भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 73

73.001

:ए इत्य् आदिमहापुराणे आग्नेये स्नानादिविधिर्नाम द्विसप्ततितमो
ऽध्यायः ॥
% छप्तेर् {73}
:श् अथ त्रिसप्ततितमो ऽध्यायः
सूर्यपूजाविधिः
ईश्वर उवाच
वक्ष्ये सूर्यार्चनं स्कन्द कराङ्गन्यासपूर्वकं ।अप्_73.001अब्।
अहं तेजोमयः सूर्य इति ध्यात्वार्घ्यमर्चयेत्

73.002

पूरयेद्रक्तवर्णेन ललाटाकृष्टविन्दुना ।अप्_73.002अब्।
तं संपूज्य रवेरङ्गैः कृत्वा रक्षावगुण्ठनं

73.003

सम्प्रोक्ष्य तज्जलैर् द्रव्यं पूर्वास्यो भानुमर्चयेत् ।अप्_73.003अब्।
ओं अं हृद्वीजादि(1) सर्वत्र पूजनं दण्डिपिङ्गलौ

73.004

द्वारि दक्षे वामपार्श्वे ईशाने अं गणाय च ।अप्_73.004अब्।
अग्नौ गुरुं पीठमध्ये प्रभूतं चासनं यजेत्

73.005

अग्न्यादौ विमलं सारमाराध्यं परमं सुखं ।अप्_73.005अब्।
सितरक्तपीतनीलवर्णान् सिंहनिभान् यजेत्

73.006

पद्ममध्ये रां च दीप्तां रीं सूक्ष्मां रं जयांक्रमात्(2) ।अप्_73.006अब्।
रूं भद्रां रें विभूतीश् च विमलां रैममोघया

73.007

रों रौं विद्युता शक्तिं पूर्वाद्याः सर्वतोमुखाः ।अप्_73.007अब्।
:न्
1 ओं हां हृद्वीजादीति ख, चिह्नितपुस्तकपाठः
2 रुं जयां क्रमादिति ख, चिह्नितपुस्तकपाठः
:प् 209
रं मध्ये अर्कासनं स्यात् सूर्यमूर्तिं षडक्षरं

73.008

ओं हं खं खोल्कयेति यजेदावाह्य भास्करं ।अप्_73.008अब्।
ललाटाकृष्टमञ्जल्यां ध्यात्वा रक्तं न्यसेद्रविं

73.009

ह्रां ह्रीं सः(1) सूर्याय नमो मुद्रयावाहनादिकं ।अप्_73.009अब्।
विधाय प्रीतये विम्बमुद्रां गन्धादिकं ददेत्

73.010

पद्ममुद्रां बिल्वमुद्रां प्रदर्श्याग्नौ हृदीरितं ।अप्_73.010अब्।
ओं आं हृदयाय नमः अर्काय शिरसे तथा

73.011

भूर्भुवः स्वः सुरेशाय शिखायै(2) नैरृते यजेत् ।अप्_73.011अब्।
हुं कवचाय(3) वायव्ये हां नेत्रायेति(4) मध्यतः

73.012

वः अस्त्रायेति पूर्वादौ ततो मुद्राः प्रदर्शयेत् ।अप्_73.012अब्।
धेनुमुद्रा हृदादीनां गोविषाणा च नेत्रयोः

73.013

अस्त्रस्य त्रासनी योज्या ग्रहणां च नमस्क्रिया ।अप्_73.013अब्।
सों सोमं बुं बुधं वृञ्च जीवं भं भार्गवं यजेत्

73.014

दले पूर्वादिके ऽग्न्यादौ अं भौमं शं शनैश् चरं ।अप्_73.014अब्।
रं राहुं कें केतवे च गन्धाद्यैश् च खखोल्कया

73.015

मूलं जप्त्वार्घ्यपात्राम्बु दत्वा सूर्याय संस्तुतिः ।अप्_73.015अब्।
नत्वा पराङ्मुखञ्चार्कं(5) क्षमस्वेति ततो वदेत्

73.016

शराणुना फडन्तेन समाहत्याणुसंहृतिं(6) ।अप्_73.016अब्।
:न्
1 ह्रीं ह्रं ह्रैं स इति घ, चिह्नितपुस्तकपाठः
2 सुरेशाय ज्वालिनिशिखायै इति ख, चिह्नितपुस्तकपाठः
3 क्रूं कवचाय इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
4 ह्रीं नेत्रायेतीति ख, चिह्नितपुस्तकपाठः । भां नेत्रायेति ग,
चिह्नितपुस्तकपाठः
5 पराङ्मुखञ्चार्घ्यमिति ख, ग, चिह्नितपुस्तकपाठः
6 शवानुना फडन्तेन समाहृत्यानुसंहतिमिति ख,
चिह्नितपुस्तकद्वयपाठः । शवाणुना फडन्तेन समहत्यार्थं
संहतिमिति ग, चिह्नितपुस्तकपाठः
:प् 210
हृत्पद्मे शिवसूर्येतिसंहारिण्योपसंस्कृतिं(1)

73.017

योजयेत्तेजश् चण्डाय रविनिर्माल्यमर्पयेत् ।अप्_73.017अब्।
अभ्यर्च्यैशे(2) जपाद्ध्यानाद्धोमात्सर्वं रवेर्भवेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc