भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 72

72.001

:ए इत्य् आदिमहापुराणे आग्नेये विनायकपूजाकथनं नाम
एकसप्ततितमो ऽध्यायः ॥
% छप्तेर् {72}
:श् अथ द्विसप्ततितमो ऽध्यायः
स्नानविशेषादिकथनं
ईश्वर उवाच
वक्ष्यामि स्कन्द नित्याद्यं स्नानं पूजां प्रतिष्ठया ।अप्_72.001अब्।
खात्वासिना समुद्धृत्य मृदमष्टाङ्गुलां ततः

72.002

सर्वात्मना समुद्धृत्य पुनस्तेनैव पूरयेत् ।अप्_72.002अब्।
शिरसा पयसस्तीरे निधायास्त्रेण शोधयेत्(2)

72.003

तृणानि शिखयोद्धृत्य वर्मणा विभजेत्त्रिधा ।अप्_72.003अब्।
एकया नाभिपादान्तं प्रक्षाल्य पुनरन्यया

72.004

अस्त्राभिलब्धयालभ्य दीप्तया सर्वविग्रहं ।अप्_72.004अब्।
निरुद्धाक्षाणि पाणिभ्यां प्राणान् संयम्य वारिणि

72.005

निमज्यासीत हृद्यस्त्रं स्मरन् कालानलप्रभं ।अप्_72.005अब्।
:न्
1 विघ्नराजक इति ङ, चिह्नितपुस्तकपाठः
2 निजास्त्रेण विशोधयेदिति ख, ग, चिह्नितपुस्तकपाठः
:प् 204
मलस्नानं विशोधयेत्थं समुत्थाय जलान्तरात्

72.006

अस्त्रसन्ध्यामुपास्याथ विधिस्नानं समाचरेत् ।अप्_72.006अब्।
सारस्वतादितीर्थानां एकमङ्कुशमुद्रया

72.007

हृदाकृष्य तथा स्नाप्य पुनः संहारमुद्रया ।अप्_72.007अब्।
शेषं मृद्भागमादाय प्रविश्य नाभिवारिणि

72.008

वामपाणितले कुर्याद्भागत्रयमुदङ्मुखः ।अप्_72.008अब्।
अङ्गैर् दक्षिणमेकाद्यं पूर्वमस्त्रेण सप्तधा

72.009

शिवेन दशधा सौम्यं जपेद्भागत्रयं क्रमात् ।अप्_72.009अब्।
सर्वदिक्षु क्षिपेत् पूर्वं हूं फडन्तशरात्मना(1)

72.010

कुर्याच्छिवेन सौम्येन शिवतीर्थं भुजक्रमात् ।अप्_72.010अब्।
सर्वाङ्गमङ्गजप्तेन मूर्धादिचरणावधि

72.011

दक्षिणेन समालभ्य पठन्नङ्गचतुष्टयम् ।अप्_72.011अब्।
पिधाय खानि सर्वाणि सम्मुखीकरणेन च

72.012

शिवं स्मरन्निमज्जेत हरिं गङ्गेति वा स्मरन् ।अप्_72.012अब्।
वौषडन्तषडङ्गेन के कुर्यादभिषेचनं

72.013

कुम्भमात्रेण रक्षार्थं पूर्वादौ निक्षिपेज्जलं ।अप्_72.013अब्।
स्नात्वा रजोपचारेण सुगन्धामलकादिभिः

72.014

स्नात्वा चोत्तीर्य तत्तीर्थं संहारिण्योपसंहरेत् ।अप्_72.014अब्।
अथातो विधिशुद्धेन संहितामन्त्रितेन च

72.015

निवृत्यादिविशुद्धेन भस्मना स्नानमाचरेत् ।अप्_72.015अब्।
शिरस्तः पादपर्यन्तं ह्रूं फडन्तशरात्मना(2)

72.016

तेन कृत्वा मलस्नानं विधिस्नानं समाचरेत् ।अप्_72.016अब्।
:न्
1 क्रूं फडन्तशरात्मना इति ख, ङ,
चिह्नितपुस्तकद्वयपाठः
2 क्रूं फडन्तशरात्मना इति ख, ङ,
चिह्नितपुस्तकद्वयपाठः
:प् 205
ईशतत्पुरुषाघोरगुह्यकाजातसञ्चरैः(1)

72.017

क्रमेणोद्धूनयेन्मूर्ध्नि वक्त्रहृद्गुह्यविग्रहात् ।अप्_72.017अब्।
सन्ध्यात्रये निशीथे च वर्षापूर्वावसानयोः

72.018

सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् ।अप्_72.018अब्।
स्त्रीपुन्नपुंसकं शूद्रं विडालशशमूषिकम्

72.019

स्नानमाग्नेयकं स्पृष्ट्वा शुचा वुद्धूलकं चरेत् ।अप्_72.019अब्।
सूर्यांशुवर्षसम्पर्कैः प्राङ्मुखेनोर्ध्वबाहुना

72.020

माहेन्द्रं स्नानमैशेन कार्यं सप्तपदावधि ।अप्_72.020अब्।
गोसङ्घमध्यगः कुर्यात् खुरोत्खातकरेणुभिः(2)

72.021

पावनं नवमन्त्रेण स्नानन्तद्वर्मणाथवा ।अप्_72.021अब्।
सद्योजातादिभिर्मन्त्रैर् अम्भोभिरभिषेचनम्

72.022

मन्त्रस्नानं भवेदेवं वारुणाग्नेययोरपि ।अप्_72.022अब्।
मनसा मूलमन्त्रेण प्राणायामपुरःसरम्

72.023

कुर्वीत मानसं स्नानं सर्वत्र विहितं च यत् ।अप्_72.023अब्।
वैष्णवादौ च तन्मन्त्रैर् एवं स्नानादि कारयेत्

72.024

सन्ध्याविधिं प्रवक्ष्यामि मन्त्रैर् भिन्नैः समं गुह ।अप्_72.024अब्।
संवीक्ष्य त्रिः पिवेदम्बु ब्रह्मतीर्थेन शङ्करैः

72.025

स्वधान्तैर् आत्मतत्त्वाद्यैस्ततः खानि स्पृशेद्धृदा ।अप्_72.025अब्।
शकलीकरणं कृत्वा प्राणायामेन संस्थितः

72.026

त्रिः समावर्तयेन् मन्त्री मनसा शिवसंहितां ।अप्_72.026अब्।
आचम्य न्यस्य सन्ध्याञ्च ब्राह्मीं प्रातः स्मरेन्नरः(3)

72.027

हंसपद्मासनां रक्तां चतुर्वक्त्रां चतुर्भुजां ।अप्_72.027अब्।
:न्
1 गुह्यकाजातसंरवैर् इति ख, चिह्नितपुस्तकपाठः
2 तत्खरोत्खातरेणुभिरिति ख, चिह्नितपुस्तकपाठः
3 स्मरेत्तत इति ग, चिह्नितपुस्तकपाठः
:प् 206
प्रस्कन्दमालिनीं दक्षे वामे दण्डकमण्डलुं

72.028

तार्क्ष्यपद्मासनां ध्यायेन्मध्याह्ने वैष्णवीं सितां ।अप्_72.028अब्।
शङ्खचक्रधरां वामे दक्षिणे सगदाभयं

72.029

रौद्रीं ध्यायेद् वृषाब्जस्थां त्रिनेत्रां शशिभूषितां ।अप्_72.029अब्।
त्रिशूलाक्षधरां दक्षे वामे साभयशक्तिकां

72.030

साक्षिणीं कर्मणां सन्ध्यां(1) आत्मानंतत्प्रभानुगं ।अप्_72.030अब्।
चतुर्थी ज्ञानिनः सन्ध्या निशीथादौ विभाव्यते

72.031

हृद्बिन्दुब्रह्मरन्ध्रेषु अरूपा तु परे स्थिता ।अप्_72.031अब्।
शिवबोधपरा या तु सा सन्ध्या मरमोच्यते

72.032

पैत्र्यं मूले प्रदेशिन्याः कनिष्ठायाः प्रजापतेः ।अप्_72.032अब्।
ब्राह्म्यमङ्गुष्ठमूलस्थं तीर्थं दैवं कराग्रतः

72.033

सव्यपाणितले वह्नेस्तीर्थं सोमस्य वामतः ।अप्_72.033अब्।
ऋषीणां तु समग्रेषु अङ्गुलीपर्वसन्धिषु

72.034

ततः शिवात्मकैर् मन्त्रैः कृत्वा तीर्थं शिवात्मकं ।अप्_72.034अब्।
मार्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत्

72.035

वामपाणिपतत्तोययोजनं सव्यपाणिना ।अप्_72.035अब्।
उत्तमाङ्गे क्रमान्मन्त्रैर् मार्जनं समुदाहृतं

72.036

नीत्वा तदुपनासाग्रं दक्षपाणिपुटस्थितं ।अप्_72.036अब्।
बोधरूपं सितं तोयं वाममाकृष्य स्तम्भयेत्(2)

72.037

तत्पापं कज्जलाभासम्पिङ्गयारिच्य मुष्टिना ।अप्_72.037अब्।
क्षिपेद्वज्रशिलायान्तु तद्भवेदघमर्षणं

72.038

स्वाहान्तशिवमन्त्रेण कुशपुष्पाक्षतान्वितं ।अप्_72.038अब्।
शिवायार्घ्याञ्जलिन्दत्वा गायत्रीं शक्तितो जपेत्

72.039

:न्
1 दाक्षिण्यः कर्मणां सन्ध्या इति ख,
चिह्नितपुस्तकपाठः
2 कुम्भयेदिति ख, ङ, चिह्नितपुस्तकपाठः
:प् 207
तर्पणं सम्प्रवक्ष्यामि देवतीर्थेन मन्त्रकात् ।अप्_72.039अब्।
तर्पयेद्धौं शिवायेति स्वाहान्यान् स्वाहया युतान्

72.040

ह्रां हृद्याय ह्रीं शिरसे ह्रूं शिखायै ह्रैं कवचाय ।अप्_72.040अब्।
अस्त्रायाष्टौ देवगणान् हृदादित्येभ्य एव च

72.041

हां वसुभ्यो ऽथ रुद्रेभ्यो विश्वेभ्यश् चैव मरुद्भ्यः ।अप्_72.041अब्।
भृगुभ्यो हामङ्गिरोभ्य ऋषीन् कण्ठोपवीत्यथ

72.042

अत्रेये ऽथ वसिष्ठाय नमश्चाथ पुलस्तये(1) ।अप्_72.042अब्।
कृतवे भारद्वजाय विश्वामित्राय वै नमः

72.043

प्रचेतसे मनुष्यांश् च सनकाय वषट् तथा ।अप्_72.043अब्।
हां सनन्दाय वषट् सनातनाय वै वषट्

72.044

सनत्कुमाराय वषट् कपिलाय तथा वषट् ।अप्_72.044अब्।
पञ्चशिखाय द्युभवे संलग्नकरमूलतः

72.045

सर्वेभ्यो भूतेभ्यो वौषट् भूतान् देवपितॄनथ ।अप्_72.045अब्।
दक्षस्कन्धोपवीती च कुशमूलाग्रतस्तिलैः

72.046

कव्यबालानलायाथ सोमाय च यमाय च ।अप्_72.046अब्।
अर्यम्णे चाग्निसोमाय वर्हिषद्भ्यः स्वधायुतान्

72.047

आज्यपाय च सोमाय विशेषसुरवत् पितॄन् ।अप्_72.047अब्।
ओं हां ईशानाय पित्रे स्वधा दद्यात् पितामहे(2)

72.048

शान्तप्रपितामहाय तथाप्रेतपितॄंस् तथा ।अप्_72.048अब्।
पितृभ्यः पितामहेभ्यः स्वधाथ प्रपितामहे

72.049

वृद्धप्रपितामहेभ्यो मातृभ्यश् च स्वधा तथा ।अप्_72.049अब्।
हां मातामहेभ्यः स्वधा हां प्रमातामहेभ्यश् च

72.050

वृद्धप्रमातामहेभ्यः सर्वेभ्यः पितृभ्यस् तथा ।अप्_72.050अब्।
:न्
1 मरीचये पुलस्त्यायेति ङ, चिह्नितपुस्तकपाठः
2 हां ईशानाय पित्रे च सदाज्याय पितामहायेति ख,
चिह्नितपुस्तकपाठः
:प् 208
सर्भेभ्यः स्वधा ज्ञातिभ्यः सर्वाचार्येभ्य एव च ।अप्_72.050च्द्।
दिशां दिक्पतिसिद्धानां मातॄणां ग्रहरक्षसां

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc