अग्नि पुराण · अध्याय 47
:ए इत्य् आदिमहापुराणे आग्नेये शालग्रामादिमूर्तिलक्षणं नाम
षट्चत्वारिंशो ऽध्यायः
% छप्तेर् {47}
:श् अथ सप्तचत्वारिंशो ऽध्यायः
शालग्रामादिपूजाकथनं
भगवानुवाच
शालग्रामादिचक्राङ्कपूजाः सिद्ध्यै वदामि ते ।अप्_47.001अब्।
त्रिविधा स्याद्धरेः पूजा काम्याकाम्योभयात्मिका
मीनादीनान्तु पञ्चानां काम्याथो वोभयात्मिका(2) ।अप्_47.002अब्।
:न्
1 मध्यचक्राधः सूक्ष्मविन्दुक इति ङ,
चिह्नितपुस्तकपाठः
2 काम्यार्थेवोभयात्मकेति घ, चिह्नितपुस्तकपाठः
:प् 135
वराहस्य नृसिंहस्य वामनस्य च मुक्तये
चक्रादीनां त्रयाणान्तु शालग्रामार्चनं शृणु ।अप्_47.003अब्।
उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना
मध्यमा मूर्तिपूजा स्याच्चक्राब्जे चतुरस्रके ।अप्_47.004अब्।
प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः
कृतमुद्रात्रयश् चक्राद् वहिः पूवे गुरुं यजेत् ।अप्_47.005अब्।
आप्ये गणं वायवे च धातारं नैरृते यजेत्
विधातारञ्च कर्तारं हर्तारं दक्षसौम्ययोः ।अप्_47.006अब्।
विश्वक्सेनं यजेदीशे आग्नेये क्षेत्रपालकम्
ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवं ।अप्_47.007अब्।
पीठं पद्मं चार्कचन्द्रवह्न्याख्यं मण्डलत्रयं
आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत् ।अप्_47.008अब्।
अस्तेन च समस्तेन स्ववीजेन यजेत् क्रमात्
पूर्वादावथ वेदाद्यैर् गायत्रीभ्यां जितादिना ।अप्_47.009अब्।
प्रणवेनार्चयेत् पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत्
विश्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत् ।अप्_47.010अब्।
शालग्रामस्य प्रथमा पूजार्थो निष्फलोच्यते
पूर्ववत् षोडशारञ्च सपद्मं मण्डलं लिखेत् ।अप्_47.011अब्।
शङ्खचक्रगदाखड्गैर् गुर्वाद्यं पूर्ववद्यजेत्(1)
पूर्वे सौम्ये धनुर्वाणान् वेदाद्यैर् आसनं ददेत् ।अप्_47.012अब्।
शिलां न्यसेद् द्वादशार्णैस्तृतीयं पूजनं शृणु
अष्टारमब्जं विलिखेत् गुर्वाद्यं(2) पूर्ववद्यजयेत् ।अप्_47.013अब्।
:न्
1 चतुर्भिः पूर्ववद्यजेदिति ङ, चिह्नितपुस्तकपाठः
2 गन्धाद्यैर् इति ङ, चिह्नितपुस्तकपाठः
:प् 136
अष्टार्णेनासनं दत्वा तेनैव च शिलां न्यसेत् ।अप्_47.013च्द्।
पूजयेद्दशधा तेन गायत्रीभ्यां जितं तथा(1)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0