भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 64

64.001

:ए इत्य् आदिमहापुत्राणे आग्नेये
देवादिप्रतिष्ठापुस्तकप्रतिष्ठाकथनं नाम
त्रिषष्टितमोध्यायः
% छप्तेर् {64}
:श् अथ चतुःषष्टितमोध्यायः
कूपादिप्रतिष्ठाकथनं
भगवानुवाच
कूपवापीतडागानां प्रतिष्ठां वच्मि तां शृणु ।अप्_64.001अब्।
जलरूपेण हि हरिः सोमो वरुण उत्तम

64.002

अग्नीषोममयं विश्वं विष्णुरापस्तु कारणं ।अप्_64.002अब्।
हैमं रौप्यं रत्नजं वा वरुणं कारयेन्नरः

64.003

द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदं ।अप्_64.003अब्।
वामेन नागपाशं तं नदीनागादिसंयुतं

64.004

यागमण्डपमध्ये स्याद्वेदिका कुण्डमण्डिता ।अप्_64.004अब्।
तोरणं वारुणं कुम्भं न्यसेच्च करकान्वितं

64.005

भद्रके चार्धचन्द्रे वा स्वस्तिके द्वारि कुम्भकान् ।अप्_64.005अब्।
अग्न्याधानं चाप्यकुण्डे कृत्वा पूर्णां प्रदापयेत्

64.006

:प् 187
वरुणं स्नानपीठे तु ये ते शतेति संस्पृशेत् ।अप्_64.006अब्।
घृतेनाभ्यञ्जयेत् पश्चान्मूलमन्त्रेण देशिकः

64.007

शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः ।अप्_64.007अब्।
अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके

64.008

गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्झरं ।अप्_64.008अब्।
नदीतोयं पश्चिमे तु वायव्ये तु नदोदकं

64.009

औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवं ।अप्_64.009अब्।
अलाभे तु नदीतोयं(1) यासां राजेति मन्त्रयेत्(2)

64.010

देवं निर्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः(3) ।अप्_64.010अब्।
नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः

64.011

ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्पयेत् ।अप्_64.011अब्।
समुद्रज्येष्ठेत्यभिषिञ्चयेद्वरुणं पूर्वकुम्भतः

64.012

समुद्रं गच्छ गाङ्गेयात् सोमो धेन्विति वर्षकात् ।अप्_64.012अब्।
देवीरापो निर्झराद्भिर् नदाद्भिः पञ्चनद्यतः

64.013

उद्भिदद्भ्यश्चोद्भिदेन पावमान्याथ तीर्थकैः ।अप्_64.013अब्।
आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात्

64.014

आपो अस्मेति वर्षोप्त्यैर् व्याहृत्या कूपसम्भवैः ।अप्_64.014अब्।
वरुणञ्च तडागोप्त्यैर् वरुणाद्भिस्तु वश्यतः

64.015

आपो देवीति गिरिजैर् एकाशीविघटैस्ततः ।अप्_64.015अब्।
स्नापयेद्वरुणस्येति त्वन्नो वरुणा चार्घ्यकं

64.016

व्याहृत्या मधुपर्कन्तु वृहस्पतेति वस्त्रकं ।अप्_64.016अब्।
वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकं

64.017

:न्
1 नदीक्षोदमिति ख, चिह्नितपुस्तकपाठः
2 आसां रुद्रेति कीर्तयेदिति ङ, ग, चिह्नितपुस्तकपाठः
3 इन्द्रियेति विचक्षण इति ग, घ, चिह्नितपुस्तकपाठः
:प् 188
यद्वारण्येन पुष्पादि प्रदद्याद्वरुणाय तु ।अप्_64.017अब्।
चामरं दर्पणं छत्रं व्यजनं वैजयन्तिकां

64.018

मूलेनोत्तिष्ठेत्युत्थाप्य तां रात्रिमधिवासयेत् ।अप्_64.018अब्।
वरुणञ्चेति सान्निध्यं यद्वारण्येन पूजयेत्

64.019

सजीवीकरणं मूलात् पुनर्गन्धादिना यजेत् ।अप्_64.019अब्।
मण्डपे(1) पूर्ववत् प्रार्च्य कुण्डेषु समिदादिकं

64.020

वेदादिमन्त्रैर् गन्धाद्याश् चतस्रो धेनवो दुहेत् ।अप्_64.020अब्।
दिक्ष्वथो वै यवचरुं ततः संस्थाप्य होमयेत्(2)

64.021

व्याहृत्या वाथ गायत्र्या मूलेनामन्त्रयेत्तथा ।अप्_64.021अब्।
सूर्याय प्रजापतये द्यौः स्वाहा चान्तरिक्षकः

64.022

तस्यै पृथिव्यै देहधृत्यै इह स्वधृतये ततः ।अप्_64.022अब्।
इह रत्यै चेह रमत्या उग्रो भीमश् च रौद्रकः

64.023

विष्णुश् च वरुणो धाता रायस्पोषो महेन्द्रकः(3) ।अप्_64.023अब्।
अग्निर्यमो नैरृतो ऽथ वरुणो वायुरेव च

64.024

कुवेर ईशो ऽनन्तो ऽथ ब्रह्मा राजा जलेश्वरः ।अप्_64.024अब्।
तस्मै स्वाहेदं विष्णुश् च तद्विप्रासेति होमयेत्

64.025

सोमो धेन्विति षड् हुत्वा इमं मेति च होमयेत् ।अप्_64.025अब्।
आपो हि ष्ठेति तिसृभिरिमा रुद्रेति होमयेत्

64.026

दशादिक्षु बलिं दद्यात् गन्धपुष्पादिनार्चयेत् ।अप्_64.026अब्।
प्रतिमां तु समुत्थाप्य मण्डले विन्यसेद् बुधः

64.027

पूजयेद्गन्धपुष्पाद्यैर् हेमपुष्पादिभिः क्रमात् ।अप्_64.027अब्।
:न्
1 मण्डले इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
2 मूले त्वग्नौ च होमयेदिति ङ, चिह्नितपुस्तकपाठः
3 वायुः सोमो महेन्द्रक इति ङ, चिह्नितपुस्तकपाठः
:प् 189
जलाशयांस्तु दिग्भागे वितस्तिद्वयसम्मितान्

64.028

कृत्वाष्टौ स्थण्डिलान् रम्यान् सैकतान् देशिकोत्तमः ।अप्_64.028अब्।
वरुणस्येति मन्त्रेण साज्यमष्टशतं ततः

64.029

चरुं यवमयं हुत्वा(1) शान्तितोयं समाचरेत् ।अप्_64.029अब्।
सेचयेन्मूर्ध्नि देवं तु सजीवकरणं चरेत्

64.030

ध्यायेत्तु वरुणं युक्तं गौर्या नदनदीगणैः ।अप्_64.030अब्।
ओं वरुणाय नमो ऽभ्यर्च्य ततः सान्निध्यमाचरेत्

64.031

उत्थाप्य(2) नागपृष्ठाद्यैर् भ्रामयेत्तैः समङ्गलैः ।अप्_64.031अब्।
आपो हि ष्ठेति च क्षिपेत्त्रिमध्वाक्ते घटे जले

64.032

जलाशये मध्यगतं सुगुप्तं विनिवेशयेत् ।अप्_64.032अब्।
स्नात्वा ध्यायेच्च वरुणं सृष्टिं ब्रह्माण्डसञ्ज्ञिकां

64.033

अग्निवीजेन सन्दग्द्ध्य तद्भस्म प्लावयेद्धरां ।अप्_64.033अब्।
सर्वमपोमयं लोकं ध्यायेत् तत्र जलेश्वरं

64.034

तोयमध्यस्थितं देवं ततो यूपं निवेशयेत् ।अप्_64.034अब्।
चतुरस्रमथाष्टास्रं वर्तुलं वा प्रवर्तितं(3)

64.035

आराध्य देवतालिङ्गं दशहस्तं तु कूपके ।अप्_64.035अब्।
यूपं यज्ञीयवृक्षोत्थं मूले हैमं फलं न्यसेत्

64.036

वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशतिकं ।अप्_64.036अब्।
तडागे पञ्चविंशाख्यं जलमध्ये निवेशयेत्

64.037

यागमण्डपाङ्गेण वा यूपब्रस्केति मन्त्रतः (4) ।अप्_64.037अब्।
स्थाप्य तद्वेष्टयेद्वस्त्रैर् यूपोपरि पताकिकां

64.038

:न्
1 चरुं सचमसं हुत्वेति ख, चिह्नितपुस्तकपाठः
2 उत्थाय इति ख, ग, घ, चिह्नितपुस्तकपाठः
3 सुवर्तितमिति ङ, चिह्नितपुस्तकपाठः
4 यूपस्थानेति मन्त्रत इति ग, घ, ङ, चिह्नितपुस्तकपाठः
:प् 190
तदभ्यर्च्य च गन्धाद्यैर् जगच्छान्तिं समाचरेत् ।अप्_64.038अब्।
दक्षिणां गुरवे दद्याद्भूगोहेमाम्बुपात्रकं

64.039

द्विजेभ्यो दक्षिणा देया आगतान् भोजयेत्तथा ।अप्_64.039अब्।
आब्रह्मस्तम्बपर्यन्ता ये केचित्सलिलार्थिनः

64.040

ते तृप्तिमुपगच्छन्तु तडागस्थेन वारिणा ।अप्_64.040अब्।
तोयमुत्सर्जयेदेवं(1) पञ्चगव्यं विनिक्षिपेत्

64.041

आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतं ।अप्_64.041अब्।
तीर्थतोयं क्षिपेत् पुण्यं गोकुलञ्चार्पयेद्विजान्(2)

64.042

अनिवारितमन्नाद्यं सर्वजन्यञ्च कारयेत् ।अप्_64.042अब्।
अश्वमेधसहस्राणां सहस्रं यः समाचरेत्

64.043

एकाहं स्थापयेत्तोयं तत्पुण्यमयुतायुतं ।अप्_64.043अब्।.विमाने मोदते स्वर्गे नरकं न स गच्छति

64.044

गवादि पिवते यस्मात्तस्मात् कर्तुर् न पातकं ।अप्_64.044अब्।
तोयदानात्सर्वदानफलं प्राप्य दिवं यजेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc