भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 69

69.001

:ए इत्य् आदिमहापुराणे आग्नेये देवयात्रोत्सवकथनं नाम
अष्टषष्टितमो ऽध्यायः ॥
:न्
1 अर्चिकैर् इति ग, चिह्नितपुस्तकपाठः
:प् 199
% छप्तेर् {69}
:श् अथोनसप्ततितमो ऽध्यायः
स्नानविधानं
अग्निर् उवाच
ब्रह्मन् शृणु प्रवक्षामि स्नपनोत्सवविस्तरं ।अप्_69.001अब्।
प्रासादस्याग्रतः कुम्भान्मण्डपे मण्डले न्यसेत्

69.002

कुर्याद् ध्यानार्चनं होमं हरेरादौ च कर्मसु ।अप्_69.002अब्।
सहस्रं वा शतं वापि होमयेत् पूर्णया सह

69.003

स्नानद्रव्याण्यथाहृत्य कलशांश्चापि विन्यसेत् ।अप्_69.003अब्।
अधिवास्य सूत्रकण्ठान् धारयेन्मण्डले घटान्

69.004

चतुरस्रं पुरं कृत्वा रुद्रैस्तं प्रविभाज्येत्(1) ।अप्_69.004अब्।
मध्येन तु चरुं स्थाप्य पार्श्वे पङ्क्तिं प्रमार्जयेत्

69.005

शालिचूर्णादिनापूर्य पूर्वादिनवकेषु च ।अप्_69.005अब्।
कुम्भमुद्रां ततो बध्वा घटं तत्रानयेद् बुधः

69.006

पुण्डरीकाक्षमन्त्रेण दर्भांस्तांस्तु विसर्जयेत् ।अप्_69.006अब्।
अद्भिः पूर्णं सर्वरत्नयुतं मध्ये न्यसेद् घटं

69.007

यवव्रीहितिलांश् चैव नीवरान् श्यामकान् क्रमात् ।अप्_69.007अब्।
कुलत्थमुद्गसिद्धार्थांस्तच्छुक्तानष्टदिक्षु च

69.008

ऐन्द्रे तु नवके मध्ये घृतपूर्णं घटं न्यसेत् ।अप्_69.008अब्।
पलाशाश्वत्थन्यग्रोधविल्वोदुम्बरशीर्षां

69.009

जम्बूशमीकपित्थानां त्वक्कषायैर् घटाष्टकं ।अप्_69.009अब्।
आग्नेयनवके मध्ये मधुपूर्णं घटं न्यसेत्

69.010

गोशृङ्गनश्वगङ्गागजेन्द्रदशनेषु च ।अप्_69.010अब्।
तीर्थक्षेत्रखलेष्वष्टौ मृत्तिकाः स्युर्घटाष्टके

69.011

:न्
1 प्रविभावयेदिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः
:प् 200
याम्ये तु नवके मध्ये तिलतैलघटं न्यसेत् ।अप्_69.011अब्।
नारङ्गमथ जम्बीरं खर्जूरं मृद्विकां क्रमात्

69.012

नारिकेलं न्यसेत् पूगं दाडिमं पनसं फलं ।अप्_69.012अब्।
नैरृते नवके मध्ये क्षीरपूर्णं घटं न्यसेत्

69.013

कुङ्कुमं नागपुष्पञ्च चम्पकं मालतीं क्रमात् ।अप्_69.013अब्।
मल्लिकामथ पुन्नागं करवीरं महोत्पलं

69.014

पुष्पाणि चाप्ये नवके मध्ये वै नारिकेलकम् ।अप्_69.014अब्।
नादयेमथ सामुद्रं सारसं कौपमेव च

69.015

वर्षजं हिमतोयञ्च नैर्झरङ्गाङ्गमेव च ।अप्_69.015अब्।
उदकान्यथ वायव्ये नवके कदलीफलं

69.016

सहदेवीं कुमारीं च सिंहीं व्याघ्रीं तथामृतां ।अप्_69.016अब्।
विष्णुपर्णीं शतशिवां वचां दिव्यौषधीर्न्यसेत्

69.017

पूर्वादौ सौम्यनवके मध्ये दधिघटं न्यसेत् ।अप्_69.017अब्।
पत्रमेलां त्वचं कुष्ठं बालकं चन्दनद्वयं

69.018

लतां कस्तूरिकां चैव कृष्णागुरुमनुक्रमात् ।अप्_69.018अब्।
सिद्धद्रव्याणि पूर्वादौ शान्तितोयमथैकतः

69.019

चन्द्रतारं क्रमाच्छुक्लं गिरिसारं त्रपु न्यसेत् ।अप्_69.019अब्।
घनसारं(1) तथा शीर्षं पूर्वादौ रत्नमेव च

69.020

घृतेनाभ्यर्ज्य चोद्वर्त्य स्नपयेन्मूलमन्त्रतः ।अप्_69.020अब्।
गन्धाद्यैः पूजयेद्वह्नौ हुत्वा पूर्णाहुतिं चरेत्

69.021

बलिञ्च सर्वभूतेभ्यो भोजयेद्दत्तदक्षिणः ।अप्_69.021अब्।
देवैश् च मुनिभिर्भूपैर् देवं(2) संस्थाप्य चेश्वराः

69.022

:न्
1 घोषसारमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः
2 देवैश् च मुनिभिः सार्धमिति ङ, चिह्नितपुस्तकपाठः । दिव्यैश्
च बलिभिर्धूपैर् देवमिति घ, चिह्नितपुस्तकपाठः
:प् 201
बभूवुः स्थापित्वेत्थं स्नपनोत्सवकं चरेत् ।अप्_69.022अब्।
अष्टोत्तरसहस्रेण घटानां सर्वभाग् भवेत्

69.023

यज्ञावभृथस्नानेन पूर्णसंस्नापनं कृतम् ।अप्_69.023अब्।
गौरीलक्ष्मीविवाहादि चोत्सवं स्नानपूर्वकम्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc