अग्नि पुराण · अध्याय 68
:ए इत्य् आदिमहापुराणे आग्नेये जीर्णोद्धारकथनं नाम
सप्तषष्टितमो ऽध्यायः ॥
:न्
1 भूषिताञ्च यजेद् गुरुरिति घ, चिह्नितपुस्तकपाठः
:प् 197
% छप्तेर् {68}
:श् अथ अष्टषष्टितमो ऽध्यायः
यात्रोत्सवविधिकथनं
भगवानुवाच
वक्ष्ये विधिं चोत्सवस्य स्थापिते तु सुरे चरेत् ।अप्_68.001अब्।
तस्मिन्नब्दे चैकरात्रं त्रिरात्रञ्चाष्टरात्रकं
उत्सवेन विना यस्मात् स्थापनं निष्फलं भवेत् ।अप्_68.002अब्।
अयने विषुवे चापि शयनोपवने गृहे(1)
कारकस्यानुकूले वा यात्रान्देवस्य कारयेत् ।अप्_68.003अब्।
मङ्गलाङ्कुररोपैस्तु गीतनृत्यादिवाद्यकैः
शरावघटिकापालीस्त्वङ्कुरारोहणे हिताः ।अप्_68.004अब्।
यवाञ्छालींस्तिलान् मुद्गान् गोधूमान् सितसर्षपान्
कुलत्थमाषनिष्पावान् क्षालयित्वा तु वापयेत् ।अप्_68.005अब्।
पूर्वादौ च बलिं दद्यात् भ्रमन् दीपैः पुरं निशि
इन्द्रादेः कुमुदादेश् च सर्वभूतेभ्य एव च ।अप्_68.006अब्।
अनुगच्छन्ति ते तत्र प्रतिरूपधराः पुनः
पदे पदे ऽश्वमेधस्य फलं तेषां न संशयः ।अप्_68.007अब्।
आगत्य देवतागारं देवं विज्ञापयेद् गुरुः
तीर्थयात्रा तु या देव श्वः कर्तव्या सुरोत्तम ।अप्_68.008अब्।
तस्यारम्भमनुज्ञातुमर्हसे देव सर्वथा
देवमेवन्तु विज्ञाप्य ततः कर्म समारभेत्(2) ।अप्_68.009अब्।
प्ररोहघटिकाभ्यान्तु वेदिकां भूषितां व्रजेत्
:न्
1 शयनोत्थापने गृहे इति ख, चिह्नितपुस्तकपाठः । शयनोत्थापने
हरेरिति ङ, चिह्नितपुस्तकपाठः
2 समाचरेदिति ग, चिह्नितपुस्तकपाठः
:प् 198
चतुःस्तम्भान्तु तन्मध्ये स्वस्तिके प्रतिमां न्यसेत् ।अप्_68.010अब्।
काम्यार्थां लेख्यचित्रेषु स्थाप्य तत्राधिवासयेत्
वैष्णवैः सह कुर्वीत घृताभ्यङ्गन्तु मूलतः ।अप्_68.011अब्।
घृतधाराभिषेकं वा सकलां शर्वरीं बुधः
दर्पणं दर्श्य नीराजं गीतवाद्यैश् च मङ्गलं ।अप्_68.012अब्।
व्यजनं पूजनं दीपं गन्धपुष्पादिभिर्यजेत्
हरिद्रामुद्गकाश्मीरशुक्लचूर्णादि मूर्ध्नि ।अप्_68.013अब्।
प्रतिमायाश् च भक्तानां सर्वतीर्थफलं धृते
स्नापयित्वा समभ्यर्च्य यात्राविम्बं रथे स्थितं ।अप्_68.014अब्।
नयेद्गुरुर् नदीर्नादैश्छत्राद्यै राष्ट्रपालिकाः
निम्नगायोजनादर्वाक् तत्र वेदीन्तु कारयेत् ।अप्_68.015अब्।
वाहनादवतार्यैनं तस्यां वेद्यान्निवेशयेत्
चरुं वै श्रपयेत् तत्र पायसं होमयेत्ततः ।अप्_68.016अब्।
अब्लिङ्गैः(1) वैदिकैर् मन्त्रैस्तीर्थानावाहयेत्ततः
आपो हिष्ठोपनिषदैः पूजयेदर्घ्यमुख्यकैः ।अप्_68.017अब्।
पुनर्देवं समादाय तोये कृत्वाघमर्षणं
स्नायान्महाजनैर् विप्रैर् वेद्यामुत्तार्य तं न्यसेत् ।अप्_68.018अब्।
पूजयित्वा तदह्ना च प्रासादं तु नयेत्ततः ।अप्_68.018च्द्।
पूजयेत् पावकस्थन्तु गुरुः स्याद्भुक्तिमुक्तिकृत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0