029

रामो विभीषणं मित्रं लङ्कैश्वर्ये ऽभ्यषेचयत् ।अप्_9.029अब्।
समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः

9.030

भेदयामास रामञ्च उवाचाब्धिः समागतः ।अप्_9.030अब्।
नलेन सेतुं बध्वाब्धौ लङ्कां व्रज गभीरकः

9.031

अहं त्वया कृतः पूर्वं रामो ऽपि नलसेतुना ।अप्_9.031अब्।
कृतेन तरुशैलाद्यैर् गतः पारं महोदधेः
वानरैः स सुवेलस्थः सह लङ्कां ददर्श वै

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc