अग्नि पुराण · अध्याय 8
:ए इत्य् आदिमहापुराणे आग्नेये रामायणे
आरण्यककाण्डवर्णनं नाम सप्तमो ऽध्यायः
:न्
1 मृत्युर्न तद्वरमिति ख, ग, चिह्नितपुस्तकद्वयपाठः
2 प्रेषित इति ख, चिह्नितपुस्तकपाठः
3 विरथ इति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः
4 आह्वयामास इति ङ, चिह्नितपुस्तकपाठः
:प् 18
% छप्तेर् {8}
:श् अथ अष्टमो ऽध्यायः
श्रीरामावतारकथनं
नारद उवाच
रामः पम्पासरो गत्वा शोचन् स शर्वरीं ततः(1) ।अप्_8.001अब्।
हनूमता स सुग्रीवं(2) नीतो मित्रञ्चकार ह
सप्त तालान् विनिर्भिद्य शरेणैकेन पश्यतः ।अप्_8.002अब्।
पादेन दुन्दुभेः कायञ् चिक्षेप दशयोजनं
तद्रिपुं बालिनं हत्वा भ्रातरं वैरकारिणम् ।अप्_8.003अब्।
किष्किन्धां कपिराज्यञ्च रुमान्तारां समर्पयत्
ऋष्यमूके हरीशाय किष्किन्धेशो ऽब्रवीत्स च(3) ।अप्_8.004अब्।
सीतां त्वं प्राश्यसे यद्वत्(4) तथा राम करोमि ते
तच् छ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकार सः ।अप्_8.005अब्।
किष्किन्धायाञ्च सुग्रीवो यदा नायाति दर्शनं
तदाब्रवीत्तं रामोक्तं लक्ष्मणो व्रज राघवम् ।अप्_8.006अब्।
न स सङ्कुचितः पन्था येन बाली हतो गतः
समये तिष्ठ सुग्रीव मा बालिपथमन्वगाः ।अप्_8.007अब्।
सुग्रीव आह संसक्तो(5) गतं कालं न बुद्धवान्
इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः ।अप्_8.008अब्।
आनीता वानराः सर्वे सीतायाश् च गवेषणे
:न्
1 गौरवाच्छवरीनतः इति ङ, चिह्नितपुस्तकपाठः । शवरीं
तत इति ख, ग, चिह्नितपुस्तकपाठः
2 हनूमता वानरेन्द्रमिति ङ, चिह्नितपुस्तकपाठः
3 अब्रवीत्तत् इति ग, चिह्नितपुस्तकपाठः
4 प्राप्स्यसि यथा इति ख, चिह्नितपुस्तकपाठः
5 सुग्रीवमाह सङ्क्रुद्ध इति ख, ग, चिह्नितपुस्तकद्वयपाठः ।
सुग्रीव ऋद्धिसंसक्त इति ङ, चिह्नितपुस्तकपाठः
:प् 19
त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम् ।अप्_8.009अब्।
पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान्
इत्युक्ता वानराः पूर्व- पश्चिमोत्तरमार्गगाः ।अप्_8.010अब्।
जग्मू रामं ससुग्रीवम् अपश्यन्तस् तु जानकीम्
रामाङ्गुलीयं सङ्गृह्य हनूमान् वानरैः सह ।अप्_8.011अब्।
दक्षिणे मार्गयामास सुप्रभाया गुहान्तिके
मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम् ।अप्_8.012अब्।
ऊचुर्वृथा मरिष्यामो जटायुर्धन्य एवसः
सीतार्थे यो ऽत्यजत् प्राणान् रावणेन हतो रणे ।अप्_8.013अब्।
तच् छ्रुत्वा प्राह सम्पातिर् विहाय कपिभक्षणं
भ्रातासौ मे जटायुर्वै मयोड्डीनो ऽर्कमण्डलम् ।अप्_8.014अब्।
अर्कतापाद्रक्षितो ऽगात् दग्धपक्षो ऽहमब्भ्रगः
रामवार्ताश्रवात् पक्षौ जातौ भूयो ऽथ जानकीम् ।अप्_8.015अब्।
पश्याम्यशोकवनिका- गतां लङ्कागतां किल
शतयोजनविस्तीर्णे लवणाब्धौ त्रिकूटके ।अप्_8.016अब्।
ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0