भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 70

70.001

:ए इत्य् आदिमहापुराणे आग्नेये यज्ञावभृतस्नानं नाम
ऊनसप्ततितमो ऽध्यायः ॥
% छप्तेर् {70}
:श् अथ सप्ततितमो ऽध्यायः
वृक्षादिप्रतिष्ठाकथनं
भगवानुवाच
प्रतिष्ठां पादपानाञ्च वक्ष्ये ऽहं भुक्तिमुक्तिदां ।अप्_70.001अब्।
सर्वौषध्युदकैर् लिप्तान् पिष्टातकविभूषितान्

70.002

वृक्षान्माल्यैर् अलङ्कृत्य वासोभिरभिवेष्टयेत् ।अप्_70.002अब्।
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम्

70.003

हेमशलाकयाञ्जनञ्च वेद्यान्तु फलसप्तकम् ।अप्_70.003अब्।
अधिवासयेच्च प्रत्येकं घटान् बलिनिवेदनं

70.004

इन्द्रादेरधिवासो ऽथ होमः कार्यो वनस्पतेः ।अप्_70.004अब्।
वृक्षमध्यादुत्सृजेद्गां ततो ऽभिषेकमन्त्रतः

70.005

ऋग्यजुःसाममन्त्रैश् च वारुणैर् मङ्गलै रवैः(1) ।अप्_70.005अब्।
वृक्षवेदिककुम्भकैश् च(2) स्नपनं द्विजपुङ्गवाः

70.006

तरूणां यजमानस्य कुर्युश् च यजमानकः ।अप्_70.006अब्।
भूषितो दक्षिणां दद्याद्गोभूभूषणवस्त्रकं

70.007

:न्
1 वारुणमनुमिर्वररिति ङ, चिह्नितपुस्तकपाठः
2 वृक्षवेदीशकुम्भैस्तु इति ङ, चिह्नितपुस्तकपाठः
:प् 202
क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयं ।अप्_70.007अब्।
होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस् तथा

70.008

आचार्ये द्विगुणं दद्यात् पूर्ववन् मण्डपादिकम् ।अप्_70.008अब्।
पापनाशः परा सिद्धिर्वृक्षारामप्रतिष्ठया

70.009

स्कन्दायेशो यथा प्राह प्रतिष्ठाद्यं तथा शृणु ।अप्_70.009अब्।
सूर्येशगणशक्त्यादेः परिवारस्य वै हरेः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc