भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 90

90.001

:ए इत्य् आदिमहपुराणे आग्नेये एकतत्त्वदीक्षाकथनं नाम
ऊननवतितमो ऽध्यायः
:प् 284
% छप्तेर् {90}
:श् अथ नवतितमो ऽध्यायः
अभिषेकादिकथनं
ईश्वर उवाच
शिवमभ्यर्च्याभिषेकं कुर्याच्छिष्यादिके श्रिये ।अप्_90.001अब्।
कुम्भानीशादिकाष्ठासु क्रमशो नव विन्यसेत्

90.002

तेषु क्षारोदं क्षीरोदं दध्युदं घृतसागरं ।अप्_90.002अब्।
इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान्(1)

90.003

निवेशयेद् यथासङ्ख्यमष्टौ विद्येश्वरानथ ।अप्_90.003अब्।
एकं शिखण्डिनं रुद्रं श्रीकण्ठन्तु द्वितीयकं

90.004

त्रिमूर्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमं ।अप्_90.004अब्।
सप्तमं सूक्ष्मनामानमनन्तं रुद्रमष्टमं

90.005

मध्ये शिवं समुद्रञ्च शिवमन्त्रं च विन्यसेत् ।अप्_90.005अब्।
यागालयान् दिगीशस्य रचिते स्नानमण्डपे

90.006

कुर्यात् करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रितां ।अप्_90.006अब्।
श्रीपर्णाद्यासने तत्र विन्यस्यानन्तमानसं

90.007

शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत् ।अप्_90.007अब्।
काञ्जिकौदनमृद्भस्मदूर्वागोमयगोलकैः

90.008

सिद्धार्थदधितोयैश् च कुर्यान्निर्मञ्छनं ततः ।अप्_90.008अब्।
क्षारोदानुक्रमेणाथ हृदा विद्येशशम्बरैः

90.009

कलसैः स्नापयेच्छिष्यं स्वधाधारणयान्वितं ।अप्_90.009अब्।
परिधाप्य सिते वस्त्रे निवेश्य शिवदक्षिणे

90.010

पूर्वोदितासने शिष्यं पुनः पूर्ववदर्चयेत् ।अप्_90.010अब्।
उष्णीषं योगपट्टञ्च मुकुटं कर्तरीं घटीं

90.011

अक्षमालां पुस्तकादि शिवकाद्यधिकारकं ।अप्_90.011अब्।
:न्
1 स्वादुगर्गोदानष्टसागरानिति क, ख, चिह्नितपुस्तकपाठः
:प् 285
दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाद्यप्रभृति त्वया

90.012

सुपरीक्ष्य(1) विधातव्यमाज्ञां संश्रावयेदिति ।अप्_90.012अब्।
अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरं

90.013

विघ्नज्वालापनोदार्थं कुर्याद्विज्ञापनां यथा ।अप्_90.013अब्।
अभिषेकार्थमादिष्टस्त्वयाहं गुरुमूर्तिना

90.014

संहितापारगः सो ऽयमभिषिक्तो मया शिव ।अप्_90.014अब्।
तृप्तये मन्त्रचक्रस्य पञ्चपञ्चाहुतीर्यजेत्

90.015

दद्यात् पूर्णां ततः शिष्यं स्थापयेन्निजदक्षिणे ।अप्_90.015अब्।
शिष्यदक्षिणपाणिस्था अङ्गुष्ठाद्यङ्गुलीः क्रमात्

90.016

लाञ्छयेदुपबद्धाय दग्धदर्भाग्रशम्बरैः ।अप्_90.016अब्।
कुसुमानि करे दत्वा प्रणामं कारयेदमुं

90.017

कुम्भे ऽनले शिवे स्वस्मिसंस्ततस्कृत्यमाविशेत् ।अप्_90.017अब्।
अनुग्राह्यास्त्वया शिष्याः शास्त्रेण सुपरीक्षिताः

90.018

भूपवन्मानवादीनामभिषेकादभीप्सितं ।अप्_90.018अब्।
आं श्रां श्रौं पशुं हूं फडिति अस्त्रराजाभिषेकतः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc