भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 10

10.001

:ए इत्य् आदिमहापुराणे आग्नेये रामायणे सुन्दरकाण्डवर्णनं
नाम नवमो ऽध्यायः
% छप्तेर् {10}
:श् अथ दशमो ऽध्यायः
श्रीरामावतारवर्णनं
नाराद उवाच
रामोक्तश्चाङ्गदो गत्वा रावणं प्राह जानकी ।अप्_10.001अब्।
दीयतां राघवायाशु अन्यथा त्वं मरिष्यसि

10.002

रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः ।अप्_10.002अब्।
रामायाह दशग्रीवो युद्धमेकं तु मन्यते

10.003

रामो युद्धाय तच् छ्रुत्वा लङ्कां सकपिराययौ ।अप्_10.003अब्।
वानरो हनूमान् मैन्दो द्विविदो जाम्बवान्नलः

10.004

नीलस्तारोङ्गदो धूम्रः सुषेणः केशरी गयः ।अप्_10.004अब्।
:प् 23
पनसो विनतो रम्भः शरभः क्रथनो बली

10.005

गवाक्षो दधिवक्त्रश् च गवयो गन्धमादनः ।अप्_10.005अब्।
एते चान्ये च सुग्रीव एतैर् युक्तो ह्य् असङ्ख्यकैः

10.006

रक्षसां वानराणाञ्च युद्धं सङ्कुलमाबभौ ।अप्_10.006अब्।
राक्षसा वानरान् जघ्नुः शरशक्तिगदादिभिः

10.007

वानरा राक्षसाञ् जघ्नुर् नखदन्तशिलादिभिः ।अप्_10.007अब्।
हस्त्यश्वरथपादातं राक्षसानां बलं हतं

10.008

हनूमान् गिरिशृङ्गेण धूम्राक्षमबधीद्रिपुम् ।अप्_10.008अब्।
अकम्पनं प्रहस्तञ्च युध्यन्तं नील आबधीत्

10.009

इन्द्रजिच्च्छरबन्धाच्च विमुक्तौ रामलक्ष्मणौ ।अप्_10.009अब्।
तार्क्षसन्दर्शनाद्वाणैर् जघ्नतू राक्षसं बलम्

10.010

रामः शरैर् जर्जरितं रावणञ्चाकरोद्रणे ।अप्_10.010अब्।
रावनः कुम्भकर्णञ्च बोधयामास दुःखितः

10.011

कुम्भकर्णः प्रबुद्धो ऽथ पीत्वा घटसहस्रकम् ।अप्_10.011अब्।
मद्यस्य महिषादीनां भक्षयित्वाह रावणम्

10.012

सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः ।अप्_10.012अब्।
अतो गच्छामि युद्धाय रामं हन्मि सवानरम्

10.013

इत्युक्त्वा वानरान् सर्वान् कुम्भकर्णो ममर्द ह ।अप्_10.013अब्।
गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त सः

10.014

कर्णनासाविहीनो ऽसौ भक्षयामास वानरान् ।अप्_10.014अब्।
रामो ऽथ कुम्भकर्णस्य बाहू चिच्छेद शायकैः

10.015

ततः पादौ ततश्छित्वा शिरो भूमौ व्यपातयत् ।अप्_10.015अब्।
अथ कुम्भो निकुम्भश् च मकराक्षश् च राक्षसः

10.016

महोदरो महापार्श्वो मत्त उन्मत्तराक्षसः ।अप्_10.016अब्।
प्रघसो भासकर्णश् च विरूपाक्षश् च संयुगे

10.017

देवान्तको नरान्तश् च त्रिशिराश्चातिकायकः ।अप्_10.017अब्।
:प् 24
रामेण लक्ष्मणेनैते वानरैः सविभीषणैः

10.018

युध्यमानास्तया ह्य् अन्ये राक्षसा भुवि पातिताः ।अप्_10.018अब्।
इन्द्रजिन्मायया युध्यन् रामादीन् सम्बबन्ध ह

10.019

वरदत्तैर् नागबाणैः(1) ओषध्या तौ विशल्यकौ ।अप्_10.019अब्।
विशल्ययाब्रणौ कृत्वा मारुत्यानीतपर्वते

10.020

हनूमान् धारयामास तत्रागं यत्र संस्थितः ।अप्_10.020अब्।
निकुम्भिलायां होमादि कुर्वन्तं तं हि लक्ष्मणः

10.021

शरैर् इन्द्रजितं वीरं युद्धे तं तु व्यशातयत् ।अप्_10.021अब्।
रावणः शोकसन्तप्तः सीतां हन्तुं समुद्यतः

10.022

अविन्ध्यवारितो(2) राजा रथस्थः सबलो ययौ ।अप्_10.022अब्।
इन्द्रोक्तो मातली रामं रथस्थं प्रचकार तम्

10.023

रामरावणयोर्युद्धं रामरावणयोरिव ।अप्_10.023अब्।
रावणो वानरान् हन्ति मारुत्याद्याश् च रावणम्

10.024

रामः शस्त्रैस्तमस्त्रैश् च ववर्ध जलदो यथा ।अप्_10.024अब्।
तस्य ध्वजं स चिच्छेद रथमश्वांश् च सारथिम्

10.025

धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि ।अप्_10.025अब्।
पैतामहेन हृदयं भित्वा रामेण रावणः

10.026

भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः ।अप्_10.026अब्।
आश्वास्य तञ्च संस्कृत्य रामाज्ञप्तो विभीषणः

10.027

हनूमतानयद्रामः सीतां शुद्धां गृहीतवान् ।अप्_10.027अब्।
रामो वह्नौ प्रविष्टान्तां शुद्धामिन्द्रादिभिः स्तुतः

10.028

ब्रह्मणा दशरथेन त्वं विष्णू राक्षसमर्दनः ।अप्_10.028अब्।
इन्द्रोर्चितो ऽमृतवृष्ट्या जीवयामास वानरान्

10.029

:न्
1 नागपशैर् इति ख, चिह्नितपुस्तकपाठः
2 सुहृन्निवारित इति ख, चिह्नितपुस्तकपाठः
:प् 25
रामेण पूजिता जग्मुर् युद्धं दृष्ट्वा दिवञ्च ते ।अप्_10.029अब्।
रामो विभीषणायादाल् लङ्कामभ्यर्च्य वानरान्

10.030

ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः(1) ।अप्_10.030अब्।
दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः

10.031

भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः ।अप्_10.031अब्।
भरतेन नतश्चागाद् अयोध्यान्तत्र संस्थितः

10.032

वसिष्ठादीन्नमस्कृत्य कौशल्याञ्चैव केकयीम् ।अप्_10.032अब्।
सुमित्रां प्राप्तराज्यो ऽथ द्विजादीन् सो ऽभ्यपूजयत्

10.033

वासुदेवं स्वमात्मानम् अश्वमेधैर् अथायजत् ।अप्_10.033अब्।
सर्वदानानि स ददौ पालयामास सः प्रजाः

10.034

पुत्रवद्धर्मकामादीन् दुष्टनिग्रहणे रतः ।अप्_10.034अब्।
सर्वधर्मपरो लोकः सर्वशस्या च मेदिनी ।अप्_10.034च्द्।
नाकालमरणञ्चासीद् रामे राज्यं प्रशासति

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc